________________
धनुर्यः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । नन्दामालोक्य तत्कालं सर्वाङ्गोपाङ्गसुन्दरीम् । कां कामवस्थां न प्राप मान्मथीं चण्डशासना ॥४॥
॥पञ्चभिः कुलकम् ॥ समुद्रदत्तदत्तोकस्युवासाथ निशास्वपि । लेभे न निद्रां कामातों रोगात इव सोऽस्तधीः ॥ ८५ ॥ तांस्ताननुदिनं नन्दाप्राप्युपायाम् विचिन्तयन् । कञ्चित् कालं व्यतीयाय मित्रव्याजेन स द्विषन् ॥४६॥ समुद्रदत्ते विश्वस्ते स नन्दामपरेऽहनि । हृत्वा जगाम शकुनिरिव रत्नावली द्रुतम् ॥ ८७ ॥ रक्षसेव हृतां तेन बलिना छलिना च ताम् । प्रत्याहाँ सोऽसमर्थो वैराग्यं परमं ययौ ॥८८॥ हृदयस्थेन शल्येनेवापमानेन तेन सः । यमानोऽग्रहीद् दीक्षा श्रेयांसमुनिसंनिधौ ॥ ८९॥ अत्युग्रं स तपस्तेपे तपसोऽस्य फलेन तु । नन्दाहर्तुर्वधाय स्यां निदानमिति चाकरोत् ॥ ९ ॥ अमुना स निदानेन मितीकेत्य तपःफलम् । विपद्य कालयोगेन सहस्रारेऽभवत् सुरः ॥ ९१ ॥ मृत्वा कालक्रमाच्चण्डशासनोऽपि महीपतिः । भवाब्यावर्तभृतासु बभ्रामानेकयोनिषु ॥ ९२ ।। 10 स चात्र भरते पृथ्वीपुरे विलासभूपतेः । गुणवत्यां कलत्रेऽभून्मधुरित्याख्यया सुतः ॥ ९३ ॥ स त्रिंशद्वर्षलक्षायुस्तापिच्छकुसुमच्छविः । पञ्चाशद्धनुरुत्तुङ्गो जङ्गमोऽद्रिरिवाबभौ ॥ ९४ ॥ शुशुमे स महाबाहुर्द्विशुण्ड इव दिग्गजः । पृथुलोरस्तटश्रीकः सानुमानिव जङ्गमः ॥ ९५ ॥ लीलयाऽपि महास्थाम्नस्तस्य चमतो मही । भारासहा ननामेव तृणपूर्ण इवावंटः ॥ ९६ ॥ शस्त्राशस्त्रिकथां श्रुत्वा पूर्वेषां पृथिवीभुजाम् । स शुशोच खदोर्वीर्य प्रतिमल्लमवाप्नुवन् ॥ ९७ ॥ 16 जित्वा भरतवर्षा त्रिखण्डं ग्रामलीलया । स एवमसमस्थामा नामेन्दौ खमलीलिखत् ॥ ९८ ।। चक्राकान्तद्विपञ्चक्रः शक्रतुल्यश्च विक्रमात् । अभूव प्रत्यर्धचक्री स चतुर्थः पुरुषौर्यमा ॥ ९९ ।। अभूदुत्कटदोरकूटकुट्टितारिभटोद्भटः । वैरिश्रीभोगलटभः कैटभः सोदरोऽस्य तु ॥ १०॥
तदा च द्वारकापुयां सोमसूर्यसमो गुणैः । सोम इत्याख्यया ख्यातो बभूव पृथिवीपतिः ॥१०१॥ तस्याभूतामुमे पन्यौ तत्रैका स्निग्धदर्शना । सुदर्शनाऽन्या तु सीता शीतयुतिसमानना ॥ १०२.॥ 20 इतश्च स सहस्रारान्महाबलवरः सुरः । च्युत्वा सुदर्शनादेव्या उदरे समातरम् ।। १०३ ॥ तदा सुदर्शनादेवी सीरभृजन्मसूचकान् । चतुरो यामिनीशेषे महाखमानुदैक्षत ॥ १०४ ॥ ततो मासेषु नवसु दिनेष्वर्धाष्टमेषु च । देवी सुदर्शनाऽसूत सुतं सितरुचिप्रभम् ॥ १०५॥ कृतार्थयार्थिवर्गानुत्सवेन महीयसा । तस्य सुप्रभ इत्याख्यां विदधे सोमभूपतिः ॥१०६ ।। सहस्राराद् दिवश्युत्वा पूर्णायुः सोऽपि कालतः। जीवः समुद्रदत्तस्य सीताकुक्षाववातरत् ।। १०७ ॥25 तदा साऽपि महाखमाञ्च्छाङ्गभृजन्मसूचकान् । सप्त सुप्ता निशाशेषेऽद्राक्षीत् प्रविशतो मुखे ॥ १०८॥ संपूर्णे समये साऽपि नीलरत्नामलत्विषम् । तनयं जनयामास सर्वलक्षणलक्षितम् ॥ १०९ ॥ शाङ्गपाणेश्चतुर्थस्य तस्याथ दिवसे शुभे । पुरुषोत्तम इत्याख्यां यथार्थामकरोत् पिता ॥ ११०॥ नीलपीताम्बरौ तालताक्ष्यकेतू महाभुजौ । तावभातां सहचरौ प्रीत्या युग्मभवाविव ॥ १११॥
कामसंबन्धिनीम् । २ ओको गृहम् । उवास 'वस्' धातोः परोक्षायामन्यपुरुषैकवचनम् । इनिजंगाम। * "पराहर संवृ०॥ ४ यथानिमित्तमुदिश्य तथासंकल्पकरणम् , भाषायाम् 'निया''। ५ अमितं तपसः फलम् , परं वन्मितं परिमाणयुचं कधु कृत्वा। ६ आवतः परिवर्तनम् । ७ तापिच्छ:-तापिन्छः "तापिञ्छस्तु तमालः स्यात्" [अमि०वि० का. सो. २१२] । • पर्वतः। ९ महाबलवतः। १० गर्ता। "चन्द्रे खं नामालिखत् अर्थात् तस्य चन्द्रलोकपर्यन्ता कीर्तिः प्रासरद। ११ चक्रम्-समूहः। 1 चक्रश संवृ० त् । समभूवर्ध संवृ० ॥ १३ भर्यमा-सूर्यः । ४ बटमा-म्बा बनाइदि देवशम्दाद संस्कृतम् । वासरत् ।का।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org