________________
सप्तमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
सप्तमः सर्गः। श्रीसनत्कुमारचक्रिचरितम् ॥
अस्तीह काश्चनपुरं दधानं काश्चनश्रियम् । भोगावत्यमरपुरी-लङ्कादिभ्योऽतिशायिनीम् ॥१॥ तत्रासीद् विक्रमयशा नाम प्रवरविक्रमः । रिपुंस्त्रैणाश्रुनीरेद्धंप्रतापेरम्मदो नृपः ॥२॥ तस्य पञ्चशतान्यासन्नन्तःपुरमृगीदृशाम् । यूथभर्तुर्द्विपस्येव करिण्यः प्रेमलालसाः ॥३॥ तदा चासीत् पुरे तसिन् सार्थवाहो महर्द्धिकः । नागदत्तोऽभिधानेन निधानमिव संपदाम् ॥ ४॥ सौभाग्यलावण्यवती रूपातिशयशालिनी । विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् ॥५॥ अन्योऽन्यं नीलिकारागप्रेमाणौ तौ विजहतुः । अव्याहतस्सरक्रीडासरसौ सारसाविव ॥६॥ काकतालीयन्यायेन कथमप्येकदा तु सा । दृपथं विक्रमयशोवसुधाभतुराययौ ॥७॥ तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुण्ट्यमानविवेकस्वश्वेतस्येवमचिन्तयत् ॥ ८॥ अहो !f विलोचने अस्या मृग्या इव मनोरमे । बन्धुरः केशपाशश्च कलाप इव केकिनः ॥९॥ पक्कविम्बं द्विधाभूतमिवोष्ठौ कोमलारुणौ । पीनोन्नतौ कुचावेतौ स्मरक्रीडाचलाविव ॥१०॥ प्रत्यग्रे इव च लते भुजे सरलकोमले । मध्यं नितान्तं क्षामं च मुष्टिग्राह्यं पैवेरिव ॥ ११॥ शेवलालीव रोमावल्यावर्त इव नाभ्यपि । नितम्बः पुलिनमिव लावण्यसरितस्त्वसौ ॥ १२ ॥ रम्भास्तम्भाविवोरू च पादौ च कमले इव । किमन्यत् सर्वमप्यस्या मनो हरति कस्य न ? ॥ १३॥ 15 जराविक्लवचित्तत्वादनौचित्येन वेधसा । निवेशिता क्वाप्यपात्रे शक्रस्तम्भः श्मशानवत् ॥ १४ ॥ एतामपहरिष्यामि क्षेप्स्याम्यन्तःपुरे निजे । अनौचित्यनिवेशित्वदोषः स्रष्टुः प्रयातु च ॥१५॥ एवं मनसि निश्चित्य कन्दर्पविधुरोऽथ ताम् । जग्राह विक्रमयशा यशो म्लानीचकार च ॥ १६ ॥ अन्तरन्तःपुरं क्षिप्त्वा रमयामास तां सदा । विचित्रसरलीलाभिरेकतानः स भूपतिः ॥ १७ ॥ आविष्ट इव भूतेन धत्तूरमिव लीढवान् । अपस्मारमिव प्राप्तो मदिरामिव पीतवान् ॥ १८॥
20 आघ्रात इव सर्पण सन्निपातमिवाप्तवान् । विधुरस्तद्वियोगेन सार्थवाहो बभूव सः॥१९॥ युग्मम् ॥ तया सह वियुक्तस्य सार्थवाहस्य तस्य च । संयुक्तस्य च नृपतेः कालोऽगाद् दुःखंसौख्यकृत् ॥ २० ॥ विष्णुश्रिया रममाणे नृपे तस्मिन्निरन्तरम् । ईय॑या कार्मणं चक्रुः क्रुद्धाः शुद्धान्तयोषितः ॥ २१ ॥ कार्मणेन च सा तेन क्षीयमाणा क्षणे क्षणे । मूलवम्येव लतिका जीवितेन व्यमुच्यत ॥ २२ ॥ नृपोऽपि मृत्युना तस्या जीवन्मृत इव स्थितः । प्रलापी च विलापी च नागदत्त इवाभवत् ॥ २३ ॥ 25 नादत्त चानले क्षेप्तुं विष्णुश्रियं मृतामपि । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन् ॥ २४ ॥ मत्रिणो मत्रयित्वाऽथ वञ्चयित्वा च भूपतिम् । अरण्ये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् ॥ २५ ॥ स्वमासीरधुनैवेह किं प्रिये ! न निरीक्ष्यसे । तिरोधानक्रीडयाऽलं "वियोगस्य वयस्यया ॥ २६ ॥
रिपुस्त्रीसमूहस्याश्रुनीरेण इन्द्रो दीप्तः प्रताप एवं इरम्मदो मेधाग्निर्यस्य सः। * °णासनी मु.॥ + द्धप्रयाहेर का, द्धप्रतपेर काद्वि०॥ दृशः । यू० संबृ०॥ "मभाजनम् मु.॥ भ्योऽन्यनी मु०॥ * 'गप्रमा संबृ०॥ निर्बाधकामक्रीडायां रससहितौ। ३ लुण्ड्यमानं विवेक एव स्वं धनं यस्य सः।।। विलोकने मु०॥, नेत्रे । ४ सुन्दरः ।
कुची चैतौ संवृ. का. ॥ ५ नूतने । तान्तमा मु०॥ ६ वज्रस्य । शेवाला' का.॥ ७ तल्लीनः । ८ सार्थवाहस्य दुःखकृत्, नृपतेश्च सुखकृदित्यर्थः। ९ शुद्धान्त:-अन्तःपुरम् । १० वमिः वमनम्। 8 "तं तद्विष्णुश्रीकलेवरं प्रि० मु.॥ वियोगस्य मित्ररूपया तिरोधानक्रीडयाऽलमित्यन्वयार्थः।"योगं वरिवस्यया का॥
त्रिषष्टि. ५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org