________________
[चतुर्भपई
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
चतुर्थः सर्गः। श्रीअनन्तनाथचरितम् ।
पायादनन्तस्वामी वः सिद्धानन्तचतुष्टयः । इहापि देहिनां मोक्ष इवानन्तसुखप्रदः॥१॥ श्रीमतोऽनन्तनाथस्य चरित्रमिदमुच्यते । यानपात्रमिवापारसंसाराम्भोधितारणे ॥२॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । ऐरावताख्येऽरिष्टेति नगर्यस्ति गरीयसी ॥३॥ राजा पद्मरथो नाम तस्यामासीन्महारथः। द्विषद्रथिरथव्यूहस्खलनकमहागिरिः॥४॥ स जित्वाऽपि द्विषोऽशेषान् साधयित्वाऽखिलामिलाम् । न तृणायाप्यमंस्तैना मोक्षश्रीसाधनोत्सुकः॥५॥ विहारलीलामुद्याने जलक्रीडां च वापीषु । गन्धर्वाणां च मधुरसंगीतकविलोकनम् ॥ ६ ॥
वारणाऽश्वादियानानां गतिवैचित्र्यदर्शनम् । वसन्तकौमुदीप्रायक्रीडोत्सवनिरीक्षणम् ॥ ७॥ 10 नाटकप्रभृतिदशरूपकाभिनयोत्सवम् । स्वर्विमानप्रतिमानवासौकोवसनं तथा ॥८॥ विचित्रवस्त्रनेपथ्याङ्गरागाकल्पकल्पनम् । न रागात् सोऽन्वभूत् किन्तु लोकयात्रानुवर्तनात् ॥९॥
॥ चतुर्भिः कलापकम् ॥ कश्चिंदप्यतिवाद्येवं कालं सोऽथ विवेकवान् । चित्तरक्षगुरोः पादमूले दीक्षामुपाददे ॥ १०॥
अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकुनाम कर्म सः । बद्धवा मृत्वा प्राणतस्य पुष्पोत्तरे सुरोऽभवत् ॥ ११ ॥ 15 इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे । इक्ष्वाकुवंशगिरिभूरयोध्येत्यस्ति पूर्वरा ॥ १२ ॥
विमलस्वच्छपयसा परिखावलयेन सा । विराजते रतस्रस्तवेणीव वरंवर्णिनी ॥ १३ ॥ सुनिष्क्रमप्रवेशानि सत्संधीन्यर्थवन्ति च । सुभूमिकानि वेश्मानि नाटकानीव तत्र च ॥१४॥ तस्यां गृहोर्श्वभूमीषु काञ्चन्यो भान्ति जालिकाः । प्रत्येकं गृहलक्ष्मीभिराबद्धा मुकुटा इव ॥ १५ ॥ तत्र चैत्येष्वहंदोंपुष्पगन्धवहोऽनिलः । तापनाशाय लोकानां भवत्यमृतनस्यवत् ॥ १६॥ तस्यामासीत् सिंह इव विक्रमेणातिशायिना । अग्रेसरो नृसिंहानां सिंहसेनो महीपतिः ॥१७॥ उपचारं प्रयच्छन्तः स्वस्स कल्याणकाम्यया । तस्याधिदैवतस्पेव भक्त्या भूमिभुजोऽभवन् ॥ १८ ॥ अग्रणीर्गुणिनां तैस्तैः सोऽवदातैनिजैर्गुणैः । जगदापीणयामास करिव निशाकरः ॥ १९॥ काममर्थ च धर्म च स दधौ स्वखमात्रया । सेवाऽऽगतान् राजपुत्रानिवौचित्यविचक्षणः ॥२०॥
सधर्मचारिणी तस्याभवद् धर्मस्य वासभूः । सुयशा नाम यशसा खशीलेनैव शालिनी ॥ २१॥ 25 अम्बा-जनक-श्वशुरान्ववायानां बभूव सा । मन्दाकिनीव जगतां त्रयाणामेकपावनी ॥ २२ ॥
वक्रस्येन्दुः प्रतिनिधिदृशोरनुजमम्बुजम् । कण्ठस कम्बुरालेख्यं दोष्णोविसलता सखी ॥ २३ ॥ कुम्भः सनाभिः स्तनयो भेर्विवरमात्मभूः । प्रतिबिम्बं नितम्बस्य कूलिनीपुलिनावनिः ॥ २४ ॥
*हतुलनै संबृ०॥ १ प्रतिमानम्-प्रतिबिम्बम्-सादृश्यम्। २ ओक:-हर्म्यम्-गृहम् । ३ आकल्पकल्पनम्-भूषणपरिधानम् । ४ लोकवृत्यनुसरणात् । न किञ्चि° संबृ० का०॥ ५ इक्ष्वाकुवंश एव गिरिस्तस्य भूः स्थानम् अथवा इक्ष्वाकुवंशय गिरिभूः गङ्गा पवित्रत्वात् । ६ रतिप्रसङ्गे विशीर्णवेणीव । स्तवस्त्रेव मु०॥ ७ उत्तमरमणी। ८ सुष्टु गमनागमनहाराणि। ९ सुष्टुपर्वाणि, अन्यत्र नाटकस्याङ्गविशेषः सन्धिः। १० साधनवन्ति। रायुक्ता, मु. रामुक्का का०॥ Tन्धहरोऽनि मु०॥ ११ नस्सम्-घ्राणम् । १२ उपायनम् । ** °न्त आत्मक मु०॥ १३ मात्रा-औचित्यम् । १४ भन्दा वायः-वंशः। १५ शङ्खस्तस्याः कण्ठस्य चित्रमासीत् । १६ बिसलता कमलनाललता बाहोः सखीभूता मासीत् । १७ गुहा नामे पुत्ररूपाऽभूत् । १८ नद्याः सिकतावनिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org