________________
15
३६२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[चतुर्य पर्व तत्र प्रदक्षिणीकृत्य नत्वा च परमेश्वरम् । अनुशक्रं सभद्रोऽपि स्वयम्भूः समुपाविशत् ॥ १९० ॥ नत्वा जिनेन्द्रं भूयोऽपि रचिताञ्जलिसंपुटाः । एषमारेभिरे स्तोतुं वज्रभृच्छाङ्गभृद्धलाः ॥ १९१ ॥ देव ! त्वदर्शनेनाय दुःखं सांसारिकं ययौ । शरीरिणां भुवः पङ्क इव वार्षिकवारिणा ॥ १९२ ॥ पुण्योऽयं दिवसः स्वामिस्त्वदर्शननिवन्धनम् । यत्रामलीभविष्यामो दुःकर्ममलिना वयम् ॥ १९३ ॥ अङ्गावयवराजत्वं प्रत्यपधन्त नो दृशः । यास्त्वदर्शनमासाद्य सद्योऽधुः शुद्धिमात्मनः ॥ १९४ ॥ पूतास्त्वत्पादसंपर्काद् भरतक्षेत्रभूमयः । अपि ताः पापनाशाय किं पुनस्तव दर्शनम् ॥ १९५ ॥ मिथ्यादृशामुलूकानामिव त्वदर्शनं प्रभो ! । केवलालोकमार्तण्डतिरोभावनिबन्धनम् ॥ १९६ ॥ त्वदर्शनसुधापानसमुच्छसितवर्मणाम् । अद्य देव ! त्रुटिष्यन्ति कर्मबन्धाः शरीरिणाम् ।। १९७ ॥ विवेकदर्पणोन्मार्टिसमुत्पादनकर्मठाः । कल्याणतरुवीजाभाः पान्तु त्वत्पादपांसवः ॥ १९८ ॥ स्वामिन् ! पीयूषगण्डूष इव ते देशनावचः। संसारमरुमनानामस्तु नः स्वास्थ्यहेतवे ॥ १९९ ॥ स्तुत्वेति सत्सु तूष्णीकेष्विन्द्रोपेन्द्रवलेषु तु । विमलां विमलस्वामी प्रारेभे धर्मदेशनाम् ॥ २००॥ अकामनिर्जरारूपात् पुण्याजन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥२०१॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ २०२ ।। प्राप्तेषु पुण्यतः श्रद्धा-कथक-श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ २०३ ॥ राज्यं वा चक्रभृत्त्वं वा शत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा । २०४॥ सर्वे भावाः सर्वजीः प्राप्तपूर्वा अनन्तशः । बोधिन जातुचित् प्राप्ता भवभ्रमणदर्शनात् ॥ २०५॥ पुद्गलानां परावर्तेष्वनन्तेषु गतेनिह । उपाधं पुद्गलावते शेषे सर्वशरीरिणाम् ॥ २०६॥ सर्वेषां कर्मणां शेपेऽन्तःकोटीकोट्यवस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ २०७ ।।
यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ २०८ ॥ 20 कुशास्त्रश्रवणं सङ्गो मिथ्याग्भिः कुवासना । प्रमादशीलता चेति स्युर्बोधिरिपन्थिनः ॥२०९ ।।
चारित्रस्यापि संप्राप्तिदुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निष्फलाऽन्यथा ॥ २१ ॥ अभव्या अपि चारित्रं प्राप्य ग्रैवेयकावधि । उत्पद्यन्ते विना बोधि प्राप्नुवन्ति न निवृतिम् ॥ २११॥ असंप्राप्ते वोधिरत्ने चक्रवर्त्यपि रवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात् ततोऽधिकः ॥ २१२ ।।
संप्राप्तबोधयो जीवा न रज्यन्ते भरे क्वचित । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥ २१३ ॥ 25 श्रुत्वैवं देशनां भर्तुः प्रायेण पावजञ्जनाः । भेजे स्वयम्भूः सम्यक्त्वं श्रावकत्वं च सीरभृत् ॥ २१४ ॥
पूर्णायामादिपौरुष्यां व्यसाक्षीद् देशनां प्रभुः । ततस्तथैव तां चक्रे मन्दरो गणभृद्वरः॥२१५ ॥ पूर्णद्वितीयपौरुष्यां देशनां सोऽप्यपारयत् । स्वं खं स्थानं ययुश्चेन्द्रोपेन्द्र-भद्रादयोऽपि हि ॥ २१६ ॥ ततः स्थानात पुर-ग्रामा-ऽऽकर-द्रोणमुखादिषु । व्यहरद् विमलस्वामी लोकानुग्रहकाम्यया ॥ २१७ ॥ अष्टपष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकाणां लक्षमेकं शतैरष्टभिरन्वितम् ॥ २१८ ।। चतुर्दशपूर्वभृतामेकादश शतानि तु । अवधिज्ञानिनामष्टचत्वारिंशच्छतानि तु ॥ २१९ ॥ शतानि पञ्चपञ्चाशन्मनःपर्ययधारिणाम् । तावन्त्येव तु शतानि केवलज्ञानिनामपि ॥ २२० ॥ जातवैक्रियलब्धीनां शतानि नवतिः पुनः । संजातवादलब्धीनां त्रिसहस्री द्विशत्यपि ॥ २२१ ॥ श्रावकाणामुभे लक्षे सहस्राष्टकसंयुते । श्राविकाणां चतुर्लक्षी चतुस्त्रिंशत्सहस्रयुक् ॥ २२२ ॥
परि
ग्योदय दिनं स्वा" संवृ॥ वर्म-वपुः । २ गण्डप:-गंटदो' इति भापायाम्। ३ सर्वेन्द्रियपटुता। म्पथी-शत्रुः। ५ मोक्षम् ।। प्यां विससर्ज दे संवृ० टि०॥ नि च । का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org