________________
३७६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[ चतुर्थ पर्व अभवत् तस्य पादाब्जोपासनेऽतिमधुव्रता । कलत्रं सुव्रता नाम लोकोत्तरसतीव्रता ॥ २७ ॥ कोकिलाभिः कलालापो हंसीभिर्गतिचातुरी । मृगीभिदृष्टिविक्षेपः शिक्षितानि ततो ध्रुवम् ॥ २८॥ लज्जा सहचरी तस्याः शीललक्ष्मीः प्रसाधिका । कोलीन्यं कञ्चकिवरः सहजोऽयं परिच्छदः ॥ २९ ॥ पतिभक्तिरलङ्कारस्तस्याः समुचिसोऽभवत् । अलङ्कार्यमलङ्कारजातं हारादि चापरम् ॥ ३० ॥ तदा च वैजयन्तस्थो जीवो दृढरथस्य सः । प्रकृष्टसुखनिमग्नो निजमायुरपूरयत् ॥ ३१ ॥ च्युत्वा ततो राधशुक्ल सप्तम्यां पुष्यगे विधौ । सुव्रतास्वामिनीकुक्षौ स जीवः समवातरत् ॥ ३२ ॥ गजप्रभृतिकांस्तीर्थकरजन्माभिसूचकान् । चतुर्दशमहास्वमांस्तदाऽदर्शच्च सुव्रता ॥ ३३ ।। माघशुक्लतृतीयायां पुष्ये भे वज्रलाञ्छनम् । स्वर्णवर्ण सुव्रतादेव्यस्त समये सुतम् ॥ ३४ ॥ दिक्कुमार्यः षट्पञ्चाशदेत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ३५ ॥ तत्कालं पालकारूढः सौधर्मेन्द्र उपेत्य च । आदाय स्वामिनं निन्ये मेरुपर्वतमूर्धनि ॥३६॥ अपि पाण्डकम्बलायां रत्नसिंहासने हरिः। आसानके स्वाइसिंहासनारोपिततीर्थकत ॥ ३७॥ अथाच्युतप्रभृतिभिस्त्रिपष्ट्या वासवैः प्रभोः । विधिवद् विदधे स्नानं पवित्रस्तीर्थवारिभिः ॥ ३८॥ ईशानाङ्के निवेश्येशं स्नपयामास वज्रभृत् । विलिप्य पूजयित्वा च स्तोतुं चेत्युपचक्रमे ॥ ३९ ॥
नमस्तुभ्यं पञ्चदशायाहते परमेश्वर !। परमध्येयरूपाय परमध्यायिनेऽपि च ॥ ४० ॥ देवेभ्यो दानवेभ्योऽपि मान् मन्ये गरीयसः । त्रैलोक्यवन्द्यो यत्र त्वमुदभूस्तीर्थनायकः ।। ४१ ॥ अपाग्भरतवर्षेऽस्मिन् ममाद्यैवास्तु मर्त्यता । मोक्षसाधनसाधीयस्त्वच्छिष्यत्वजिघृक्षया ॥ ४२ ॥ नारकेभ्यो नाकसदां को भेदः सुखिनामपि । भवेद् येषां प्रमत्तानां न भवत्पाददर्शनम् ॥ ४३ ॥ विजृम्भितं तावदेव घूकैरिव कुतीर्थिकैः । न यावत् त्रिजगन्नाथ ! रवेरिव तवोदयः ॥४४॥ तव वर्षाम्बुदस्येव धर्मदेशनवारिणा । भरतार्धं सर इवाशेषं पूरिष्यतेऽचिरात् ॥ ४५ ॥ अनन्तान् देहिनो मुक्तिं प्रापयन् परमेश्वर ! । अरिदेशमिवो-शस्त्वं कर्ता भवमुद्वसम् ॥ ४६ ॥ त्वत्पादपद्मलीनेन षट्पदेनेव चेतसा । भगवन् ! कल्पवासेऽपि प्रयान्तु मम वासराः ॥ ४७ ॥
स्तुत्वेति स्वामिनं शक्रो गृहीत्वेशानवासवात् । नीत्वा च सुव्रतादेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥४८॥ गर्भस्थेऽस्मिन् धर्मविधौ यन्मातुर्दोहदोऽभवत् । तेनास्य धर्म इत्याख्यामकार्षीद् भानुभूपतिः ॥ ४९ ॥
अत्यगाच्छैशवं स्वामी क्रीडन् सुरकुमारकैः । प्रापच्च यौवनं पश्चचत्वारिंशद्धनून्नतः ॥५०॥ 25 चिरेप्सितं पूरयितुं पित्रोः कौतूहलं प्रभुः । भोग्यकर्माणि भोक्तुं च चक्रे दारपरिग्रहम् ॥ ५१॥
वर्षलक्षद्वये साधे जन्मतोऽतिगते सति । पर्यग्रहीद् राज्यभारं स्वामी पित्रनुरोधतः ॥ ५२ ॥ पञ्चलक्षाणि वर्षाणां शशास वसुधां विभुः । प्राप्तकालां तदा दीक्षां चिन्तयामास च खयम् ॥ ५३॥ तीर्थं प्रवर्तय स्वामिनिति लौकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकं दानं दीक्षाऽनाद्या मुखं ददौ ॥ ५४ ॥
अभिषिक्तोऽमरैर्नागदत्ताख्यां शिविकां विभुः । अधिरुह्य ययौ रम्यमुद्यानं वप्रकाञ्चनम् ॥ ५५ ॥ 80 प्रियङ्गुमञ्जरीपुञ्जमत्तगुञ्जदलिवजम् । पुन्नागोत्ससंदर्भव्याकुलोद्यानपालिकम् ॥५६॥
पौराङ्गनामृज्यमानस्वमुखं रो-रेणुभिः । शोभितं पुष्पितैः कुन्दैः स्मरायुधगृहैरिव ॥ ५७ ॥
१ मधुव्रतं भ्रमरमतिक्रान्ता भ्रमरीसदृशीत्यर्थः । २ अलङ्कारपरिधापिनी दासी । ३ श्रेष्ठः कञ्जकी-अन्तःपुराध्यक्षः। * °कृष्टं सु° मु० ॥ निर्मग्नो संवृ० का० ॥ वासरत् । का० ॥ थिङ्कर का० ॥ ४ मोक्षसाधने साधीयः श्रेष्ठं तव शिष्यत्वं तद् ग्रहीतुमिच्छया। ५ देवानाम् । शनावा मु०॥ ६ शत्रुदेशं यथा राजा निर्जनं करोति तथैवायमपि संसारमुद्वसं नाशं करिष्यतीत्यर्थः। ७ प्रियङ्गुलतायाः मञ्जरीणां पुजे मत्तोऽत एवं गुञ्जमलिवजो भ्रमरसमूहो यसिंस्तत् । ८ पुनागपुष्पाणामलङ्कारमथने व्याकुला उद्यानपालस्त्रियो यसिंस्तत् ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org