________________
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व कर्षकर्ष निषङ्गात् ताविपून मुमुचतुः शितान् । अन्योऽन्यं मृत्यवे सानिव वार्तिकवादिनौ ॥ १७३ ॥ जयलक्ष्म्या इव प्राणान् बाणान् बाणैरुभावपि । व्यवच्छेदकलाच्छेदौ चिच्छेदाते परस्परम् ॥ १७४ ॥ एवमस्त्रान्तरैरखान्तराण्यपि मिथस्तयोः । रज्जुकर्तमकृत्यन्त रणो ह्येवं समौजसाम् ॥ १७५ ॥
अन्योऽन्यसाम्यकुपितो दिदर्शयिषुरन्तरम् । चक्रं सस्मार च मधुस्तत्पाणौ तत् पपात च ॥ १७६ ॥ 5 जिघांसुरप्यभिदधे मधुर्विस्फुरिताधरः। भो! याहि याहि किं बाल्यात् व्याघीदन्तान् विष्टक्षसि ॥१७७॥
को नाम मे बलोत्कर्षस्त्वयि बाले निबर्हिते । किं रम्भोन्मूलने स्थामवर्णनं वरदन्तिनः ॥ १७८ ॥ एषोऽपि सुभटम्मन्यस्तव ज्यायान् ममाग्रतः । लघीयान् कुञ्जर इव महानपि गिरेः पुरः ॥ १७९ ॥ व्याजहार प्रतिहरिं हरिरप्युल्लससितः । तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ॥१८॥ अग्निः स्फुलिङ्गमात्रोऽपि कक्षं दहति सर्वतः । तेजः प्रमाणं वीराणां तेजसां कीदृशं वयः। ॥ १८१॥
॥युग्मम् ॥ तदलं ते विलम्बेन मुञ्च चक्रमशङ्कितः । व्यालोऽपि गरलं मुक्त्वा शाम्येन पुनरन्यथा ॥ १८२ ॥ अङ्गुल्यामूर्मिकीकृत्य सलीलं मधुरप्यथ । भ्रमयामास तच्चक्रमलातमिव बालकः ॥ १८३ ॥ मुमोच च मधुश्चक्रं तत् पपाताथ शाङ्गिणः । वक्षस्तुम्बाग्रघातेन चुम्बदुल्बणतेजसा ॥ १८४ ॥ विष्णुस्तेन प्रहारेण मूछितः स्यन्दनेऽपतत् । उत्प्लुत्य बलभद्रेण खोत्सङ्गे च न्यधीयत ॥ १८५ ॥ भ्रात्रङ्गसंगादमृतस्नपनादिव केशवः । अवाप्तसंज्ञस्तच्चक्रं मधोः प्राणानिवाददे ॥ १८६ ॥ अथ शार्ङ्गधरोऽप्येवमूचे मद्वत् त्वमत्र भोः!। मा स स्था गच्छ गच्छाशु स्पर्धा सिंहेन का शुनः॥१८॥ मधुरप्यभ्यधत्तैवं मुश्च चक्रं त्वमप्यहो! । गर्जन् शरन्मेघ इव किमात्मानं विकत्थसे ॥ १८८॥ एवमुक्तवतस्तस्य चक्र मुक्त्वा जनार्दनः । अपातयच्छिरो भूमौ फलं तालतरोरिव ॥ १८९ ॥ पुष्पवर्षेः सुरैः शाङ्गी साधु साध्विति तुष्टुवे । हा नाथ ! नाथ! क्वासीति निजैस्तु शुशुचे मधुः ॥१९०॥ जन्ने केशवसेनान्या कैटभोऽपि महाभटः । शिश्रिये चापरैः सद्यः श्रीपतिमधुपार्थिवैः ॥ १९१॥ समागधवरदामप्रभासाधीश्वरं ततः । अपाग्भरतवर्षाधं साधयामास शाङ्गभृत् ॥ १९२ ॥ शिलां कोटिनरोत्पाट्यां मगधेष्वथ माधवः । उत्पादय लीलयाऽऽनन्दी पिधानमिव सोऽमुचत् ॥१९३॥ समुद्रेणापि दत्तार्घ इवोत्कल्लोलपाणिना । अथाययौ द्वारवती स्वपुरीं पुरुषोत्तमः ॥ १९४ ॥
तत्र सोमेन रामेण पार्थिवैरपरैरपि । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकः परया मुदा ॥ १९५॥ 25 ईतस्त्रिवर्षी छमस्थो विहत्याऽनन्तजिजिनः । समाययावुपवनं सहस्राम्रवणाभिधम् ॥ १९६ ॥
तत्राशोकतले भर्तुानान्तरविवर्तिनः । संसारस्येव मर्माणि घातिकर्माणि तुत्रुटुः ॥ १९७॥ राधकृष्णचतुर्दश्यां रेवतीस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ॥ १९८ ॥
चक्रे च दिव्ये समवसरणे देशनां प्रभुः । पञ्चाशतं गणधरान् यशःप्रभृतिकानपि ॥ १९९ ॥ ___ तत्तीर्थभूश्च पातालख्यास्यो मकरवाहनः । रक्तो दोभिः पद्मखड्गपाशिभिर्दक्षिणैस्त्रिभिः ॥२०॥ 30 वामैनकुलफलकाक्षसूत्रसहितैः पुनः । श्रीमतोऽनन्तनाथस्य जज्ञे शासनदेवता ॥ २०१॥
तथोत्पन्नाङ्कुशा नाम गौरागी पद्मवाहना । दोर्दण्डाभ्यां दक्षिणाभ्यां खड्गं पाशं च बिभ्रती ॥२०२॥ दक्षिणेतरबाहुभ्यां दधती फलककाङ्कुशौ । अनन्तखामिनो जज्ञे तथा शासनदेवता ॥ २०३ ॥ ताम्यामुपासिताभ्यो भगवान् विहरन् भुवि । प्रापत् पुरीं द्वारवतीं मोक्षद्वाराँग्रेगूः प्रभुः ॥२०४॥
१ कृष्ठा कृष्ट्वा । २ विषवैद्यवादिनौ । ३ छेकौ-कुशलौ । ४ नाशिते । ५ रम्भा-कदली। ६ तृणम् । ७ विषम् । ८ उल्काम् । * उत्पत्य संवृ०॥ ९ प्रगल्भसे। १० आच्छादनम् । इति त्रिव संवृ०॥ ११ त्रिमुखः। १२ अप्रगूर-अप्रेसरः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org