________________
चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३७३ लोभाभिधः संपरायः सूक्ष्मकिट्टीकृतो यतः । स सूक्ष्मसंपरायः स्यात् क्षपकः शमकोऽपि च ॥ २६०॥ अथोपशान्तमोहः स्यान्मोहस्योमशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥ २६१ ॥ सयोगिकेवली घातिक्षयादुत्पन्न केवलः । योगानां च क्षये जाते स एवायोगिकेवली ॥२६२॥ इति जीवतत्त्वम्।। __ अजीवाः स्युर्धर्माधर्मविहायःकालपुद्गलाः । जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः ॥ २६३ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः। विना जीवमचिद्रूपा अकारश्च ते मताः ॥ २६४ ॥ 5 कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः॥२६५ ॥ पुद्गलाः स्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ॥ २६६ ।। बद्धाः स्कन्धाबन्ध-शब्द-सौक्ष्म्य-स्थौल्याकृतिस्पृशः।अन्धकारा-ऽऽतपोद्योतभेदच्छायात्मका अपि ॥२६७॥ कर्म-काय-मनो-भाषा-चेष्टितोच्छासदायिनः । सुखदुःख-जीवितव्य-मृत्यूपग्रहकारिणः ॥ २६८ ॥ प्रत्येकमेकद्रव्याणि धर्माधर्मों नभोऽपि च । अमूर्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ २६९ ॥ 10 एकजीवपरिमाणसंख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्माधर्मों व्यवस्थितौ ।। २७० ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद् धर्मः पानीयमिव यादसाम् ॥ २७१ ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा छायाऽध्धयायिनाम् ॥ २७२ ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ २७३ ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यकालः स उच्यते ॥ २७४ ॥ 15 ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ २७५ ॥ नवजीर्णादिरूपेण यदमी भुवनोदरे । पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् ॥ २७६ ॥ वर्तमाना अतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥ २७७ ॥
इति अजीवतत्त्वम् ॥ मनो-वचन-कायानां यत् स्यात् कर्म स आश्रवः । शुभः शुभस्य हेतुः स्वादशुभस्त्वशुभस्य सः ॥२७८॥20
इति आश्रवतत्त्वम् ॥ सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जैरणादिह निर्जरा ॥ २७९ ॥
इति संवर-निर्जरे तत्त्वे ॥ सकपायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याञ्जीवासातव्यकारणम् ॥ २८०॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ॥ २८१ ॥ 25 ज्ञान-दृष्ट्यावृती वेद्यं मोहनीयायुषी अपि । नाम-गोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ २८२ ॥ निष्कर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ॥ २८३ ॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुधादयः । योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ २८४ ॥
इति बन्धतत्वम् ॥
*संवृ०.का. आदर्शयो स्त्येतत् पदद्वयम् ॥ १ विहापः-आकाशास्तिकायः। २ प्रदेशसमूहरूपाः । ३ ज्ञानावरणीयादि कर्म। 1देशिकौ । संबृ०॥ °याधिया संबृ०॥ संबृ. का. आदर्शयोः 'इति' पदं नास्ति ॥ | °स्य च । संव०॥
संवृ० का. आदर्शयोः 'इति आश्रवतत्वम्' इत्यस्य स्थाने 'आश्रवः' इति पदम् ॥ ४क्षयात् । संवृ० का आदर्शयोः 'इति संवर-निर्जरे तत्वे' इत्यस्य स्थाने 'संवरनिर्जरे' इति पदम् ॥ ५ अस्य बन्धस्य चत्वारः प्रकाराः-प्रकृतिः, स्थितिः, अनुभावः, प्रदेशश्चेति । ६ ज्ञानावरणादिः। ७ ज्ञानावरणम् , दर्शनावरणं च। ८ जघन्यतः उत्कृष्टतश्च कर्मणां कालनियमः सा स्थितिः। निकषेमु०॥ ९ कर्मणां विपाकोऽनुभावः । **ऋदादयः संवृ० का०॥tt संबृ० का. आदर्शयोः 'इति' पदं नास्ति ।
त्रिषष्टि. ४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org