________________
३८० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व लघीयांसौ गरीयांसौ विधातव्यौ मया युवाम् । चिरं कृताया वां पित्रा भक्तरानृण्यमिच्छता ॥१५०॥ इत्युक्तयोस्तयोः क्रोधोऽभूच्छोकश्च न्यवर्तत । रसान्तरेण हि रसो वाध्यते बलवानपि ॥ १५१ ॥ ध्रुवमुन्नमयन्नेकां किश्चित् साचीकृतालिकः । अथावभाषे पुरुषसिंहः सिंह इव क्रुधा ॥ १५२ ॥
इक्ष्वाकुकुलचन्द्रस्य तस्य विश्वोपकारिणः । अस्मत्पितुरस्तमये कस्कोऽभून्न शुचां पदम् ? ॥ १५३ ॥ 5 राजानोऽन्येऽपि शुशुचुर्निशुम्भोऽपि शुशोच यत् । तेन पैशून्यमस्य स्याद् दद्याचेन्नेति वाचिकम् ॥ १५४॥
बालकस्यापि सिंहस्य को हि देशं प्रयच्छति । प्रवर्धयति तं को वा कुतस्तस्य पराभवः ॥ १५५ ॥ इदानीमावयोरेवं स जल्पन किं न लञ्जते । आप्तत्वव्याजतोऽस्माकं न्यकारी स द्विषन् खलु ॥ १५६ ।। सोऽस्तु मित्रममित्रो वोदासीनो वा तव प्रभुः । निरपेक्षा वयं तस्य दोरपेक्षैव दोष्मताम् ॥ १५७ ॥
दूतोऽप्यूचे पितृतुल्यममित्रीकुर्वतोऽद्य तम् । सुव्यक्तं बालकत्वं ते शैवे! शिवमनिच्छतः॥ १५८ ॥ 10 त्वमद्याप्यनभिज्ञोऽसि राजनीतेः कुमारक ! । उत्पादयस्यरिं तत् तं कुक्षिमामृज्य शूलवत् ॥ १५९ ॥
त्वदुक्तं स्वामिने नैतद् वक्ष्ये तत् कुरु मद्वचः । त्वत्प्रसादात् क्षेममस्तु चिरं ते सह बन्धुना ॥ १६० ।। अन्यथा तु द्विषन् भावी स एव न चिरात् तव । तस्मिन् रुष्टे तान्ते च जीवितस्यापि संशयः॥१६१॥ एवं तदुक्त्याऽभ्यधिकमुद्यत्क्रोधोऽभ्यधाद्धरिः । त्वमेव दूत ! दूतोऽसि निरपेक्षः स्वजीविते ॥ १६२ ॥
दूतानां वाक्प्रपञ्चैकच्छेकानां त्वादृशां गिरा । निर्विषः फेटयेवाहिः से भेषयति पार्थिवान् ॥ १६३॥ 15 गच्छ माऽसद्वचो गोप्यं शंस खस्वामिनेऽखिलम् । शत्रुर्भावीति सोऽस्माभिर्वध्यंकोटौ कृतोऽस्त्यलम्॥१६४॥
एवमुक्तः ससंरम्भमुत्थाय रभसेन सः । दूतो गत्वा निशुम्भाय सर्वमाख्यद् यथातथम् ॥ १६५ ॥ तदाकर्ण्य वचः क्रुद्धो निशुम्भोऽरिनिशुम्भनः । सेनाभिश्छादयन्नुर्वी प्रतस्थेऽश्वपुरं प्रति ॥ १६६ ॥ निशुम्भं प्रस्थितं श्रुत्वा विष्णुनाऽप्यरिजिष्णुना । सद्यः सर्वाभिसारेण प्रतस्थे साग्रजन्मना ।। १६७॥
निशुम्भ-पुरुषसिंहौ मिथः प्रमथनोद्यतौ । संगच्छेते स्मार्धमार्गे मत्ताविव वनद्विपौ ॥ १६८॥ 20 युध्यन्ते स द्वयोः सैन्याः क्षोभयन्तोऽपि रोदसी । क्ष्वेडी-कार्मुकटङ्कार-करास्फालनशब्दितैः ॥ १६९ ॥
अजनिष्ट क्षणेनापि क्षयकाल इव क्षयः । अक्षौहिण्योरुभयोरप्यात्मरक्षानपेक्षयोः ॥ १७० ॥ अन्वीयमानो हलिना पवनेनेव पावकः । पाञ्चजन्यमपूरिष्ट शार्ङ्गधन्वा रथस्थितः ॥ १७१ ॥ महता तन्निनादेन परसैन्यानि सर्वतः । पतन्कुलिशनिर्दोषेणेव घोरेण चुक्षुभुः ॥ १७२ ॥
तिष्ठ तिष्ठ अँटम्मन्येत्युच्चकैराक्षिपन्नथ । रथी प्रतिहरियोद्धमुपतस्थे हरिं प्रति ॥ १७३ ॥ 25 आस्फालयामासतुस्तौ हरि-प्रतिहरी धनुः । कोपानमन्निजनिजभ्रकुटीभङ्गभीषणम् ॥ १७४ ॥
अवर्षतामुभौ बाणैर्धारासारिवाम्बुदौ । सिंहनादेवासयन्तौ मृगीरिव नभश्चरीः ॥ १७५ ॥ निरन्तरं निपतितैर्विशिर्खप्रकरैस्तयोः । वभार रणभूर्वेत्रच्छन्नवारिधिविभ्रमम् ॥ १७६ ॥ करमुक्तैर्यत्रमुक्तैर्मुक्तामुक्तैरथापरैः । आयुधैर्युयुधाते तो युद्धाम्भोधितिमिङ्गिलौ ॥ १७७ ॥
बलज्वालालिजिह्वालं करालं तीक्ष्णधारया । वज्रीव वज्रं समार निशुम्भश्चक्रमुच्चकैः ॥ १७८ ॥ 30 स्मृतमात्रोपस्थितं तदङ्गल्या भ्रमयन् दिवि । साँवष्टम्भोऽभ्यधत्तैवं निशुम्भः क्षोभणं वचः ॥१७९ ।।
* कोपोऽभू° संवृ० का ॥ १ वक्रीकृतभालः। स्तिसम' संवृ. ॥ २ यदि स ईशं वाचिकं न दद्यात् ती स्य शुचो ज्ञापकं स्यात् तत्तु नास्तीति भावः । ति । तं प्रवर्धयते को हि कु । संबृ०॥ ३ तिरस्कर्ता । ४ भुजापेक्षा। ५ हे शिवपुत्र!। °क! तेनोत्पादयसेऽरिं तं संबृ०॥ ६ मद्वचनानुसरणरूपात् त्वत्प्रसादादित्यर्थः । ७ यमरूपे । ८ छेकश्चतुरः। ९ फणया। स हि भेषयते नृपान् । संवृ०॥ १० वध्यगणनायाम् । ११क्ष्वेडा सिंहशब्दः। १२ अग्निः । ११ कुलिशं वज्रम् । १४ आरमानं भटं मन्यमानः। १५ विद्याधरीः। १६ बाणसमूहैः। १७ युद्धमेव समुद्रस्तसिस्तिमिनिलो मत्स्य विशेषौ। १८ सगर्वः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org