________________
३८२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्व चिरं व्यहाश्छिद्मस्थो गतछद्मा तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं दर्शनान्तरबाधकः ॥ २११॥ त्वद्देशनापयःपूरैः परितः प्लावितात्मनाम् । अह्नाय कर्ममालिन्यमपयाति शरीरिणाम् ॥ २१२॥ तथा न मेघच्छायासु तरुच्छायासु नापि वा । यथा शाम्यति संतापः पादमूले तव प्रभो ! ॥ २१३ ॥ इह त्वदर्शनालोकनिस्सन्दवपुषः प्रभो!। पाञ्चालिकावदुत्कीर्णा इव भान्ति शरीरिणः ॥ २१४ ॥ पृथग्विरुद्धमप्येतदेकत्र मिलितं चिरात् । त्वत्प्रभावाजगद्धन्धो ! बन्धूभूतं जगत्रयम् ॥ २१५ ॥ त्रिखण्डभरतक्षेत्रमूलायतनदैवत ! । अनन्यशरणानस्मांस्त्रायस्व परमेश्वर! ॥ २१६ ॥ भूयो भूयो जगन्नाथ ! त्वामदः प्रार्थयामहे । त्वत्पादपङ्कजद्वन्द्वेऽस्मन्मनो भ्रमरायताम् ॥ २१७ ॥ एवं स्तुत्वा विरतेषु शक्र केशव-सीरिषु । विदधे भगवान् धर्मस्वाम्येवं धर्मदेशनाम् ॥ २१८॥
__ चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः ॥२१९॥ 10 तत्त्वानुगा मतिर्ज्ञानं सम्यक्श्रद्धा तु दर्शनम् । सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ॥ २२० ॥
आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः । यत् तदात्मक एवैष शरीरमधितिष्ठति ॥ २२१॥ आत्मानमात्मना वेत्ति मोहत्यागाद् य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २२२ ॥ आमाऽज्ञानभवं दःखमात्मज्ञानेन हन्यते । तपसाऽप्यात्मविज्ञानहीनैइछेत्तं न शक्यते ॥ २२३
अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः॥ २२४ ॥ 15 अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ २२५ ॥
स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥२२६॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ २२७ ॥ वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्व-नरकप्रदाः ॥२२८॥
तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी" क्रोधः क्रोधः शमसुखार्गला ॥ २२९ ॥ 20 उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कुंशानुवत् पश्चादन्यं दहति वा न वा ॥ २३०॥
अर्जितं पूर्वकोट्या यद्वपैरष्टभिरूनया । तपस्तत्तत्क्षणादेव दहति क्रोधपावकः ॥ २३१॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥ २३२॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन क्रोधधूमो ध्यमलीकुरुतेतमाम् ॥ २३३ ॥
यो वैराग्यशमीपत्रपुटैः शमरसोऽर्जितः । शाकपत्रपुटाभेन क्रोधेनोत्सृज्यते स किम् ॥ २३४ ॥ 25 प्रवर्धमानः क्रोधोऽयं किमकार्यं करोति न । भाविनी द्वारका द्वैपायनक्रोधानले समित् ॥ २३५ ॥
क्रुध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत् फलम् ॥ २३६ ॥ स्वस्य लोकद्वयोच्छित्त्यै नाशाय स्व-परार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ॥ २३७ ॥ क्रोधान्धाः पश्य नियन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानमपि निघृणाः ॥ २३८ ॥
क्रोधवश्रेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमेकैव संयमारामसारणिः ॥ २३९ ॥ 30 अपकारिजने कोपो निरोढुं शक्यते कथम् । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥ २४० ॥
अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति । खकर्मनिहतायास्मै कः कुप्येत् बालिशोऽपि सन् ॥२४॥
गतं छद्म कपटं यस्य सः। २ शीघ्रम् । ३ मोक्षस्य । ४ योगः। * ज्ञानं तत्वावबोधः स्यात् स० संवृ० ॥ ५ यत् यस्मात् कारणात् दर्शन-ज्ञान-चारित्रात्मक एवैष आत्मा ॥ ६ आत्मनोऽज्ञानभवम् । ७ कषायेन्द्रियजेतारं तमात्मानमेव मोक्षमाहुः । / जन्मपर्यन्तम् । ९ संज्वलनो वीतरागत्वधातकः प्रत्याख्यानश्च यतित्वघातक इत्याद्यनुक्रमेण । १० संज्वलनो देवस्वप्रद इत्यादि । ११ मार्गः। १२ अग्निवत् । १३ अमर्षः क्रोधः स एव विषं तस्य संबन्धात्। १४ अतिशयेन मलिनीकुरुते। १५ काष्ठरूपा भविष्यति। १६ निबन्धनं कारणम् । १७ निर्दयाः। १८ संयम एवारामस्तस्य सारणिः कुल्या। १९ स्वेनैव कर्मणा निहताय । २० मूर्योऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org