________________
१८६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व संतोषसिद्धौ संसिद्धाः प्रतिवस्तुविरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ३३६॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः। ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥ ३३७ ॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि शृङ्गे किमपि वर्तते ॥ ३३८॥ किं रागद्वेषसंकीर्ण किंवा विषयसंभवम । येने संतोषजं सौख्यं हीयेत शिवशर्मणः ॥ ३३९ ॥ परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः । मीलितामा विमृशन्तु संतोषास्वादजं सुखम् ॥ ३४०॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ ३४१॥ यच तीनं तपःकर्म कर्मनिमूलनं जगुः । सर्वं तदपि संतोषरहितं विफलं विदुः॥ ३४२॥ कृषि-सेवा-पाशुपाल्य-वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निवृतिमाप्यते ॥३४३॥
यत् संतोपवतां सौख्यं तृणसंस्तरशायिनाम् । न तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥ ३४४ ॥ 10 असंतुष्टास्तॆणायते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥ ३४५ ॥
आयासमानं नश्वयं चक्रिशक्रादिसंपदः । अनायासं च नित्यं च सुखं संतोषसंभवम् ।। ३४६॥ इति लोभं निराकर्तुं सर्वदोषनिकेतनम् । अद्वैतसौख्यसदनं सुधीः संतोषमाश्रयेत् ॥ ३४७ ॥ एवं जितकषायः सन्नत्रापि शिवसौख्यभाक् । परत्रावश्यमाप्नोति शिवं पुनरनश्वरम् ॥ ३४८॥ श्रुत्वैवं देशनां भर्तुः प्राज्याः पर्यव्रजञ्जनाः । सम्यक्त्वं तु हरिभजे श्रावकत्वं तु सीरभृत् ॥ ३४९॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्रभुः। चक्रेऽरिष्टः स्वामिपादपीठस्थो गणभृत् ततः ॥३५०॥ अन्ते द्वितीयपौरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ततो जग्मुः शक्र-विष्णु-बलादयः॥३५१॥ __ ततः स्थानादथान्यत्र सर्वातिशयशोभितः । भगवान् धर्मनाथोऽपि विजहार महीतलम् ॥ ३५२ ॥ चतुःषष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकानां तु द्वाषष्टिः सहस्राः सचतुःशताः ॥ ३५३ ॥
तथा चतुर्दशपूर्वभृतां नवशतानि तु । अवधिज्ञानभाजां तु त्रिसहस्री सपदशती ॥ ३५४ ॥ 20 मनःपयेयिणां पञ्चचत्वारिंशच्छतानि त । तथा शतानि तान्येव केवलज्ञानशालिनाम॥
जातवेक्रियलब्धीनां मुनीनां शतसप्ततिः। द्वे सहस्रे शतान्यष्टौ वादलब्धिमतां पुनः ॥ ३५६ ॥ लक्षद्वयी श्रावकाणां चत्वारिंशत्सहस्रयुक् । श्राविकाणां चतुर्लक्षी त्रयोदशसहस्रयुक् ॥ ३५७ ॥ वर्षलक्षद्वयं साधं वर्षद्वितयवर्जितम् । आकेवलाद् विहरतः परिवारोऽभवत् प्रभोः ॥ ३५८ ॥
ज्ञात्वा तु मोक्षसमयं स्वामी संमेतमेत्य च । समं मुनिशतेनाष्टयुतेनानशनं व्यधात् ।। ३५९ ॥ 25 मासान्ते ज्येष्ठविशदपञ्चम्यां पुष्यगे विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ ३६० ॥
श्रीधर्मस्वामिनस्तेषां श्रमणानां च तत्क्षणम् । चक्रुनिर्वाणमहिमोत्सवं शक्रादयः सुराः ॥ ३६१॥ अनन्तवामिनिर्वाणाद् धर्मनाथस्य निर्वृतिः । अजायत व्यतिक्रान्ते सागराणां चतुष्टये ॥ ३६२ ॥ कौमारेऽब्दलक्षे सार्धे राज्ये पञ्चाब्दलक्ष्यभूत् । सार्धा व्रते व्यब्दलक्षीत्यब्दलक्षा दश प्रभोः ॥३६३॥
तैस्तैः पुरुषसिंहोऽपि सिंहवद्धिंस्रकर्मभिः । पूर्णायुः कालतोऽगच्छत् षष्ठी नरकमेदिनीम् ॥ ३६४ ॥ 30 कौमारेऽस्य व्यब्दशती मण्डलित्वे शतानि तु । सार्धानि द्वादशाब्दानां सप्तत्यब्दी तु दिग्जये ॥३६५॥ राज्ये तु नवलक्ष्यष्टानवतिश्च सहस्रकाः। शतानि त्रीण्यशीतिश्चेत्यब्दलक्षा दशायुप
पि ॥ ३६६॥ ततो बलः सप्तदशाब्दलक्षायुर्विनाऽनुजम् । कथञ्चिजीवितं दधे भ्रातृस्नेहवशंवदः ।। ३६७ ॥
द्राक् सुदर्शनभृतोऽन्तदर्शनादाशोकविवशः सुदर्शनः।।
कीर्तिसाधुनिकटेग्रहीद् व्रतं पूरितायुरपुनर्भवं ययौ ॥ ३६८ ॥ 35 इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि
श्रीधर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरितवर्णनो नाम पञ्चमः सर्गः। १ प्रतिवस्तुथु वेराग्यवन्तः। २ येन सुखेन मोक्षसुखस्य सौख्यं हीयेत । * °वकर्मणः ॥ का. ॥ ३ प्रत्यायनम्-साधनं विवरणं पाणिग्रहणं वा । ४ तृणमिव आचरन्ति । ५ बहवः। ६ विससर्ज । + क्ष्यथ सा संबृ०॥ ते द्विलक्षी चेत्य संवृ. ॥ प्राक् सुका० ॥ ७ सुदर्शननामकं चक्रं विभर्ति तस्य अर्द्धचक्रिणोऽवसानविलोकनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org