________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३८१ अनुकम्प्योऽसि बालोऽसि का लज्जा तेऽपसर्पतः। तद्गच्छ मां वा सेवस्व किं ते श्वाऽपि न मन्त्रकृत् ? ॥१८०॥ चक्रेणानेन मुक्तेन दारयामि गिरीनपि । तवाभिनवकूष्माण्डकोमलस्य तु का कथा ? ॥ १८१ ॥ ऊचे पुरुषसिंहोऽथ तवेत्यूर्जितगर्जितम् । ओजश्चक्रस्य च प्रेक्ष्यमन्यास्त्रैः किं कृतं त्वया ? ॥ १८२ ॥ शैक्रधन्वेव मेघेन त्वया चक्रमिदं धृतम् । किं मे करिष्यते मूढ ! मुश्च पश्याम्यमोघताम् ॥ १८३ ॥ एवं पुरुषसिंहेन भाषितः परुषाक्षरम् । सर्वोजसाऽमुचच्चक्रं निशुम्भो निशुशुम्भिषुः ॥ १८४ ॥ 5 हरेरुरसि तुम्बाग्रभागेनास्फाल्य तद्रयात् । मोघीबभूव विन्ध्याद्रेस्तट्यामिव महागजः ॥ १८५॥ मूर्च्छया पुण्डरीकाक्षो मुकुलाक्षोऽपतत् ततः । मुंशलास्त्रेण सिषिचे चाथ गोशीर्षचन्दनैः ॥ १८६ ॥ उत्थाय लब्धसंज्ञस्तच्चक्रमादाय पाणिना । मा तिष्ठ गच्छ गच्छेति निशुम्भं प्रत्यभाषत ॥ १८७ ॥ मुश्च मुश्चेति वदतो निशुम्भस्य शिरस्ततः । चकर्त तेन चक्रेणार्धचक्री सोऽथ पञ्चमः ॥ १८८॥ पुष्पवृष्टिहरेर्मूर्ध्नि मूर्धन्यस्य तरविनाम् । पपात गगनात् सद्यो जयश्रीहाससन्निभा ॥ १८९॥ 10 तयैव यात्रया विष्णुर्भरतार्धमसाधयत् । सहस्रधा हि फलति व्यवसायो महात्मनाम् ॥ १९०॥ दिग्यात्राया निवृत्तोऽथ मगधेष्वागतो हरिः । दोष्णोद्दधे कोटिशिलां मृत्पात्रमिव लीलया ॥ १९१ ॥ मेदिनीं छादयन्नश्वैर्ययावश्वपुरं हरिः । विवेशितः पुरस्त्रीभिः कल्पितार्थः पदे पदे ॥ १९२ ॥ तत्र लाङ्गलिनाऽन्यैश्च राजभिभक्तिराजिभिः । अर्धचक्रधरत्वाभिपेकोऽक्रियत शाङ्गिणः ॥ १९३ ॥ ___ इतश्च भगवान् धर्मश्छद्मस्थो वत्सरद्वयम् । विहत्याभ्यागमद् दीक्षोपवनं वप्रकाञ्चनम् ॥ १९४ ॥ 15 दधिपर्णतले तत्र ध्यानान्तरंजुषः प्रभोः। पुष्ये मे पौषराकायां पष्ठेनाजनि केवलम् ॥ १९५ ॥ दिव्ये समवसरणे देशनां विदधे विभुः । अरिष्टादीन् गणभृतस्त्रिचत्वारिंशतं तथा ॥ १९६ ॥ तत्तीर्थभूः किंनराख्यख्यास्यः कूर्मरथोऽरुणः । दक्षिणैस्तु मातुलिङ्गिंगदाभृदभयप्रदैः ॥ १९७ ॥ वामैस्तु नकुलपद्माक्षमालामालिभिर्भुजैः । भ्राजिष्णुर्धर्मनाथस्य जज्ञे शासनदेवता ॥ १९८ ॥ तथोत्पन्ना च कन्दर्पा गौराङ्गी मत्स्यवाहना । उत्पलाङ्कुशधारिभ्यां दक्षिणाभ्यां विराजिता ॥ १९९ ॥20 दोम्यां तदितराभ्यां च पद्मिनाऽभयदेन च । प्रभोः शासनदेव्यासीत् सदा सनिधिवर्तिनी ॥२०॥ सेव्यमानः सदा ताभ्यां विहरन्नवनीमिमाम् । अपरेधुरुपागच्छत् पुरमश्वपुरं प्रभुः ॥ २०१॥ सद्यः समवसरणं चक्रे शक्रादिभिः सुरैः । चत्वारिंशत्पश्चधन्वशतोच्चाशोकपादपम ॥२०२॥ तत्र प्रविश्य कृत्वा च चैत्यवृक्षप्रदक्षिणाम् । नत्वा च तीर्थमध्यास्त पूर्वसिंहासनं प्रभुः ॥ २०३॥ रत्नसिंहासनस्थानि प्रतिबिम्बान्यथ प्रभोः। ताशि व्यन्तराश्चक्रुस्तिसृष्वन्यासु दिक्ष्वपि ॥ २०४॥ 25 यथास्थानं प्रविश्यास्थात् संघोऽपि स्वामिपर्षदि । तिर्यश्चो मध्यवग्रेऽस्थुस्तृतीये वाहनानि तु ॥ २०५॥ उपेत्य शीघ्रं पुरुषसिंहायोयुक्तपूरुषाः । स्वामिनं समवसृतमाख्यन्नुत्फुल्लचक्षुषः ॥ २०६॥ तेभ्यो द्वादश रुप्यस्य कोटीः सार्धा वितीर्य सः। आगात समवसरणं सुदर्शनसमन्वितः ॥ २०७॥ प्रभुं प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । साग्रजोऽनुसहस्राक्षमुपाविक्षधोक्षजः ॥ २०८ ॥ भूयोऽपि स्वामिनं नत्वा शक्रशाङ्गिसुदर्शनाः । स्वामिभक्तायसंतुष्टा इति तुष्टुवुरुन्मुदः ॥ २०९॥ विजयस्व जंगच्चक्षुश्चकोरानन्दचन्द्रमः! । मिथ्यात्वध्धान्तमार्तण्ड ! धर्मनाथ! जगत्पते ! ॥ २१ ॥
१ श्वाऽपि तव विचारदाता किं नास्ति । * °गर्वितम् । ओ० संवृ०॥ २ इन्द्रचापः। ३ हन्तुमिच्छुः । ४ विफलीबभूव ५ मुशलमत्रं यस्य तेन बलदेवेन । ६ बलवताम् । ७ मृत्तिकापात्रम् । । 'रमुपेयुकः । पु० संवृ०॥ ८ त्रिमुखः। रूयाक्षः कृ संयु.॥लिङ्गग संवृ०॥९ सेवकाः । १० विष्णुः। ११ सइर्षाः । १२ जगतां चक्षुरेव चकोरस्तस्यानन्दे चन्द्रसमः ।
त्रिषष्टि, ४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org