________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
११२ ॥
निमित्तीकृत्य चाचार्य सर्वा जगृहतुः कलाः । पूर्वजन्मप्रभावोऽयं तादृशां हि महात्मनाम् ॥ क्रीडाघातमपि तयोर्ना सहन्तापरे भटाः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि च पन्नगः ॥ ११३ ॥ लीलावमिव श्रीणां तौ क्रमेणाङ्गपावनम् । यौवनं च प्रपेदाते बलेन पवनोपमौ ॥ ११४ ॥ ज्यायसो लाङ्गलादीनि शार्ङ्गादीनि कनीयसः । जैत्राणि ददिरे देवै रत्नानि नररत्नयोः ॥ ११५ ॥
।
महाबलौ बल-हरी तौ दृष्ट्वा कलिकौतुकी । प्रतिविष्णोर्मधोर्धाम जगामोत्पत्य नारदः ॥ ११६ ॥ तं दत्ता नमस्कृत्य कृत्यज्ञोऽभिदधे मधुः । महामुने ! स्वागतं ते दिव्या दृष्टिपथेऽसि नः ॥ ११७ ॥ मदीयाः किङ्कराः सर्वे भरतार्थेऽत्र भूभुजः । ते मागधवरदाम प्रभासेशाश्च नाकिनः ।। ११८ ॥ तत्र वस्तुना येन येन देशेन वा तव । योऽर्थस्तं ब्रूहि निःशङ्कं यथा यच्छामि नारद ! ॥ ११९ ॥ नारदोऽप्यब्रवीदेवं क्रीडयाऽहमिहागमम् । न मेऽर्थोऽर्थेन केनापि न वा देशेन केनचित् ॥ १२० ॥ 10 भरतार्घेश ! इति तु त्वं मुधैव विकत्थ्यसे । बन्धैर्थवादः सर्वोऽपि किं यथार्थी भवेत् क्वचित् ॥ १२१ ॥ अर्थलोभादर्थिजनैः स्तूयमानेन धीमता । लज्जितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् ॥ १२२ ॥ बलिभ्योऽपि बलितमा महद्भ्योऽपि महत्तमाः । दृश्यन्ते ह्यत्र जगति बहरला वसुन्धरा ॥ १२३ ॥ मधुरन्तर्भवत्कोपोऽन्तः शिखीव शमीतरुः । सद्यो दष्टाधररदो नारदं प्रत्यभाषत ।। १२४ ॥ भरताsत्र गङ्गाः का नाम महती नदी । वैताढ्यात् को महानद्रिः कश्च मत्तो बलाधिकः १ ॥ १२५ ॥ 15 मन्यसे यं बलीयांसं तमाख्याहि यथा क्षणात् । शरभः कैलभस्येव तस्यैौजो दर्शयामि ते ।। १२६ ।। किं मत्तेन प्रमत्तेनाप्यवज्ञातोऽसि केनचित् । स्तुतिव्याजेन यस्याद्य विधित्ससि वधं द्विज ! ॥ १२७ ॥ अथोचे नारदोऽप्येवं नाहं मत्तप्रमत्तयोः । गच्छामि पार्श्व तन्मे स्यात् तदवज्ञा कथं ननु ! ॥ भरतार्घेश्वरोऽस्मीति निजायामद्य पर्षदि । यदवादीर्मा स्म वादीर्भूयस्तद्धि हँसाय ते ॥ १२९ ॥ द्वारकायां तु सोमस्य सुप्रभः पुरुषोत्तमः । तनयौ किं त्वया राजन् ! जनश्रुत्याऽपि न श्रुतौ ॥ १३० ॥ 20 महाबलौ महाबाहू अन्योऽन्यं प्रीतिशालिनौ । मूर्तिमन्तौ पवमान - ज्वलनाविव दुःसहौ ॥ शक्रेशानाविव दिवोऽवतीर्णौ कौतुकादिह । दोष्णैकेनाप्युद्धरेतां तौ सर्वोधिधरां धराम् ॥ भरतेऽधिष्ठिते ताभ्यां सिंहेनेव महावने । अज्ञानाद् गर्जसि कथं मदान्ध इव सिन्धुरः कोपारुणेक्षणद्वन्द्वो र्द्वन्द्वेच्छुरिव तत्क्षणात् । दशनैर्दशनान् घर्षन्मधुराजोऽभ्यधादिदम् ॥ यदात्थ तदमिथ्या चेत् स्वैरं तत् क्रीडितुं यमः । मया निमत्र्यतेऽद्यैष रणं द्रष्टुं भवानिव ॥ 25 निःसोमं निःसुप्रभं च तथा निःपुरुषोत्तमम् । करोमि द्वारकाराज्यं पश्य युत्प्रतिभूरिव ॥ इत्युक्त्वा नारदमुनिं विसृज्य प्राहिणोदथ । अनुशिष्य रहो दूतं सोमसोमसुतान् प्रति ॥ १३७ ॥ गत्वाऽऽशु सोमं ससुतं सौजस्कः सोऽभ्यभाषत । ओजायन्तेऽनोजसोऽपि दूताः स्वाम्योजसा खलु ॥ १३८ ॥ teri दर्पण विनीतानां च वत्सलः । प्रचण्डदोर्बलजयी क्षत्रत्रतमहाधनः ॥ १३९ ॥
१२८ ॥
॥
१३६ ॥
5
३६८
१३१ ॥
१३२ ॥
दी से रैरिव याम्यार्थ भरत क्षेत्रवर्तिभिः । राजहंसैः कुलोद्भूतैः सेव्यमानपदाम्बुजः ॥ १४० ॥ 30 वैताढ्यदक्षिणश्रेणिविद्याधरनृपैरपि । दत्तदण्डः प्रचण्डाज्ञ औखण्डल इवापरः ॥ १४१ ॥ भैरतार्थोद्यानमधुरर्धचक्रधरो मधुः । त्वां शासितुं प्राहिणोन्मां श्रूयतां तदिदं नृप ! ॥ १४२ ।। ॥ चतुर्भिः कलापकम् ॥
Jain Education International
१३३ ॥
१३४ ॥
१३५ ॥
'डायात सु० ॥ क्रीडारूपमाघातमपि । १ अर्धः पूजाविधिः । + कथ्यसे । संवृ० का० ॥ २ बन्दिजनैर्गीय मानोऽर्थवादः स्तुतिपाठः । ३ अन्तर्मध्ये शिखी वह्निर्यस्य सः । ४ गजपोतस्य । ९ °मि च । संवृ० ॥ ५ विधातुं कर्तुमिच्छसि 1 ६ हास्याय भवति । ७ समुद्र - गिरिसहितां महीम् । ८ गजः । ९ युद्धेच्छुः । १० युद्धसाक्षी । + तप्ता का ११ दासीपुत्रैरिव । १२ इन्द्रः । १३ भरतार्थमेवोधानं तस्मिन् मधुर्वसन्तसदृशः ।
For Private & Personal Use Only
www.jainelibrary.org