________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३८५ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥ ३०२ ॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कथं सुखम् ॥ ३०३॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ३०४ ॥ अज्ञानामपि बालानामाजवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ।। ३०५ ॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्म हित्वा कः कृत्रिमं श्रयेत् ? ॥३०६।।5 छल-पैशून्य-वक्रोक्ति-वञ्चनाप्रवणे जने । धन्याः केचिनिर्विकाराः सुवर्णप्रतिमा इव ॥ ३०७ ॥ अपि श्रुताब्धिपारीणाः सर्वे गणभृत्तमाः । अहो ! शैक्षाश्चाश्रीषुरार्जवादहतां गिरः ॥३०८॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्नल्पीयोऽपि विव॑र्धते ॥ ३०९ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥३१०॥ इत्युग्रं कर्म कौटिल्यं कुटिलानां विभावयन् । आश्रयेजुतामेकां सुधीनिर्वृतिकाम्यया ॥ ३११॥ 10 आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थवाधकः ॥ ३१२ ॥ धनहानः शतमक सहस्र शतवानपि । सहस्राधिपतिलक्ष कोटिं लक्षेश्वरोऽपि च ॥३१३॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ ३१४ ॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तल्लोभः सराव इव वर्धते ॥ ३१५॥ हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ ३१६ ॥15 अहो! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ ३१७॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्च्छया ॥ ३१८॥ भुजङ्ग-गृह-गोधाः स्युर्मुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ३१९ ॥ पिशाच-मुगल-प्रेत-भूत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ।। ३२० ॥ भूषणोद्यानवाप्यादौ मूछितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ३२१ ॥ 20 प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ३२२ ॥ एकामिपाभिलाषेण सारमेया इव द्रुतम् । सोदा अपि युध्यन्ते धनलेशजिघृक्षया ॥ ३२३॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ ३२४॥ हास-शोक-द्वेष-हर्षानसतोऽप्यात्मनि स्फटम । स्वामिनोऽये लोभवन्तो नाटयन्ति नटा इव ॥ ३२५॥ आरभ्यते पूरयितुं लोभगतॊ यथा यथा । तथा तथा महचित्रं मुहुरेष विवधते ॥ ३२६ ॥ 25 अपि नामैष पूर्येत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ ३२७॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ ३२८ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ ३२९ ॥ मृदित्वा शास्त्रसर्वस्वं तदेतदवधार्यताम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः॥ ३३०॥ लोभसागरमुद्वेलेंमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ ३३१॥
30 यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ ३३२॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः ॥ ३३३॥ स्वाधीनं राज्यमुत्सृज्य संतोपामृततृष्णया । निःसंगत्वं प्रपद्यन्ते तत्क्षणाचक्रवर्तिनः ॥ ३३४ ॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं हि जृम्भते ॥ ३३५॥
जिह्मः सरलः। २ संसारे स्थितानामपीत्यर्थः। ३ स्वयं ज्ञयेम्। ४ व्यापादः-नाशः । * °त् कुतः सु का०॥ ५ सर्वशास्त्राणामर्थे परिनिष्टितं लग्नं मनो येषां तेषाम् । ६ श्रुतसमुद्रस्य पारगामिनः। ७ शिष्याः। 1 °वर्धयेत् ॥ संबृ. का.॥ ८ सर्वपापानाम् । ९ मूलैः। १० मुद्गलाः-व्यन्तरचिशेपाः । ११ आमिषम्-मांसम् , भक्ष्यं वा । १२ अधिकारिणः । १३ आच्छादाःवस्त्राणि । १४ लोभरहितस्य पुरुषस्य तपःसदृशं फलं भवत्यत एव तपांसि निरफलानि, लोभसहितस्य च तपस्सु तप्तेष्वपि फलं न भवतीति तपांसि निष्फलानीति भावः । ३५ नाशाय। १६ वेलां मर्यादामतिक्रान्तस्तम्। १७ यतेः सुखस्य प्रकर्षश्चक्रिणश्च दुःखस्येत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org