SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] त्रिषष्टिशलाका पुरुषचरितमहाकाव्यम् । द्विवर्षोनां पञ्चदशाब्दलक्षीं केवलात् परम् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ २२३ ॥ || पभिः कुलकम् ॥ ज्ञात्वा निर्वाणमासन्नं संमेताद्रिं ययुः प्रभुः । षभिः साधुसहस्रैव सहानशनमाददे || २२४ ॥ मासं स्थित्वा शुचिकृष्ण सप्तम्यां पौष्णगे विधौ । मुनिभिस्तैः समं स्वामी जगाम पदमव्ययम् ॥ २२५ ॥ निर्वाणमहिमा भर्तुः संयतानां च सर्वतः । उपेत्य विदधे तत्र पुरुहूतादिभिः सुरैः ॥ २२६ ॥ कौमारे पञ्चदशान्दलक्षास्त्रिंशदिलाऽवने । व्रते पञ्चदशेत्यायुः प्रभोः पष्ट्यब्दलक्ष्यभूत् ।। २२७ ।। श्रीवासुपूज्यनिर्वाणाद् विमलस्वामिनिर्वृतिः । सागराणां त्रिंशति तु व्यतीतायामजायत ॥ २२८ ॥ स्वयम्भूरपि चैश्वर्यमदेन प्रभविष्णुना । परिलुप्तविवेकः सन् क्रूरकर्माकरोन्न किम् ? ॥ २२९ ॥ पष्टिं वत्सरलक्षाणि संपूर्यायुर्निजं हरिः । तैस्तैः खकर्मभिः षष्ठीं जगाम नरकावनीम् ॥ २३० ॥ स्वयम्भुवः कुमारत्वे द्वादशाब्दसहस्यभूत् । सैव मण्डलिकत्वे च नवत्यब्दी तु दिग्जये ।। २३१ ॥ 10 राज्ये वेकोनषष्ट्यब्दलक्षाण्यथ सहस्रकाः । पञ्चसप्ततिरधिका दशाग्रैर्नवभिः शतैः ॥ २३२ ॥ भद्रोऽपि सोदर विपत्तिशुचा विरक्त आचत्रतोऽथ मुनिचन्द्रमुनेः समीपे । षष्टिं च पश्च च निजायुषि वर्षलक्षान् नीत्वा विपद्य च पदं परमं प्रपेदे ॥ २३३ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीविमलनाथ - स्वयम्भू-भद्र-मेरकचरितवर्णनो नाम तृतीयः सर्गः ॥ ३॥ NANDRAILER द्विमासोनां सं० ॥ + "युः विभुः । का० ॥ Jain Education International १ शुचिः आषाढः । २ पृथ्वीपालने । ३६३ For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy