SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं चतुर्थ पर्व अमावे हेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां ईये ।। २८५ ॥ सुरा-ऽसुर-नरेन्द्राणां यत् सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसंपदः ॥ २८६ ॥ इति मोक्षतत्वम् ।। एवं तवानि जानानो जनो जगति जातुचित् । न निमजति संसारे वारिधाविव तारकः ॥ २८७ ।। एवं देशनया भर्तुः प्राज्याः पर्यव्रजञ्जनाः । भेजे हरिस्तु सम्यक्त्वं श्रावकत्वं च सुप्रभः ॥२८८ ॥ ध्यासीवादिपौरुष्यां देशेनातो जगत्पतिः । यशास्तत्पादपीठस्थो गणभृद् देशनां व्यधात् ॥ २८९ ॥ तत्राप्यवस्पौरुभ्यां देशनाविरते सति । नत्वा प्रभुं ययुः स्वौकः शक्रोपेन्द्रबलादयः ॥ २९० ॥ ततः स्थानात् प्रभुरपि ग्रामा-ऽऽकर-पुरादिषु । प्रबोधयन् भव्यजन्तून् विजहार वसुन्धराम् ॥ २९१ ॥ षष्टिः षट च सहस्राणि श्रमणानां महात्मनाम । तथा चतुर्दशपूर्वभूतां नव शतानि च ॥ २९२ ॥ चनःसहस्त्री त्रिशती चावधिज्ञानशालिनाम । मनःपर्ययिणां पञ्च चत्वारिंशच्छतानि च ॥ २९३॥ तथा पश्च सहस्राणि केवलज्ञानधारिणाम । जातवैक्रियलब्धीनां सहस्त्राण्यष्टयोगिनाम ॥ २९४॥ त्रिसहस्री शते द्वे च वादलब्धिमतां पुनः । आर्यिकाणां सहस्राणि द्वापष्टिवीतपाप्मनाम् ॥ २९५ ॥ श्रावकाणां पुनर्लक्षद्वयं षष्टिः शतानि च । श्राविकाणां चतुर्लक्षी चतुर्दशसहरुयपि ॥ २९६ ॥ व्यब्दोनान्यब्दलक्षाणि सप्त सार्धानि केवलात् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ २९७ ॥ खं मोक्षकालं ज्ञात्वा तु संमेतादिममात् प्रभुः । साधुसप्तसहरुया च सहानशनमाददे ॥ २९८॥ मासान्ते चैत्रविशदपञ्चम्यां पौष्णगे विधौ । समं तैर्मुनिभिर्मोक्षं प्रपेदेऽनन्तजित् प्रभुः ॥ २९९ ।। स्वामिनः खामिशिष्याणां तेषां चाभ्येत्य वासवाः । सामराश्चक्रिरे तत्र निर्वाणमहिमोत्सवम् ॥ ३०॥ कौमारे सप्त लक्षाणि सार्धानि शरदामथ । पृथिवीपालने वर्षलक्षाणि दश पश्च च ॥ ३०१ ।। अर्धाष्टमावर्षलक्षाः प्रव्रज्यापरिपालने । इति त्रिंशद्वर्षलक्षाण्यनन्तजित आयुषि ॥ ३०२ ॥ 20 विमलखामिनिर्वाणादनन्तस्वामिनिवृतिः । व्यतिक्रान्तेषु नवसु वारिराशिष्वजायत ॥ ३०३ ॥ स त्रिंशद्वर्षलक्षायुर्विष्णुरत्युग्रकर्मभिः । तमःप्रभाख्यामगमत् षष्ठी नरकमेदिनीम् ॥ ३०४ ॥ कौमारेऽन्दसप्तशती मण्डलित्वे त्रयोदश । वर्षशतान्यथाशीतिर्वर्षाणि ककुभां जये ॥ ३०५ ॥ राज्येऽन्दानामथैकोनत्रिंशल्लक्षी सहस्रकाः । नवतिः सप्त च नवशती विंशतिरस्य तु ॥ ३०६ ॥ सुप्रभः पञ्चपञ्चाशद्वर्षलक्षायुरुचकैः । स्वभ्रातुरवसानेन दुःखितोऽस्थाचिरं भुवि ।। ३०७ ।। सोऽप्यथानुजविपत्तिविरक्त्याऽऽत्तव्रतो मुनिमृगाङ्कुशपायें । प्राप्य केवलमनन्तचतुष्की स्थानमापदपुनर्भवरूपम् ॥ ३०८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीअनन्तस्वामि-पुरुषोत्तम-सुप्रभ-मधुचरितवर्णनो नाम चतुर्थः सर्गः संपूर्णः। 15 25 * °ां जये।मु०॥ संवृ. का. आदर्शयोः पदद्वयं नास्ति ॥ १ बहवः। नान्ते ज० सं० का० ॥२ स्वस्वस्थानम् । पर्यायि संवृ०॥ ॥नां शताशीतिर्महात्मनाम् । संबृ. का० ॥ ३ नष्टपापानाम् । ४ विशदः-शुक्लः । ५ सार्धसतलक्षाः। ६ सागरोपमेषु । ** सुप्रभश्चाथ पश्चा संवृ०॥ ७ मोक्षरूपं स्थान प्राप्तः। धुवर्णनो मु०॥ संबृ० का० आदम्यो नात्येतत् पदम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy