________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३७९ इति ब्रुवाणां जननी जननी दुःखसंपदः । उपेत्य नत्वा च हरिया॑हरद् गद्गदाङ्करम् ॥ ११८॥ मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो ! विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥ ११९ ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक् परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे! ॥१२०॥ नालं क्षणमपि श्रोतुं विधवेत्यक्षराण्यहम् । कौसुम्भधारिणी यास्याम्यग्रतस्त्वत्पितुस्ततः ॥ १२१ ॥ कृतार्थ मेऽभवजन्म पत्या शिवमहीभुजा । पुत्र ! त्वया च पुत्रेण पञ्चमेनार्धचक्रिणा ॥ १२२॥ 5 पत्युर्विपत्तौ यास्यन्ति मत्प्राणाः स्वयमेव हि । त्यक्ष्यामि तान् प्रविश्यानौ मा भून्मे हीनसत्त्वता ॥१२३॥ तत्क्षत्रियकुलाचारमाचरन्त्या ममाधुना । मा स भूरन्तरायस्त्वं वत्स! वात्सल्यतोऽपि हि ॥ १२४ ॥ समं सुदर्शनेन त्वं पुत्र ! नन्द मंमाशिषा । पत्युरग्रे प्रयाम्येषा कृष्णवत्मैकवर्मना ॥ १२५ ॥ अन्तिमा प्रार्थनां तेऽद्य कुमारैनां करोम्यहम् । निषेधकं विधेरैस्य त्वया वाच्यं न किश्चन ॥ १२६ ॥ एवमुक्त्वा तु सा स्वामिविपच्छ्रवणकातरा । परलोकपुरद्वारं प्रवेष्टमनलं ययौ ॥ १२७॥ 10 दुःखानुवन्धिभिर्दुःखैः श्लथाङ्गो वीवधैरिव । समेऽपि प्रस्खलत्पादः पितुः पार्श्व ययौ हरिः॥१२८ ॥ स्मरन् खां मातरं पश्यंस्तथा पितरमातुरम् । प्रतीकारासहो विष्णुः क्लीबमान्यपतद् भुवि ॥ १२९ ॥ राजा दाहज्वरार्तोऽपि बभाषे धैर्यमाश्रयन् । किमेतद् वत्स! कातयं स्वकुलानुचितं तव ॥ १३० ॥ इयं हि त्वद्भुजाधारा वत्स ! देवी वसुंधरा । अधैर्यानिपतनस्यां कथं नाम न लजसे ॥ १३१ ॥ त्वय्युच्चैः पुरुषसिंह इत्याख्याकारिणो मम । अज्ञानकारितां मा दास्त्वमेवं धैर्यमुत्सृजन् ॥ १३२ ॥ 15 एवं शाङ्गिणमाश्वास्य शिवराजः शिवाशयः। कालधर्म ययौ सायं कः कालं जेतुमीश्वरः ॥१३३ ॥ श्रुत्वा च मूञ्छितो विष्णुः पपात धरणीतले । महाद्रुमो वात्ययेव वातेनेव च वातकी ॥ १३४॥ अथ सिक्तः पयस्कुम्भैलब्धसंज्ञो जनार्दनः। हा तात! तात! तातेति क्रन्दबुत्तिष्ठति स्म च ॥ १३५॥ न किं संतप्यते तेऽङ्गं गुणः कस्यौषधस्य वा । प्रत्ययः कस्य वैद्यस्य सुख निद्राऽथवाऽद्य किम् ॥१३६॥ हि तात! प्रसादं मे कृत्वेति स्नेहमोहितः । प्रललाप क्षणं विष्णुर्विललाप च तत्क्षणम् ॥ १३७ ॥ 20 शाभृिद् धैर्यमादाय गोत्रवृद्धैः प्रबोधितः । अग्नौ पित्रङ्गसंस्कारं चकारागुरुचन्दनैः ॥ १३८ ॥ विधाय च निवापादि स्वपर्षदि निषद्य च । बलाय प्राहिणोल्लेखं पितृव्यापत्तिसूचकम् ॥ १३९ ॥ तं प्रान्तभूपतिं दृप्तं साधयित्वा बलोऽपि हि । दुःखार्तस्तेन लेखेन त्वरमाणः समाययौ ॥१४०॥ अन्योऽन्यकण्ठलग्नौ तौ मुक्तकण्ठप्ररोदिनौ । बलदेव-वासुदेवो रोदयामासतुः सभाम् ॥ १४१॥ बोध्यमानावाप्तजनैः कथञ्चिद् धैर्यमापतुः । जहतुश्च पितुः स्नेहं मन्दं मन्दमुभावपि ॥ १४२॥ 25 तिष्ठन्तौ विचरन्तौ च जल्पन्तौ मौनसंस्थितौ । दृशोरिवाने पितरं तौ ध्येयवदपश्यताम् ॥ १४३ ॥
तावेवं यावदासाते पितृशोकसमाकुलौ । तावदागात् तत्र दूतो निशुम्भस्यार्धचक्रिणः ॥१४४ ॥ द्वाःस्थेन कथितः पूर्व प्रविश्य च तदाज्ञया । बलदेव-वासुदेवौ स नत्वैवमभाषत ॥ १४५॥ श्रुत्वा लोकाच्छिवराजं धर्मराजपथस्थितम् । दधार शोकमस्तोकं निशुम्भः सुप्रभुः स वः ॥ १४६ ॥ युष्मपितुः सरन् भक्ति स कृतज्ञशिरोमणिः । युष्मत्पार्श्वे प्राहिणोन्मामुपदिश्येति बाँचिकम् ॥१४७ ॥ 30 अद्यापि हि युवां बालौ द्विषां परिभवास्पदम् । पदं च युवयोः पित्र्यं महदेतन्मयाऽर्पितम् ॥ १४८ ॥ कुमारौ मामुपेत्येह तिष्ठतं निरुपद्रवौं । नदीमध्यस्थितानां हि किं करोति दवानलः ॥ १४९॥
१ जनयित्रीम् । * °क्षरः। संबृ० का०। २ वैद्यैरित्यर्थः। जमदाशि। मु०॥ ३ कृष्णवर्मा वहिः । ४ मरणस्य । ५ भारैः। ६ समप्रदेशेऽपि । ७ रोगपीडितम् । ८ रोगोपायासमर्थः । ९ भीरुत्वम् । °लं यातु मु.॥ १० झन्झावातेनेव । ११ वातरोगी पुमान् । दुःखितस्ते मु०॥ १२ उचैःवरम् । मौनिनावपि का०॥ १३ यमराजमार्गस्थितं सुतमित्यर्थः। १४ संदेशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org