________________
३४८
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
उत्फुल्लसुमनोभूरिभाराऽऽनमितमूर्धभिः । कर्णिकारैरुपक्रान्तनमस्कार इवाधिकम् ॥ पुष्पाभरणरम्याभिर्लोलपल्लवपाणिभिः । वासन्तीभिः प्रमोदेनारब्धनृत्य इवाग्रतः ॥ शोभाविशेषं जनयँल्लता-पादप- वीरुधाम् । प्रविवेश तदुद्यानं स्वामी मंधुरिवापरः ।।
15
5 शिविकात स्तदोत्तीर्य स्वामी सग्भूषणादिकम् । मुमोच फाल्गुने मासि पत्राणीव महीरुहः ॥ इन्द्रन्यस्तं देवदूष्यं स्कन्धदेशे समुद्वहन् । चतुर्थेन पञ्चमुष्टिकेशोत्पाटनपूर्वकम् ॥ १२४ ॥ फाल्गुनस्याभावास्यायां वारुणे भेऽपरेऽहनि । राज्ञां पह्निः शतैः सार्धं प्रात्राजीत् परमेश्वरः ॥ १२५ ॥ युग्मम् ।। सुरासुरनराधीशा नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुर्दानान्ते याचका इव ॥ १२६ ॥ महापुरे द्वितीयेऽह्नि सुनन्दनृपसद्मनि । चकार परमान्नेन पारणं परमेश्वरः ॥ १२७ ॥ 0 देवैश्व विदधे दिव्यवसुधारादिपञ्चकम् । रत्नपीठं सुनन्देन चाङ्घ्रिस्थाने जगद्गुरोः ॥ १२८ ॥ ततः स्थानादथान्येषु ग्रामा-ssकर - पुरादिषु । प्रावर्तिष्ट विहाराय समीरण इव प्रभुः ।। १२९ ।।
30
१२० ॥ १२१ ॥ १२२ ॥
[ चतुर्थ वर्ष
इतश्च जम्बूद्वीपेऽस्मिन् भरतार्थेऽत्र दक्षिणे । पुरं विन्ध्यपुरं नामास्त्यवन्ध्यं सर्वसंपदाम् ॥ १३२ ॥ तत्र नाम्ना विन्ध्यशक्तिर्विन्ध्याद्रिरिव सारतः । आसीन्नृपतिशार्दूलः शत्रुर्तेल महानिलः ॥ १३३ ॥ मिथः संसृजतोस्तस्य कोदण्डभुजदण्डयोः । प्रचुक्षुभुर्भूमिभुजो ग्रहयोः क्रूरयोरिव ॥ १३४ ॥ नितान्ताऽऽरक्तया क्रूरभ्रकुटीभङ्गभीमया । गिलन्निव स दृष्ट्वाऽपि नश्यद्भिर्ददृशेऽरिभिः ।। १३५ ॥ शिश्रिये सोऽरिभिरपि निजजीवितकाम्यया । तेऽदुश्च दण्डे सर्वस्वं प्राणान् रक्षेद् धनैरपि ॥ १३६ ॥ एकदा सर्वसामन्तामात्याद्यैः परिवारितः । स औस्थान्यामुपाविक्षत् सुधर्मायामिवाद्रिभित् ॥ १३७ ॥ 20 आजगाम चरको वेत्रिणा च प्रवेशितः । नमस्कृत्योपविश्याग्रे व्यजिज्ञपदिदं शनैः ॥ १३८ ॥
॥ सप्तभिः कुलकम् ॥
१२३ ॥
इतश्च नगरे पृथ्वीपुरे नृपशिरोमणिः । नाम्ना पवनवेगोऽभूद् भवं सोऽन्वंशिषच्चिरम् ॥ १३० ॥ पार्श्व श्रवणसिंहर्षेरादाय समये व्रतम् । दुस्तपं स तपस्तप्त्वा विपद्यागादनुत्तरे ॥ १३१ ॥
जानासि देव ! यदिह भरतार्थेऽस्ति दक्षिणे । लक्ष्मीनिधानं साकेतमिति नाम्ना महापुरम् ॥ १३९ ॥ आँर्षभेरिव सेनानीः प्रभूतबलसंपदा । पर्वतो नाम तत्रास्ति महाबाहुर्महीपतिः ॥ १४० ॥ स्वरूपेणोर्वशी-रम्भापराभवनिबन्धनम् । धनं रतिपतेस्तस्य वेश्याऽस्ति गुणमञ्जरी ॥ १४१ ॥ तस्या वदननिर्माणावशिष्टैः परमाणुभिः । विदधे वेधसा मन्ये पूर्णिमारजनीकरः ॥ १४२ ॥ 25 किमस्मदधिकं हन्त ! लावण्यं क्वापि शुश्रुवे । इति प्रष्टुमिव दृशौ तस्याः कर्णावुपेयतुः ॥ १४३ ॥ तस्या वक्षसि वक्षोजौ तथा वैशाल्यशालिनौ । यथा तयोरुपमानं तावेव हि न चापरम् ॥ १४४ ॥ मध्यं चातिकृशं तस्याः सहवासोत्थसौहृदात् । समर्पितर्परीणाहमिवोच्चैः स्तनकुम्भयोः ॥ १४५ ॥ पाणी पादौ च रेजाते तस्या राजीवकोमलौ । कङ्केल्लिपल्लवायासकारिणौ रागसंपदा ॥ १४६ ॥ सा गीते कलकण्ठीव नृत्ते स्वयमिवोर्वशी । वीणावाद्ये च मधुरे तुम्बुरोरिव सोदरा ॥ १४७ ॥ नारीषु रत्नभूता सा देवस्यैव हि युज्यते । युवयोरुचितो योगः स्वर्णमण्योरिवास्तु तत् ॥ १४८ ॥ भोज्येनालवणेनेव मुखेनेवापचक्षुषा । अचन्द्रया रजन्येव किं ते राज्येन तां विना ॥ १४९ ॥ इत्याकर्ण्य वचो राजा याचितुं गुणमञ्जरीम् । उपपर्वतकं प्रैषीन्मन्त्रिणं दूतकर्मणा ॥ १५० ॥ चालैर्वाहनैर्व्योम तरद्भिरिव रंहसा । गत्वा स साकेतपुरं नृपं पर्वतमभ्यधात् ॥ १५१ ॥
Jain Education International
For Private & Personal Use Only
१ वसन्तः । २ शशास । ३ सारो बलम् । ४ तूलम् भाषायाम्- 'रु' इति । ५ सभायाम् । ६ इन्द्रः । ७ ऋषभपुत्रस्य भरतस्य सेनानीः इव । ८ परीणाहो विस्तारः । ९ राजीवम् - कमलम् । * कङ्किल्लिप सं० ॥ कलि:- अशोकवरुः । १० तुम्बुरु गानक कानिपुणतमो गायकजातिविशेषः । ११ पर्वतनृपसमीपम् । १२ द्रुतगतिभिः ।
www.jainelibrary.org