________________
म: सर्ग: ]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । पञ्चमः सर्गः । श्रीधर्मनाथचरित्रम् |
धर्मगङ्गा हिमवतः कुतीर्थध्वान्तभाखतः । श्रीमतो धर्मनाथस्य चरणौ शरणं श्रये ॥ १ ॥ तस्यैव तीर्थनाथस्य चरित्रमिदमुच्यते । संसार सिन्धुतरणे सेतुबन्धवदयतम् ॥ २ ॥ धातकीखण्डद्वीपे प्राग्विदेहे भरताभिधे । विजये भद्रिलपुरं नाम्नाऽस्ति विपुलं पुरम् ॥ ३ ॥ तस्मिन् दृढरथो नाम महीपरिवृढोऽभवत् । दोर्भ्यां दृढाभ्यां भ्राजिष्णुर्दन्ताभ्यामिव कुञ्जरः ॥ ४ ॥ तेजांसि जसे राज्ञां ज्योतिषामिव भास्करः । तद्दण्डानां भाजनं च सोऽम्भोधिः सरितामिव ॥ ५ ॥ स महत्यपि साम्राज्ये नोत्सेकं जातुचिद् दधौ । विवेकी तूलतरलां जानन्नैद्रीमपि श्रियम् || ६ || तद्वैषयिकं सौख्यमाशुवन्नपि सोऽकरोत् । आगन्तुरिव संसारवासे नास्थां मनागपि ॥ ७ ॥ भोगेषूद्य वैराग्यः खशरीरेऽपि निःस्पृहः । स राज्यं प्राज्यमप्यौज्झच्छरीरमललीलया ॥ ८ ॥ संसारिकमहादुःखरोगैकभिषजस्ततः । ययौ स राजा विमलवाहनस्यान्तिकं गुरोः ॥ ९ ॥ तस्मादुपाददे रुच्या वेर्तनेनेव दुर्लभम् । चारित्ररत्नममलं स नृरत्न शिरोमणिः ॥ १० ॥ योगस्य मातरमिव समतामेव धारयन् । परीपहान् सहमानः स तेपे दुस्तपं तपः ॥ ११ ॥ आचान्तैः श्रुतगण्डूषैः पुण्यैस्तीर्थोदकैरिव । अपावयत् स आत्मानं विषयम्लेच्छदूषितम् ॥ १२ ॥ अद्भक्तिप्रभृतीनि स्थानकानि परामृशन् । सुधीरुपार्जयामास तीर्थकृन्नाम कर्म सः ॥ १३ ॥ काले च कृत्वाऽनशनं स विपद्य समाहितः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ॥ १४ ॥
३०५
इतश्च जम्बूद्वीपेऽस्मिन्नस्मिन् वर्षे च भारते । अस्ति रत्नपुरं नाम तत्तद्रत्नाकरः पुरम् ॥ १५ ॥ पार्श्वयो रेलसोपानरश्मिजालैर्मिथो युतैः । सेतुबद्धा इवाभान्ति तत्रोपवनदीर्घिकाः ॥ १६ ॥ सार्हच्चैत्यानि हैमानि सादर्शानि पदे पदे । तत्राख्यान्ति गृहाण्येव त्रिपुमर्थी सदोद्यताम् ॥ १७ ॥ स्मिन् मरकतैर्बद्धा शोभते मार्गभूर्निशि । प्रतिबिम्बितनक्षत्रा मुक्तास्वस्तिकभागिव ॥ १८ ॥ तत्रौकोनागदन्तानां कण्ठेष्विभ्यवधूजनैः । हाराः प्रलम्बिता यान्ति कण्ठाभरणरूपताम् ॥ १९ ॥ शीत मुद्यानवापीभिर्धर्मं हर्म्य महानसैः । वर्षा गजमदैर्विभ्रत् तत्कालत्रयभागिव ॥ २० ॥ तत्रासीन्नृपतिर्भानुर्भानुमानिव तेजसा । वैरिकक्षबृहद्भानुर्भानुच्चैरमलैर्गुणैः ॥ २१ ॥ परिमातुमलम्भूष्णुर्माभूदपि बृहस्पतिः । तांस्तांस्तरङ्गिणीनाथतरङ्गानिव तद्गुणान् ॥ २२ ॥ एकेन तेनतकरा नापश्यदपरं पतिम् । भूरियं कुलजातेव ललना शीलशालिनी ॥ २३ ॥ श्रियं स्वभावचपलां संयम्य मुँहदैर्गुणैः । खदोः स्तम्भे स्थिरीचक्रे स वारणवधूमिव ॥ २४ ॥ प्रौढप्रताप मार्तण्ड इव प्रत्यर्थिभूभुजाम् । संजहार स तेजांसि प्रदीपानामिवाभितः ॥ २५ ॥ विजेतुकामो नृपतीनध्यारोपयति स्म सः । न भ्रूलतामप्यलिके" किं पुनः कार्मुके गुणम् ।। २६ ।।
Jain Education International
१ कृतीर्थमिव ध्वान्तं तस्मिन् सूर्यसदृशस्य । * णं थिये । मु० ॥ न्धमिवाय संबृ० ॥ २ विस्तृतम् । ३ महीपालः राजा दुयर्थः । ४ तेषां राज्ञां दण्डानाम् । ५ गर्वम् । ६ तुलवच्चञ्चलाम् । ७ अतिथिवत् । ८ मूल्येन । ९ पीतैः श्रुताण्येव गण्डूषालुकास्तः । १० समाधिमान् । ११ रत्नमयपङ्कीनां किरणैर्बद्ध सेतुका इव वाप्यः शोभन्ते इत्यर्थः । १२ नागदन्ताः दन्तकाः 'खुंटी' इति भाषायाम् । १३ वैरिण एव कक्षास्तेभ्यः बृहद्भानुरभिरित्र, गृहीतो हस्तोऽन्यत्र षष्ठांशभागो यस्याः सा । १५ हस्तिनीपक्षे रज्जुभिः । १६ भाले ।
For Private & Personal Use Only
दोदिताम् । सं० का० ॥ भान् शोभमानः । १४ आत्तो
5
10
15
20
25
www.jainelibrary.org