________________
३७१
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । षट्कार्मुकशतोत्तुङ्गचैत्यपादपभूषितम् ॥ २०५॥ तत्र द्वारेण पूर्वेण प्रविश्यानन्तजिजिनः । त्रिः प्रदक्षिणयामास तमुच्चैश्चैत्यपादपम् ॥ २०६॥ कृत्वा तीर्थनमस्कारं पूर्वसिंहासने प्रभुः । प्रा खो न्यषदत् तस्थौ श्रीसंघश्च यथास्थिति ॥ २०७॥ खामिनः प्रतिरूपाणि त्रीणि दिक्षु तिसृष्वपि । रत्नसिंहासनस्थानि विचक्रुर्व्यन्तरामराः ॥२०८॥ तथा च समवसृतं तीर्थनाथं चतुर्दशम् । गत्वा शशंसुः पुरुषोत्तमायायुक्तपूरुषाः ॥२०९॥ 5 सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यः प्रदाय च । ययौ समवसरणं बलभद्रयुतो हरिः ॥२१॥ तत्र प्रदक्षिणीकृत्य तीर्थनाथं प्रणम्य च । अनुशकमुपाविक्षत् साग्रजः पुरुषोत्तमः ॥२११ ॥ भूयो नत्वा जिनेन्द्रं ते देवेन्द्रोपेन्द्रसीरिणः । भक्तिगद्गदया वाचा स्तोतुमारेभिरे ततः ॥ २१२ ॥ देहभाजां मनोवित्तं विषयैस्तस्करैरिव । तावदुल्लङ्ख्यते यावनं त्वमेषामधीश्वरः ॥ २१३ ॥ प्रेसर्पत्कोपतिमिरं दृशोऽन्धकरणं नृणाम् । दूरादपसरत्येव त्वदर्शनसुधाञ्जनात् ॥ २१४ ॥ 10 मानेन भूतेनेवात्तास्तावदज्ञाः शरीरिणः । यावद् भवद्वचो मत्र इव तैर्न हि शुश्रुवे ॥ २१५ ॥ त्वत्प्रसादात् त्रुटन्मायोनिगडानां शरीरिणाम् । संप्राप्तार्जवयानानां मुक्तिर्न हि दैवीयसी ॥ २१६ ॥ यथा यथा देहभाजो निरीहास्त्वामुपासते । चित्रं तथा तथा तेषामस्युत्कृष्टफलप्रदः ॥२१७ ॥ संसारसरितो राग-द्वेषौ द्वे श्रोतसी इव । तद्द्वीप इव माध्यस्थ्ये स्थीयते तव शासनात् ॥ २१८ ॥ देहिनां निर्वृतिद्वारप्रवेशोत्सुकचेतसाम् । मोहान्धकारदीपत्वं त्वं धारयसि नापरः ॥ २१९ ॥ 15 विषयः कषायरागद्वेषमोहैरनिर्जिताः । भूयास त्वत्प्रसादेन प्रसीद परमेश्वर ! ॥ २२० ॥ स्तुत्वैवं कृतमौनेषु शकमध्वरिसीरिषु । अनन्तनाथो भगवान् विदधे देशनामिति ॥ २२१ ॥
अंतत्वविदुरो जन्तुरमार्गज्ञ इवाध्वगः । असिन् संसारकान्तारे बम्भ्रमीति दुरुत्तरे ॥ २२२ ॥ जीवाजीवावाश्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ २२३ ॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान-दशेनलक्षणाः ॥ २२४ ॥ मुक्ता एकखभावाः स्युर्जन्मादिक्केशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ २२५ ॥ संसारिणो द्विधा जीवाः स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ता-ऽपर्याप्तविशेषतः ॥ २२६ ॥ पर्याप्तयस्तु पडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुर्रक्षाणि प्राणो भाषा मनोऽपि च ॥ २२७ ॥ स्युरेकाक्ष-विकलाक्ष-पञ्चाक्षाणां शरीरिणाम । चतस्रः पञ्च षट् चापि पर्याप्तयो यथाक्रमम् ॥ २२८॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ २२९ ॥ 25 प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः । तेन पूर्वे बादराः स्युरुत्तरे सूक्ष्म-बादराः ॥ २३०॥ असा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥ २३१ ॥ शिक्षोपदेशालापान ये जानते तेऽत्र संज्ञिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥ २३२॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ २३३ ॥
*खो निषसादाथ श्री संबृ०॥ स्थितेः। का०॥ आयुक्त:-सचिवः । न त्वं तेषा' संवृ० का०॥ चक्षु. पस्तिमिरमिव क्रोधान्धरणो म संचार निगड-बन्धः, 'बेडी' भाषायाम्। ३ अतिरे। तेष फलप्रदः' इति विभागे त्वमिति शेषः। ५ प्रवाहौ। ६ अतत्त्वज्ञः। ७ स्थावराः साश्चेति। ८ इन्द्रियाणि। ९एकेन्द्रियाणां पतना, विकलेन्द्रियाणां पत्र, पञ्जेन्द्रियाणां पद पर्याप्तयः क्रमशः हः। तत्र तु संबृ. का०॥ १. प्रत्येका बादरा एव ।
साधारणाः। १२ प्रतिमन्तो मन:-प्राणा येषां ते। १३ विषयः ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org