________________
पचमः सर्गः ]
त्रिषष्टिशलाका पुरुषचरित महाकाव्यम् ।
३८३
5
प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥ २४२ ॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मंण्डलः । मृगारिः शरमुत्प्रेक्ष्य शरक्षेतारमृच्छति ॥ २४३ ॥ यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन किं श्रये पणश्रियम् ॥ २४४ ॥ भावी महावीरः क्षान्त्यै म्लेच्छेषु यास्यति । अयत्नेनागतां क्षान्ति वोढुं किमिव नेच्छसि ।। २४५ ॥ त्रैलोक्यप्रलयत्राणक्षमाश्चैदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ॥ २४६ ॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचनङ्गीकुरु क्षमाम् ॥ २४७ ॥ क्रोधान्धस्य मुनेश्वण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्वलधियां पदम् ।। २४८ ॥ महर्षिः क्रोधसंयुक्तः निःक्रोधः कूरगडुकः । ऋषिं मुक्त्वा देवताभिः स्तोप्यते क्रूरगड्डुकः ।। २४९ ।। अरुन्तुदैर्वचः शस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ २५० ॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः । बधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः ।। २५१ ।। 10 निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ।। २५२ ॥ सर्वपुरुषार्थचौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ २५३ ॥ सर्वेन्द्रियग्लानिकरं प्रसर्पन्तं ततः सुधीः । क्षमया जाङ्गुलिकया जयेत् कोपमहोरगम् ।। २५४ ।। विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्मानोऽन्थंकरणो नृणाम् ।। २५५ ।। जाति-लाभ - कुलैश्वर्य-चल-रूप- तपः श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ २५६ ॥ जातिभेदान्नैकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत जातु जातिमदं सुधीः ।। २५७ ॥ उत्तमां जातिमाप्नोति हीनामाप्नोति कर्मतः । तत्राशाश्वतिकीं जाति को नामासाद्य माद्यतु ।। २५८ ।। अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो नो लाभमदमुद्वहेत् ॥ २५९ ॥
प्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥ २६० ॥ अकुलीनानपि प्रेक्ष्य प्रज्ञा श्री शीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ।। २६१ ।। किं कुलेन कुशीलस्य सुशीलस्यापि तेनैं किम् । एवं विदन् कुलमदं विदध्यान विचक्षणः ।। २६२ ।। श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुर ग्राम धनादीनामैश्वर्ये कीदृशो मदः || २६३॥ गुणादपि श्येद् दोपवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं न मदाय विवेकिनाम् ॥ २६४ ॥ महाबलोsपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्यबले पुंसां युक्तो बलमदो न हि ।। २६५ ।। बलवन्तोऽपि जैरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत् ततो हन्त । तेषां बलमदो मुधा ॥ २६६ ॥ सप्तधातुमये देहे चयापचयधर्मणः । जरा-रुजादिभावस्य को रूपस्य मदं वहेत् ॥ २६७ ॥ सनत्कुमारस्य रूपं भावि श्रुत्वा च तत्क्षयम् । को वा सकर्णः स्वप्नेऽपि कुर्याद् रूपमदं किल ! ॥ २६८ ॥ नभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ? ।। २६९ ॥ येनैव तपसा त्रुट्ये 'रसा कर्मसंचयः । तेनैव मंददिग्धेन वर्धते कर्मसंचयः ॥ २७० ॥ स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ।। २७१ ॥ 30 श्रीमद्गुणधरेन्द्राणां श्रुत्वा निर्माणधारणम् । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥ २७२ ॥ उत्सर्पयन् दोपशाखां गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः ॥ २७३ ॥
१] श्वानः । २ शत्रुः । ३ भषणः श्वानः । * नेच्छति ॥ मु० ॥ ४ समर्था । ५ मर्मच्छिद्भिः । ६ सर्पापहारिण्या विद्यया । ७ भवान्तरे इत्यर्थः । जातिलाभमदं सु० [सं० ॥ ८ अनित्याम् । ९ परस्य राजादेः प्रसादः शक्तिः प्रभुत्वादिस्तदा देरुपये । १० कुलेन । ११ इन्द्रस्य । १२ नइयेत् । १३ कुलटास्त्रीवत् । १४ वृद्धत्वे । १५ आदिनाथस्य ऋषभस्य । १६ शीघ्रम् । १७ मदलितेन । १८ अन्यैराचार्यैः स्वयुद्ध्या लीलामात्रेण रचितानि शास्त्राण्याघ्राय किञ्चिज्ज्ञास्वेत्यर्थः । रणे । कः संवृ० ॥ १९ विस्तारयन् ।
Jain Education International
For Private & Personal Use Only
15
20
25
www.jainelibrary.org