________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् नान्यस्त्वत्तो विन्ध्यशक्तिस्तस्मात् त्वमपि नापरः । द्वयोरभेद एवेह वार्धिकल्लोलजालवत् ॥ १५२ ॥ द्वयोरप्येक एवात्मा विभिन्ने वपुषी परम् । त्वदीयं यत् तदीयं तत् तदीयमपि तावकम् ॥ १५३॥ तव चै स्तूयते वेश्या नामतो गुणमञ्जरी । स्वान्तिकं विन्ध्यशक्तिस्तामानाययति कौतुकात् ॥१५४॥ सा स्वबन्धोः स्वतुल्यस्य याचमानस्य दीयताम् । दाने साधारणस्त्रीणां ग्रहणे च न गर्हणा ॥ १५५ ॥ इत्युक्तो मत्रिणा तेन यष्टिस्पृष्ट इवोरगः । कोपकम्प्राधरदलोऽवदत् पर्वतकोऽप्यदः ॥ १५६ ॥ 5 उच्यते स कथं बन्धुर्विन्ध्यशक्तिर्दुराशयः । प्राणेभ्योऽपि प्रियां यो मे याचते गुणमञ्जरीम् ॥१५७॥ मुहूर्तमपि न स्थातुं विना यामलमस्म्यहम् । तां तेनादित्सुना प्राणा अप्युपादित्सिता मम ॥ १५८ ॥ दासीमपि न दास्यामि किं पुनर्गुणमञ्जरीम् । अस्तु मित्रममित्रो वा विन्ध्यशक्तिः स्वशक्तितः॥१५९॥ उत्तिष्ट गच्छ त्वं तस्मै गत्वाऽऽख्याहि यथातथम् । राज्ञां भवन्ति दूता हि यथावस्थितवादिनः॥१६०॥ उत्थाय सोऽपि सचिवः साचिविक्षिप्तलोचनः। आरुह्य वाहनान्यागाद् विन्ध्यशक्तेरथान्तिकम् ॥१६१॥10 पर्वतकव्यतिकरं तं व्याचख्यावशेषतः । हुँताहुतिरिवार्चिष्मान् क्रुधा जज्वाल तत्प्रभुः ॥ १६२॥ मैत्री चिरभवां लुप्त्वा मर्यादामिव सागरः। विन्ध्यशक्तिश्वचालाऽभिपर्वतं गर्वपर्वतः ॥ १६३ ॥ पर्वतोऽप्याजगामाभिमुखं स्वबलवाहनः । शूराणां ह्यभिगमनं सुहृदीवासुहृद्यपि ॥ १६४ ॥ द्वयोरप्यग्रसैन्यानां युद्धं प्रववृते ततः । चिराद् दोर्दण्डकण् तिरुजाऽपनयनौषधम् ॥ १६५ ॥ अभ्यसर्पभवासर्पन सैन्ययोरुभयोरपि । भटाः परस्परं वेदियोधिनो द्विरदा इव ।। १६६ ॥ 15 कुन्तप्रोतोऽपि 'हुँ' कुर्वन् कश्चिदस्खलितं भटः । तन्तुप्रोतो मगिरिव संचचाराभिवैरिणम् ॥१६७ ॥ धनुर्धरवरोन्मुक्तनिरन्तरशरैरभूत् । अभिलूनशरवणारण्यभूरिख युद्धभूः ॥ १६८ ॥ पतद्भिः परिधैः शल्यैर्गदाभिर्मुद्गरैरपि । सपैरिव परप्राणहरैक्नशिरे दिशः ॥ १६९ ॥ इतः क्षणं क्षणमितः सैन्ययोरुभयोरपि । जयः समोऽभवज्योत्स्नाग्रसरः पेक्षयोरिव ॥ १७० ॥ अथ सर्वाभिसारेण धनुरास्फालयन् स्वयम् । रथारूढः पर्वतकः समरायोदतिष्ठत ॥ १७१॥ 20 युगपदाणवर्षेण परसैन्यं तिरोदधे । अन्तरिक्षमिवानीकप्रोत्खातावनिपांसुभिः ॥ १७२ ॥ केसरीवेभयूथेषु परसैन्येषु स क्षणात् । महान्तं प्रलयं चक्रे कृतान्तस्येव भोजनम् ॥ १७३ ॥ अरुध्यमानप्रसरो विन्ध्यशक्तेर्बलानि सः। मङ्क्ष प्रभञ्जनो वृक्षानिवाभानीन्महाबलः॥ १७४ ॥ क्रुद्धः स्वसैन्यभङ्गेन विन्ध्यशक्तिर्महाभुजः । परान् संहर्तुमुत्तस्थे कालरात्रेरिवानुजः ॥ १७५ ॥ न सेहे पर्वतानीकैर्विन्ध्यशक्तिः समापतन् । कुरङ्गैरिव शार्दूलः सुँपर्णः पन्नगरिव ॥ १७६ ॥ 25 सोऽथ विद्रुतसैन्यं तं स्थितं पर्वतकं पुरः। रणायाऽऽह्वास्त कोदण्डदोर्दण्डबलगर्वितः ।। १७७ ।। नाराचैस्तद्वलैरर्धचन्द्रर्यमरदैरिव । भूभुजौ युयुधाते तावन्योऽन्ययुद्धकाशिणौ ॥ १७८ ॥ रथं रथ्यान सारथिं च रथिनौ तावथो मिथः । ममन्थतुः परिभवाऽऽपमित्यकधराविव ॥ १७९ ।। ततोऽपररथारूढावाटतुरुभावपि । विन्ध्यशक्ति-पर्वतको कल्पान्ते पर्वताविव ॥ १८० ॥ सर्वशक्त्या विन्ध्यशक्तिनृपः पर्वतकं नृपम् । चक्रे निरस्त्रं निर्वीय द्विजिह्वमिव निर्विषम् ॥ १८१॥ 30 ___ * च श्रूयते सं०॥ १ आदित्सुः-प्रहीतुगिच्छुः । २ उपादित्सिताः ग्रहीतुमिच्छाविषयीकृताः। । सावि:-तिर्यक्वक्रम् । ४ हुता माहुतिः यस्मिन् । ५ पर्वतसंमुखम् । । 'खं सव० सं०। ६ कण्डूतिरुजा-भाषायाम् 'चळखंजवाळ' । ७ वेदिः परिष्कृता भूमिः तस्यां योधिनः। सर्वतः छिन्नम्-अभिलनम् । ९शुक्ल-कृष्णपक्षयोः। .समराय युद्धाय, उदतिष्ठत-उस्थितः-सजो जातः । ११ अनीकेन सैन्येन प्रोस्खाताभिः 'उखेडेली-उडाडेली' भवनिधूलिभिः। १२ 'केसरी इव इमइति विभागः। १३ शत्रून् । १४ गरुडः । । "चैस्तोमरैरर्ध-सं० ॥ व्यवधकाशि-सं०॥ १५ भापमिलाकम् विनिमयेन(भाइबदले)-आनीतं धनादि। १६ अभिआरतुः-अभिजग्मतुः।
त्रिषष्टि. ४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org