________________
भातुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । उर्वोरवरजा रम्भा पादयोः पद्ममन्तिषद् । तस्याः सर्वाङ्गरम्यायाः किं किं न ह्यतिशाय्यभूत् ॥ २५ ॥
॥ त्रिभिर्विशेषकम् ॥ इतश्च प्राणते कल्पे जीवः पद्मरथस्य सः। प्रकृष्टस्थितिकं स्वायुः सुखमनोऽत्यवाहयत् ॥ २६ ॥ श्रावणासितसप्तम्यां रेवतीस्थे निशाकरे । ततश्युत्वा सुयशसो देव्याः कुक्षाववातरत् ॥ २७ ॥ ददर्श च महास्वमान् कुञ्जरादींश्चतुर्दश । सुखसुप्ता निशाशेषे देव्यर्हजन्मसूचकान् ॥ २८॥ 5 रोधकृष्णत्रयोदश्यां पौष्णे मे श्येनलाञ्छनम् । सुवर्णवर्ण सुयशाः स्वामिनी सुषुवे सुतम् ॥ २९ ॥ अथ ऊर्ध्व रुचकेभ्योऽभ्येत्य सद्योऽप्यथार्हतः । षट्पञ्चाशद्दिकुमार्यः सूतिकर्माणि चक्रिरे ॥३०॥ सौधर्मकल्पाधिपतिस्तत्रोपेत्य प्रणम्य च । प्रभुमादाय वियता मेरुशैलशिरो ययौ ॥ ३१ ॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासन उपाविक्षदुत्सङ्गारोपितप्रभुः ॥ ३२॥ इन्द्रास्त्रिषष्टिरभ्येत्याच्युतप्रभूतयस्ततः। क्रमेणास्पयन नाथमाहतैस्तीर्थवारिभिः ॥३३॥ ईशानाधिपतेरके महासारं न्यधात् प्रभुम् । शक्रस्तद्भारवहनश्रमेणेव गरीयसा ॥ ३४ ॥ विकृतस्फाटिकमहाचतुर्वृषविषाणजैः । वारिभिः पयामास वासवः परमेश्वरम् ॥ ३५ ॥ वाससा देवदृष्येण प्रमृज्येशं विलिप्य च । अर्चित्वाऽऽरात्रिकं कृत्वा सौधर्मेन्द्रोऽस्तवीदिति ॥ ३६ ॥ __तवाग्रे भूमिलठनैर्ये हि भूरेणुनाञ्चिताः । गोशीर्षचन्दनेनाङ्गरागस्तेषां न दुर्लभः ॥ ३७॥ भक्त्यैकमपि यैः पुष्पं त्वन्मूर्धन्यधिरोप्यते । ते छेत्राशून्यशिरसः संचरन्ति निरन्तरम् ॥ ३८॥ 15 अङ्गरागस्तवाङ्गे यैरेकदापि विधीयते । देवदूष्यांशुकधरास्ते भवन्ति न संशयः ॥ ३९ ॥ निधीयते भवत्कण्ठे पुष्पदामैकदाऽपि यैः । लुठन्ति तेषां कण्ठेषु दोलताः सुरयोषिताम् ॥ ४० ।। ये वर्णयन्त्येकदापि त्वद्गुणानतिनिर्मलान् । ते गीयन्ते सुरस्त्रीभिरपि लोकातिशायिनः ॥४१॥ ये चारुचारीचतुरं भक्त्या वल्गन्ति ते पुरः । ऐरावणकरिस्कन्धासनं तेषां न दुर्लभम् ॥ ४२ ॥ ध्यायन्ति परमात्मानं ये त्वां देव! दिवानिशम् । त्वादृशीभूय ते लोके ध्येयतां यान्ति सर्वदा ॥४३॥20 स्नात्राङ्गरागनेपथ्याकल्पप्रभृतिकल्पने । अधित्वन्मेऽधिकारोऽस्तु सदापि त्वत्प्रसादतः ॥४४॥ इति स्तुत्वा जिनपतिं गृहीत्वा च दिवस्पतिः । गत्वा च सुयशोदेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥४५॥ नन्दीश्वरे शाश्वताहेत्प्रतिमाष्ष्टाहिकोत्सवम् । कृत्वा शक्रोऽपरेऽपीन्द्राः खं खं स्थानं पुनर्ययुः॥४६॥
गर्भस्थेऽसिञ्जितं पित्राऽनन्तं पैरवलं यतः । ततश्च चक्रेऽनन्तजिदित्याख्या परमेशितुः ॥४७॥ योगी ध्यानामृतमिव निजाङ्गुष्ठात् सुधां पिबन् । अस्तन्यपोऽप्यवर्धिष्ट क्रमेण परमेश्वरः ॥४८॥ 25 शैशवं व्यतिचक्राम क्रमादिन्दुरिव प्रभुः । पञ्चाशद्धनुरुत्तुङ्गः प्रतिपेदे च यौवनम् ॥ ४९ ॥ निचिन्वानो हेयबुद्ध्या मार्गस्थित इवाश्रयम् । पित्राज्ञयाऽनन्तनाथश्चके दारपरिग्रहम् ।। ५०॥ अर्धाष्टमेषु लक्षेषु गतेषु शरदामथ । स्वामी पित्रनुरोधेन राज्यभारमुपाददे ॥५१॥ वर्षलक्षाः पञ्चदश पालयित्वा वसुन्धराम् । दधार चिन्तां मनसि दीक्षायै सिंहसेनभूः ॥ ५२ ॥ ब्रह्मलोकात् सुरा लौकान्तिकाः सारखतादयः । तीर्थ प्रवर्तय स्वामिन्नित्यूचुः परमेश्वरम् ॥ ५३॥ 30 जुम्भकैर्जुम्भभिच्छिष्टकुबेरप्रेरितैः सुरैः । पूर्यमाणेन वित्तेन वर्षदानं ददौ विभुः ॥५४ ॥ तस्य दानस्य पर्यन्ते भवपर्यन्तकामिनः । दीक्षाभिषेकं विदधुः सुरा-ऽसुर-नृपाः प्रभोः ॥ ५५॥
पभं पादयोरन्तिषद् शिष्यः। २ राधः-वैशाखः। ३ आकाशमार्गेण । ४ विषाणम्-शूङ्गम् । * °सवा दे का.. ५नयुचमतकाः। चारुया चारी नृत्ये गमनप्रकारस्तया चतुरं यथा स्यात् तथा । नृत्यन्ति । ८त्वयि ९ सैन्नम्। १० निवयं कुर्वाणः बागलुङया। स्मभूच्छिा जुम्भमुदखेन बिहा भावतः ।
त्रिषष्टि, ४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org