________________
३७२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदा जलौकसः । कपर्दाः शुक्तिकाद्याश्च विविधाः कृमयो मताः ॥२३४॥ युका-मन्कुण-मत्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः ॥ २३५ ॥ तिर्यग्योनिभवाः शेषा जल-स्थल-खचारिणः । नारका मानवा देवाः सर्वे पश्चेन्द्रिया मताः ॥ २३६ ॥ मनो-भाषा-कायबलत्रयमिन्द्रियपश्चकम् । आयुरुच्छासनिःश्वासमिति प्राणा दश स्मृताः ॥ २३७ ॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ॥ २३८ ॥ उपपाद(त)भवा देव-नारका गर्भजाः पुनः । जरायुःपोताण्डभवाः शेषाः संमूर्छनोद्भवाः ॥ २३९ ॥ संमूर्छिनो नारकाश्च जीवाः पापा नपुंसकाः । देवाः स्त्री-पुंसवेदाः स्युर्वेदत्रयजुषः परे ॥ २४० ॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोटा एवान्त्यास्तेभ्योऽन्ये व्यवहारिणः ॥ २४१॥ सचित्तः संवृतः शीतस्तदैन्यो मिश्रितोऽपि वा । विभेदैरान्तरैभिन्नो नवधा योनिरङ्गिनाम् ॥ २४२ ॥ प्रत्येकं सप्त लक्षाश्च पृथ्वी-चार्यग्नि-वायुषु । प्रत्येकानन्तकायेषु क्रमाद् दश चतुर्दश ॥ २४३ ॥ षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च श्वधि-तिर्यक्-सुरेषु तु ॥ २४४ ॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरी । केवलज्ञानदृष्टानि सर्वेषामपि जन्मिनाम् ॥ २४५ ॥ एकाक्षा बादराः सूक्ष्माः पञ्चाक्षाः संज्यसंज्ञिनः । स्युद्धि-त्रि-चतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४६ ॥ एतानि जीवस्थानानि मयोक्तानि चतुर्दश । मार्गणा अपि तावत्यो ज्ञेयास्ता नामतो यथा ॥ २४७ ॥ गतीन्द्रिय-काय-योग-वेद-ज्ञान-कुधादयः। संयमा-ऽऽहार-दृग्-लेश्या-भव्य-सम्यक्त्व-संज्ञिनः ॥२४८॥
मिथ्यादृष्टिः सास्वादन-सम्यमिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ २४९ ॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिबादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः ॥ २५० ॥ ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २५१॥ मिथ्यादृष्टिर्भवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥ २५२ ॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । सास्वादनसम्यग्दृष्टिः स्यादुत्कर्षात् षडावलीः ॥ २५३ ॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥ २५४ ॥ विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ २५५ ॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्त्या स्यातामान्तर्मुहर्तिकौ ।। २५६ ॥
कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः । तस्मादपूर्वकरणः क्षेपकः शैमकश्च सः ॥ २५७ ।। 25 यदादरकपायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिबादरोऽपि सः ॥२५८॥
परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः ॥ २५९ ॥
३ भूम्यन्तर्गतजन्तुविशेषाः, 'गंडोळां' भाषायाम् । २ युका-मत्कुण-मरकोट-लिक्षाद्याः-भाषायाम्-'जू', 'मांकड', 'बगई', 'लीख' । ३ यथा द्वीन्द्रियाणां कायाऽऽयुरुच्छासाः स्पर्शन-रसनेन्द्रियद्वयं भाषा चेति षट् प्राणास्तथैव त्रीन्द्रियाणां चतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च क्रमात् स्वस्वेन्द्रियवृख्या सप्ताष्टौ नव च प्राणाः संज्ञिनां तु मनःसहिता दशेति तात्पर्यम् । ४ ये जीवा जरायुःपोताण्डभवास्ते गर्भजाः कथ्यन्ते। ५ गर्भजाः प्राणिनः। ६ ये सूक्ष्भनिगोदास्तेऽव्यवहारिणः। ७ सचिसादन्योऽचित्तः, संवृतविवृतादम्यो विवृतः, शीतादन्य उष्णः । ८ सचित्ताचित्तः, संवृत विवृतः शीतोष्ण इत्यर्थः। * °क्षाणि पृ° संबृ०॥ ९ प्रत्येकवनस्पतिकायेषु दशलक्षा, अनन्तकायेषु-साधारणवनस्पतिकायेषु चतुर्दशलक्षाः। १० नारक-तिर्यक्-देवेषु । इरा। सर्वज्ञोपशमुक्तानि स० संवृ०॥ १ बादरेकेन्द्रियाः सूक्ष्मैकेन्द्रियाः, संज्ञिपञ्चेन्द्रियाः, असंज्ञिपञ्चेन्द्रियाः, द्वीन्द्रियाः, श्रीन्द्रियाः, चतुरिन्द्रियाश्चेति सप्त पर्याप्तास्तथैवापर्याप्ताश्चेति चतुर्दश जीवस्थानानि । नि जिनोक्ता संवृ०। १२ चतुर्वश ।
दादयः संबृ० का०॥ १३ क्रोधादयः कषायाः। १४ सम्यगमिथ्याग् इत्यस्य मिश्रगुणस्थानमित्यपि नामान्तरम् । १५ देशविरांतगुणस्थानम् । १६ अपूर्वकरणगुणस्थानमित्ययस्य नामान्तरम् । १७ उपशान्तमोहः इति नाम्ना प्रसिद्धिः। १८ सयोगिकेवली, १९ क्षपकश्रेणिकः। २० उपशमश्रेणिकः । २१ इममपूर्वकरणं प्रविष्टानां साधूनां यद्यस्माद बादरकषायाणां क्रोधादीनां परिणामा निवर्तन्तेऽतः स निवृत्तिबादरोऽपि कथ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org