________________
३७८
5
10
15
20
25
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ वर्ष
स्नेहात् पुरुषसिंहोऽपि तं प्रयाणानि कानिचित् । अन्वगात् प्रेमबन्धो हि वज्रलेपानुहारकः ॥ ८८ ॥ कथञ्चिद् बलभद्रेण प्रत्यादिष्टोऽनुयानतः । तत्रैवास्थाद्धरिः कष्टं यूथभ्रष्ट इव द्विपः ॥ ८९ ॥ विनोदैर्विविधैस्तत्र दुःखं भ्रातृवियोगजम् । स यावत् क्षपयंस्तस्थौ तावदागात् पितुः पुमान् ॥ ९० ॥ तेनार्पितं पितुर्लेखं मूर्धन्याधत्त माधवः । शीघ्रमागच्छ वत्सेति तत्रैक्षिष्टाक्षराण्यपि ॥ ९१ ॥
संभ्रान्तस्तमित्यूचे कच्चित् कुशलमम्बैयोः । कुशलं तातपादानां शीघ्राह्वानं च किं मम १ ॥ ९२ ॥ पुरुषोऽप्यब्रवीदेवमङ्गे दाहज्वरो महान् । उत्पन्नोऽस्तीति देवस्त्वां समाह्वयति सत्वरम् ॥ ९३ ॥ पितुर्दाहज्वरोदन्ताघ्रातात् सप्तच्छदादिव । विधुरः प्रास्थित हरिर्दुःखं नातः परं सताम् ॥ ९४ ॥ पेदे च द्वितीयेऽ नगरीं स्वां जनार्दनः । तादृग्दुःखं हि जात्यानां दवाग्नीयेत वर्त्मनि ॥ ९५ ॥ योज्यमानैः खण्ड्यमानैः क्वथ्यमानैरनेकशः । वर्त्यमानैश्च विविधैरौपधैर्व्यग्रकिङ्करम् ।। ९६ ॥ रसवीर्यविपाकज्ञैरौषधानां बलाबलम् | विचारयद्भिश्चतुरैर्वैद्यवयैरधिष्ठितम् ॥ ९७ ॥ आत्मरक्षै रक्ष्यमाणतुमुलं करसंज्ञया । द्वाःस्थैर्भूसंज्ञया दूरे स्थाप्यमानं भिषग्जनम् ॥ ९८ ॥ ज्वरार्तेनाश्रितं पित्रा प्रविश्य सदनं हरिः । आहरन्निव तद्दुःखमभृत् तद्दुःखदुःखितः ॥ ९९ ॥ ॥ चतुर्भिः कलापकम् ॥ प्राणमच्च पितुः पादौ पाणिभ्यां संस्पृशन् हरिः । बाष्पायमाणैर्नयनैः स्त्रपयन्निव भक्तितः ॥ १०० ॥ शिवः सुतकरस्पर्शाद् बाढमाश्वसिति स्म च । इष्टस्य दर्शनेनापि शं स्यात् स्पर्शेन किं पुनः १ ॥ १०१ ॥ भूयो भूयोऽपि शिवराट् संस्पृशन् पाणिना सुतम् । रोमाञ्च मधिकं दधे शैत्यमासादयन्निव ।। १०२ ॥ शिवराजोऽप्युवाचैवं कथं क्षामतरोदरः । शुष्काधरदलच त्वमुपदावमिव द्रुमः ॥ १०३ ॥
30
अथ विष्णोः पुमानूचे देव ! देवस्य दारुणाम् । श्रुत्वा दशामिमां सद्यस्त्वां द्रष्टुमचद्धरिः ॥ १०४ ॥ द्वाभ्यां दिनाभ्यां चात्रागाद भुञ्जानोऽपिवन् पयः । त्वत्पादान् संस्मरन् भक्त्या स्मृतविन्ध्य इव द्विपः ॥ १०५ आकर्ण्य तच्च द्विगुणं दुःखभागादिशच्छिवः । गण्डे पिकवच्चक्रे किमनर्थान्तरं त्वया । ॥ १०६ ॥ गत्वा सपरिवारोऽपि भोजनावसरं कुरु । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् ॥ १०७ ॥ एवं पित्रा समादिष्टो भूयो भूयोऽपि साग्रहम् । सदुःखो बुभुजे किञ्चिद् विष्णुः समददन्तिवत् ॥ १०८ ॥ श्रीखण्डमप्यनादायावसानश्वान्यवाससी । नाटयन्नतिदुःखेनावत ते नकुलस्थितम् ॥ १०९ ॥ भुक्तमात्रो निजावासात् पादचारी जनार्दनः । पितुर्जगाम सदनं दीनाशेषपरिच्छदः ॥ ११० ॥ युग्मम् ॥ तत्र च प्रविशन् विष्णुर्जननी द्वाःस्थयैकया । अग्रेभूत्वा सकरुणं व्यज्ञपीदमुदैश्रिया ॥ १११ ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ ११२ ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ ११३ ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसंचयाः ॥ ११४ ॥ मुक्तामया वज्रमया जात्यरत्नमयाच ये । संमिश्रा ये च नेपथ्यसमुद्रदायाः सहस्रशः ।। ११५ ।। यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ ११६ ॥ एत्युर्विपत्तौ वैधव्यसहाऽस्मि न मनागपि । अहं तदग्रे यास्यामीत्यनलः सज्यतां द्रुतम् ॥ ११७ ॥
१ वज्रलेपसदृशः । २ निषिद्धः । ३ मात्रोः । ४ कुलीनानाम् । * 'मानभि° का० । 'मानान्तिषजनम् । सं० ॥ + का आदर्श नास्ति पदद्वयम् । ५ सुखम् । ६ अतिशयेन कृशमुदरं यस्य सः । ७ दावानलसमीपे । 1 भागदि' सं० ॥ ८ स्फोटकस्योपरि स्फोटकवत् । ६ पिक इव चक्रे सं० ॥ ॥ पणुः सगद्गदं वदन् । सं० ॥ ९ मदसहितो गजो यथा सदुःखं स्वल्पं भुङ्क्ते तद्वत् । १० चन्दनम् । ११ अवत स्थाने नकुलस्थितित्रत् । ** दया । व्यवतीत्यर्थः । १३ मरणे ।
संवृ० का० ॥
१२ अयोग्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org