________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्थ पर्व आमुक्तचित्रनेपथ्यवस्त्रमाल्यो जगत्पतिः । ततः सागरदत्ताख्यामारोहच्छिविकां वराम् ॥५६॥ शक्रादिभिर्धतच्छत्रचामरव्यजनः प्रभुः । तया शिबिकयोद्यानं सहस्राम्रवणं ययौ ॥ ५७ ॥ दोलाऽऽन्दोलनसंसक्तनागरस्त्रीजनैर्मुहुः । तदानीं गच्छदागच्छत्खेचरीभिरिवाकुलम् ॥ ५८॥
प्रत्यग्रपल्लवातात्रैविलंलगृङ्गकुन्तलैः । अशोकैर्मधुना मत्तैरिव घूर्णद्भिराचितम् ॥ ५९॥ 5 क्रीडाश्रान्तपुरस्त्रीणां श्रमसर्ववहारिभिः। चूतैरुत्पल्लवै रम्यं तालवृन्तधरैरिव ॥ ६०॥
कर्णिकारैः कर्णिकाभिरिवोद्यन्माधवश्रियः । रुचिरं काञ्चनारैश्च काश्चनैस्तिलकैरिव ॥ ६१ ॥ उदीर्णखागतमिव वनं तदेवकोकिलम् । प्रविवेश जगन्नाथो जगन्मन इवोन्मनाः ॥ ६२ ।।
॥ पञ्चभिः कुलकम् ॥ ततः सागरदत्तातो दत्तहस्तो बिडौंजसा । उत्तीर्योज्झाञ्चकारालङ्कारप्रभृतिकं प्रभुः ॥ ६३ ॥ 10 राधकृष्णचतुर्दश्यां रेवत्यामपरेऽहनि । षष्ठेन प्रावजत् स्वामी सहस्रेण समं नृपैः ॥ ६४ ॥
वन्दित्वा खामिनमथ पुरुहूतादयोऽखिलाः । खं खं स्थानं ययुः सद्यः कृतकायों इवामराः॥६५॥
द्वितीयेऽह्नि वर्धमानपुरे विजयवेश्मनि । पारणं परमानेन चकाराहश्चतुर्दशः॥६६॥ तत्र चक्रे सुंधान्धोभिर्वसुधारादि पञ्चकम् । रत्नपीठं तु विजयेनाभिन्यासपदे प्रभोः ॥ ६७ ॥
ततः स्थानादपच्छंद्रा छमस्थः परमेश्वरः । प्रावर्तिष्ट विहाराय सहमानः परीषहान् ॥ ६८ ॥ 15 इतश्च जम्बूद्वीपेऽलिन् प्राग्विदेहेषु सुन्दरी । पुरी नन्दपुरीत्यस्ति परमानन्दजन्मभूः ॥ ६९ ॥
नृपो महाबलस्तत्र दत्तशोकोऽरियोषिताम् । अभूदशोकशाखीव खकुलोद्यानभूषणम् ॥ ७० ॥ संसारवासवैराग्यं स दधार महामनाः । विदग्धनागर इव ग्रामवासविरक्तताम् ॥ ७१ ॥ स वृषभर्षिपादाजमूले गत्वोदमूलयत् । पञ्चभिर्मुष्टिभिः केशांश्चरित्रं प्रत्यपादि च ॥७२॥ उद्यानमिव चारित्रं पालयित्वा महाफलम् । स विपद्य समुत्पेदे सहस्रारेऽमरो वरः ॥ ७३ ॥
इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । कौशाम्बीत्यस्ति नगरी पुरन्दरपुरोपमा ॥ ७४॥ समुद्रदत्त इत्यासीद् दत्तमुद्रोऽरितेजसाम् । समुद्र इव गम्भीरस्तस्यां वसुमतीपतिः ॥ ७५ ॥ पत्नी तस्याभवन्नन्दा नयनानन्दचन्द्रिका । रूपेण रूपाहङ्कारहरणी सुरयोषिताम् ॥ ७६ ॥ नृपस्य तस्य मलयपवमानो मधोरिव । मित्रं मलयभूनाथोऽभ्याययौ चण्डशासनः ॥ ७७॥
समुद्रदत्तस्तं प्रीत्या महत्या निजसमनि । सादरः सोदरमिवाभोजयत् सपरिच्छदम् ॥ ७८॥ 25 मृगाक्षी तत्र सोऽद्राक्षीनन्दामानन्दिनीं दृशोः । पत्नी समुद्रदत्तस्य समुद्रस्येव जाह्नवीम् ॥ ७९ ॥
स्तब्धाङ्गः कीलित इव मरास्त्रैरतिदुःसहैः । जातस्वेदो विप्रलम्भानलधर्मादिवोल्बणात् ॥ ८० ॥ सर्वाङ्गमप्यॉरितप्रेमेव पुलकेन च । भिन्नखरो ग्रहग्रस्त इव तस्था वपुर्गुणैः ॥ ८१ ॥ प्रकम्पमानसर्वाङ्गस्तदाश्लेष इवोत्सुकः । शुचेव वैवर्ण्यधरस्सँदसंप्राप्तिजन्मया ॥ ८२॥ बाष्पेण लुप्तनयनः कामान्ध्यमिव धारयन् । तदप्राप्त्या मृत्युमिवानेतुं प्रलयमाश्रयन् ॥ ८३॥
दोला-हिंडोळो' इति भाषायाम् । २ विलुलन्तो न्याता ये भ्रमरास्ते एव कुन्सलास्तैः। ३ व्याप्तम् । ४ कर्णिकारैः, काशनारैः-तबामकपुष्पविशेषः । ५ कोकिलाभिरवकीर्णम् । ६ उत्सुकः। ७ इन्द्रेण । ८ उपवासद्वयेन। ९ देवैः। १.निष्कपट:-ऋजुस्वभाव इत्यर्थः। ११ यथा चतुरनागरिकः ग्रामीणतायाः विरज्यते तथैवोदारचेताः प्रभुः संसारोद्विमः संजातः । *थो (थ) प्रययौ संवृ०॥ १२ भागतः। १३ विप्रलम्भो वियोगः, स एवानकोऽग्निस्तेन धर्मः उष्णस्तस्मात् । १४ भारित:पुलकितः। १५ भूताविष्टः । १६ तस्या नन्दाया अलाभाजातेन शोकेन पाण्डुतां दधदिव । १७ तस्यां नम्बायामेव लयं तन्मयतां पारवा, कामास प्रकृतिकपणत्वाद् नन्दामम्वरेण सर्वमपि नमिच्छन् इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org