________________
मतु सर्ग:]
त्रिवष्टिशलाकापुरुषचरितमहाकाव्यम् । त्वां कामं मचिकारीति पुरा संविद्महे वयम् । पुत्रौजसाऽद्यान्यथाभूरिति संशृण्महे जनात् ॥ १४३ ॥ उन् बदि त्वं में एवासि न कश्चित् ते विपर्ययः । स्वामिने प्रेष्यतां दण्डो मर्यादीकृत्य कुञ्चिकाम् ॥१४४॥ भर्तुः प्रसादाद् भूयोऽपि तव सर्व भविष्यति । आदत्ते ह्यम्बु यद् भानुः पुनरुज्झति भूरि तत् ॥१४५॥ रखाप्रसादात् सदपि सर्वखं तव यास्यति । श्रियः स्वामिनि रुष्टे हि न तिष्ठन्ति भयादिव ॥ १४६ ॥ दरे वा सम्पदः सन्तु यत् स्वामिनि विरोधिते । कलत्र-पुत्र-मित्रादि जीवितं च कुतस्तव ॥ १४७॥ 5 कृत्वा स्वामिन आदेशं देशं शाधि यथास्थिति । गिरस्ताः सन्तु मोघास्त्वत्पिशुनानां शुनामिव ॥१४८॥ अथोद्यद्रोषपरुषं बभाषे पुरुषोत्तमः । दूतत्वेन न वध्योऽसि तेनेदं कद्वदावदः ॥ १४९ ॥ किमुन्मत्तोऽथवा मत्तः प्रमत्तोऽथ पिशाचधीः । ईदृग्माषी त्वं त्वदीश ईदृग्भापयिता च सः ॥ १५०॥ यथा क्रीडासु बालानां स्वेच्छया कोऽपि बालकः । नृपायते तथा मूढः सोऽपि स्वामीयते स्वयम् ॥१५१॥ प्रतिपत्रः कदाऽसाभिः स्वामित्वेन स दुर्मदः । इष्टं वचःप्रमाणं चेदिन्द्रीभवति किं न सः ॥ १५२ ॥10 प्राज्यराज्यबलेनाद्य सोझो मयि समागतः । "तिमिस्तटे वेलयेव मरिष्यति न संशयः ॥ १५३ ॥ गच्छानय रणाय खं स्वामिनं दण्डकामिनम् । तस्य प्राणैः सहादास्ये दासीमिव हठाच्छ्रियम् ॥ १५४ ॥ स एवमुक्तः पुरुषोत्तमेन रुषितो ययौ । सर्वं च मधवेऽशंसद् दुःशंसमपि तद्वचः॥१५५ ॥ शार्जिणो वाचिकेनोचैः श्रुतमात्रेण तेन च । स्तनितेनेव शरभः "संरम्भं विदधे मधुः॥१५६ ॥ सोऽवादयत् क्षणाद् यात्राभेरी भैरवभाऋतिम् । श्रूयमाणां खेचरीभिः पिधाय श्रेवसी भिया ॥ १५७॥15 राजभिर्बद्धमुकुटैर्महावीर्येर्महाभटैः । सेनानीभिरमात्यैश्च सामन्तैरपरैरपि ॥ १५८ ॥ सैनिकै रणशौण्डीरैः खस्य मूर्त्यन्तरैरिवं । समावृतः स प्रतस्थे मायारूप इवामरः ॥ १५९ ॥ युग्मम् ॥ नाजीगणद् दुनिमिचाशकुनानि स दोर्मदी । कालपाशैरिवाकृष्टो देशसीमां द्रुतं ययौ ॥ १६० ॥ पारापतपणीवागात् तत्कालं तत्र शायपि । सोम-सुप्रभसेनानीसेनाभिः परिवारितः ॥ १६१ ॥ आशूपविश्य करभान रभसादुभयोरपि । वर्माण्याददिरे सैन्यैर्धनूंष्यास्फालितानि च ॥ १६२ ॥ 20 उड्डीनमुच्चकैः काण्डमकाण्डे प्रलयप्रदम् । रक्षःकुलमिव व्योमन्य पानसमुत्सुकम् ॥ १६३ ॥ प्रेर्यमाणा महामात्रैरपसृत्याभिसृत्य च । चतुर्दन्तेन युद्धेनायुध्यन्त वरदन्तिनः॥१६४॥ एकसिन् मोचके कुन्तमन्यसिन् मुद्गरं पुनः । पाणौ कृपाणं बिभ्राणाः सादिनोऽत्वरयन् हयान् ॥१६५॥ निर्घोषेणाातेघोरेण जगदाधिर्यदायिनः । भिन्नसिन्धुतटानीव मिमिलुः स्यन्दना मिथः॥१६६ ।। आस्फालयन्तः फलकान्यास्फलन्तः परस्परम् । अस्यसि विदधुर्वीराः पत्तयो बाहुशालिनः ॥ १६७ ॥ 25 अभञ्जि मधुसैन्येन विष्णुसैन्यं क्षणादपि । द्रुमखण्ड प्रचण्डेनौत्पातिकेनेव वायुना ॥ १६८॥ रथिना बलभद्रेणान्वीयमानो रथी हरिः । अपूरयत् पाञ्चजन्यमजन्यमिव विद्विषाम् ॥ १६९ ।। पाञ्चजन्यस्य नादेन तत्कालं मधुसैनिकाः । त्रेसुः केऽपि मुमूर्छः केऽप्यपतन् केऽपि भूतले ॥१७०॥ इत्थं विधुरमालोक्य सैन्यं मधुरपि स्वयम् । धनुरास्फालयन् स्फारमाह्वास्त पुरुषोत्तमम् ॥ १७१ ॥ अधिज्यीकृत्य तरसा शाङ्ग शाप्यवादयत् । रोदसी वादयदिव गरीयस्या प्रतिश्रुता ॥ १७२॥ 30
हातेनाऽभिहितत्वादन प्रथमा। २ पूर्ववद् भक्तिकारी। ३ वैपरीत्यम् । ४ उद्घाटन-साधनम् , 'कुंची' भाषायाम् । ५व्यर्थाः, असख्याः इति यावत्। ६ कुत्सितमत्यन्तं वदतीति कद्वदावदः। ७ मत्स्यः। *पुरुषः परुष रु. संवृ०॥
संदेदोन। ५ कलमः। १० कोपम् । भाकृतिम् मु०॥ ११ भयङ्करभाकारध्वनिम् । १२ कौं। १३ युद्धकुशलैः।
व | परावृ० संबृ०॥ १४ पारापत:-कपोत:; 'पारेवु' भाषायाम् । १°पवेश्य संबृ० का०॥ १५ शरम् । १६ रुधिरपा. नोचतम् । १७ हस्तिपकः 'महावत' भाषायाम् । १८ भनवाराः। न्यास्फाल° संवृ. ॥ १९ असिभिरसिभिहीत्वा प्रवृत्तमिदं युद्धम् । २० उत्पातसंवन्धिना । २१ उत्पातमिव। २२ प्रतिध्वनिना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org