________________
पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३७७ लवलीपुष्पलवनव्यग्रारामिकदारकम् । मुचुकुन्दमरन्दोदबिन्दुसातिभूतलम् ।। ५८ ॥ बद्धोर्वीकं मरकतैरिवोन्मरुचकं ततः । प्रविवेश तदुद्यानं शिशिरश्रीमयं प्रभुः ॥ ५९॥
॥ चतुर्भिः कलापकम् ॥ माघशुक्लत्रयोदश्यां पुष्ये भे चापरेऽहनि । समं राजसहस्रेण पष्टेन प्रावजत् प्रभुः ॥ ६० ॥ द्वितीयेऽह्नि सौमनसे धर्मसिंहनृपौकसि । चकार परमान्नेन पारणं परमेश्वरः ॥ ६१॥ 5 दिव्यं समभवत् तत्र वसुधारादिपञ्चकम् । धर्मसिंहो व्यधाद् रत्नपीठं स्वामिपदावनौ ॥ ६२॥ निरपेक्षः शरीरेऽपि समीरण इवास्खलन् । ततः स्थानात प्रववृते मां विहर्तुं जगद्गुरुः ।। ६३ ॥
इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । राजा पुरुषवृषभोऽशोकायामभवत् पुरि ॥ ६४ ॥ सदा विरक्तः संसारात् तात्त्विकः साविसश्च सः । पर्यव्राजीत् पादमूले प्रजापालमहामुनेः॥६५॥ दुस्तपं स तपस्तस्वा प्राप्ते काले विपद्य च । अष्टादशसमुद्रायुः सहस्रारे सुरोऽभवत् ॥ ६६ ॥ 10 गतेषु तस्य देवस्यायुषः पोडशवार्धिषु । इहैव पोतनपुरे राजा विकट इत्यभूत् ॥ ६७ ॥ कुञ्जरः कुञ्जरेणेव विजिग्ये स्वभुजौजसा । रणाङ्गणे राजसिंहाभिधानेन स भूभुजा ॥ ६८॥ पराजयेन तेनाथ ह्रिया राज्यं स्वसूनवे । दत्वा गत्वा चातिभूलेः पादान्ते व्रतमाददे ॥ ६९ ॥ तपः स तीव्र तेपे च निदानमिति चाकरोत् । भवान्तरे राजसिंहोच्छेदाय स्यामहं ध्रुवम् ॥ ७० ॥ इत्थं कृतनिदानः सन् कालयोगाद् विपद्य सः । कल्पे द्वितीय उत्पेदे द्वयंर्णवायुः सुरोत्तमः ॥७१ ॥ 15 राजसिंहनृपः सोऽपि चिरं भ्रान्त्वा भवार्णवम् । भरतान्तहरिपुरे निशुम्भोऽभून्महीपतिः ॥७२॥ स कृष्णवर्णः पश्चाग्रचत्वारिंशद्धनून्नतः । दशवत्सरलक्षायुर्भुव्यभूदुग्रशासनः ॥ ७३ ॥ अपाम्भरतवर्षाधु साधयित्वैकलीलया । प्रतिविष्णुः सोऽर्धचक्री पञ्चमः समजायत ॥ ७४ ।।
इतश्चात्रैव भरते नगरेऽश्चपुराभिधे । शिवो नामाभवद् राजा शिवानामेकमास्पदम् ॥ ७५ ॥ तस्याभूतामु पत्न्यौभे नामतो विजयारमके । नितान्तं वल्लभे मूर्तिमत्यौ कीर्तिश्रियाविव ॥ ७६ ॥ 20 पुरुषवृषभजीवः सहस्रारादथ च्युतः । चतुःस्वमाख्यातबलजन्माऽऽगाद् विजयोदरे ॥ ७७॥ पूर्णे काले च विजयास्वामिनी सुषुवे सुतम् । अवदातं वपुष्मन्तमिव पत्युर्यशश्चयम् ॥ ७८ ॥ उत्सवेन गरिष्ठेन शिवोऽथ दिवसे शुभे । सुदर्शनत्वात् तस्याख्यां सुदर्शन इति व्यधात् ॥ ७९ ॥ इतो विकटजीवोऽपीशानकल्पात् परिच्युतः । सप्तस्वमाख्यातविष्णुजन्मागादम्मकोदरे ॥ ८ ॥ अमूत समये साऽपि तनयं पूर्णलक्षणम् । इन्द्रनीलमणिनीलं नीलोत्पलमिवापगा ॥ ८१ ॥ एष सिंहः पुरुषेषु पौरुषेणातिशायिना । ततोऽस्य पुरुषसिंह इत्याख्यामकरोन्नृपः ॥ ८२ ॥ धात्रीजनाल्यमानौ क्रीडन्तौ तौ परस्परम् । नीलपीताम्बरौ तालतााडौ वृद्धिमीयतुः ॥ ८३ ॥ तौ साक्षिणमुपाध्यायं कृत्वा जगृहतुः कलाः । सावधानौ खंनिखातसंनिधाननिधानवत् ॥ ८४ ॥ अभूतां कवचहरौ भ्रातरौ तौ क्रमेण च । प्रतिमल्लाविव द्यावापृथिव्योश्च व्यराजताम् ॥ ८५ ॥ परस्परं स्नेहलो तावश्विनाविव सोदरौ । अत्यन्तभक्तौ च पितुर्व्यवर्तेतां पदातिवत् ॥ ८६ ॥ 30
अन्यदा कस्यचिद् दर्पभाजः पर्यन्तभूपतेः । साधनाय शिवः प्रैपीद् दिव्यास्त्रमिव सीरिणम् ॥ ८७॥ १ लवलीपुष्पाणां लगने छेदने व्याकुला उद्यानपालबाला यस्मिंस्तत् । २ मुचुकुन्दपुष्पाणां मकरन्दस्य जलबिन्दुभिराई भूतलं यस्य तत् । ३ उत्फुल्ला मरुचकवृक्षा यस्मिंस्तत् । ४ तन्नाम्नि नगरे। * °सारे ता संबृ०॥ ५ तत्त्ववेत्ता । + "तेच काले वि. संबृ०॥ ६ द्विसागरोपमायुः। ७ कल्याणानाम् । ८ चतुर्भिः स्वग्नराख्यातं बलभद्रस्य जन्म येन सः । ९ निर्मलम् । महता। १० सुष्ठ दर्शनं यस्य तस्य भावस्तत्त्वं तस्मात् । °वोऽपि द्वितीयात् कल्पतश्युतः मु०॥११ नदी । अन्तौ च प सं.॥डो ताववर्धताम् । संवृ०॥१२ यथा स्वेन निखातं समीपस्थं निधानं गृह्णाति तद्वत्।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org