________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् ।
प्रव्रज्या - केवलज्ञान-निर्वाणगमैनैरपि । जन्मनैवोत्सवो भावी तातस्य जगतोऽपि च ॥ ८९ ॥ वसुपूज्यनृपोऽप्येवमभ्यधात् सास्रलोचनः । भवन्तं हन्त ! जानामि संसारतरणोत्सुकम् ॥ ९० ॥ इदं जन्म पारमिव भवाम्भोधेस्त्वमासदः । ज्ञातं तैस्तैर्महास्वनैस्तीर्थकुज्जन्मसूचकैः ॥ ९१ ॥ असंशयं त्वया तीर्ण एवैष भवसागरः । दीक्षा - केवल - निर्वाणोत्सवाश्च खलु भाविनः ॥ ९२ ॥ अवान्तरोत्सवमिमं किं तु वाञ्छामि तावकम् । अप्यस्मत्पूर्वपुरुषैर्मुमुक्षुभिरनुष्ठितम् ॥ ९३ ॥ तथा क्ष्वाकुवंशादिर्भगवानृषभध्वजः । सुमङ्गलां सुनन्दां चोपयेमे पितृशासनात् ॥ ९४ ॥ पितुरेवाज्ञया राज्यं ससर्जापालयच्च सः । भोगांश्च शुक्त्वा समये प्रव्रज्यां समुपाददे ॥ ९५ ॥ पश्चादप्यात्तया मोक्षं दीक्षया प्राप स प्रभुः । मोक्षो ग्राम इवासन्नः सुप्रापस्त्वादृशां खलु ।। ९६ ।। अन्ये प्यजितनाथाद्याः श्रेयांसान्ताः पितुर्गिरा । उदूहुरुहुंश्व महीं ततो मोक्षमसाधयन् ॥ ९७ ॥ भवानपि करोत्वेवं पूर्वाननुकरोतु च। विवाह- राज्यवहन - दीक्षा - निर्वाणसाधनैः ॥ ९८ ॥ वासुपूज्य कुमारोऽपि सश्रयमभाषत । तात ! ज्ञाताऽस्मि पूर्वेषां सर्वेषां चरितान्यहम् ॥ ९९ ॥ किं त्वत्र संसारपथे न हि केनापि कस्यचित् । स्वकुलेऽन्यकुले वाऽपि कर्मसादृश्यमीक्ष्यते ॥ १०० ॥ सावशेषाणि कर्माणि तेषां भोगफलानि हि । तद् तानि चिच्छिदुर्भोगैस्ते ज्ञानत्रयधारिणः ॥ १०१ ॥ न मे भोगफलं कर्म किञ्चिदप्यवशिष्यते । मोक्षप्रत्यूहभूतं तन्नैवमादेष्टुमर्हथ ॥ १०२ ॥
लिमिः पार्श्व इति भाविनोऽपि त्रयो जिनाः । अकृतोद्वाहसाम्राज्याः प्रवजिष्यन्ति मुक्तये ॥ १०३ ॥ | 15 श्रीवरश्वरमश्वान्नीषोग्येन कर्मणा । कृतोद्वाहोऽकृतराज्यः प्रवजिष्यति 'सेत्स्यति ॥ १०४ ॥ ततश्च कर्मवैचित्र्यात् पन्था नैकोऽर्हतामपि । विचार्येत्यनुजानीथ मा भूत प्रेमकातराः ॥ १०५ ॥ एवं प्रबोध्य पितरौ वर्षलक्षेषु जन्मतः । गतेष्वष्टादशस्वीशो जज्ञे दीक्षार्थमुत्सुकः ॥ १०६ ॥ ज्ञात्वा चासनकम्पेन स्वामिदीक्षाक्षणं क्षणात् । ब्रह्मलोकादुपाजग्मुस्तत्र लौकान्तिकामराः ॥ १०७ ॥ ते त्रिः प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । इति विज्ञपयामासुः स्वामिन् ! तीर्थं प्रवर्तय ॥ १०८ ॥ 20 एवं विज्ञाप्य यातेषु तेषु कल्पं निजं पुनः । अदत्त वार्षिकं दानमवदानपरः प्रभुः ॥ १०९ ॥ तानान्तेभ्येत्य दीक्षाभिषेकोत्सवमीशितुः । इन्द्राश्चक्रुः प्रावृडन्त इन्द्रोत्सवमिव प्रजाः ॥ ११० ॥ तत पृथिवीं नाम सुरासुर - नरैः कृताम् । समारुरोह शिबिकां सिंहासनविभूषिताम् ॥ १११ ॥ तत्राङ्घ्रिपीठन्यस्ताङ्घिर्मणिसिंहासनस्थितः । राजहंस इव स्वर्णाम्भोरुहोत्सङ्गमास्थितः ॥ ११२ ॥ कैचिदग्रस्थितैः स्वस्वशस्त्रोल्लोलनलालसैः । दिव्यच्छत्रकरैः कैश्चित् कैश्चिच्चामरधारिभिः ॥ ११३ ॥ तालवृन्तधेरैः कैश्चित् कैचिंच्चामरधारिभिः । पुष्पदामधरैः कैश्चिद् वासवैः परिवारितः ॥ ११४ ॥ अमरैरसुरैर्मत्यैः सेव्यमानो जगत्पतिः । विहारगृहमित्युच्चैर्ययावथ वनोत्तमम् ॥ ११५ ॥
॥ चतुर्भिः कलापकम् ॥
घृताङ्कराखादहः परपुटैः कलखनैः । प्रस्तूयमानस्तवन इव भक्तिप्रकर्षतः ॥ ११६ ॥ अनिलान्दोलन स्रस्तकुसुमस्तबकच्छलात् । प्रदीयमानाघ इव प्रत्यग्राशोकपादपैः ॥ ११७ ॥ उच्छलच्चम्पकाशोकमकरन्दापदेर्शतः । पादाचयै ढौक्यमानपाद्योदक इवामरैः ॥ ११८ ॥ अमन्दलवली पुष्पमधुपानोन्मदिष्णुभिः । रोलॅम्बललनावृन्दैः कृतोल्लुरिवोच्चकैः ॥ ११९ ॥
* मनैर्मम । सं० ॥ १ तव इदम् । २ परिणीताः । ३ ऊढाः- धृता इत्यर्थः । ४ सस्नेहम् । ५ उद्वाहः- विवाहः । १ सिद्धो भविष्यति । ↑ "ल्यं जिनः पु' सं० ॥ ७ अवदानम्-पराक्रमः । प्रभोः सं० ॥ ८ उत्सङ्गः - क्रोडः । ९ उल्लालनम् - भाषायाम् - अकालवं । 8 °श्चित् स्तवनकारिभिः । सं० ॥ १० कोकिलैः । ११ प्रत्यग्रः नवीनः । १२ अपदेशतः - मिषतः । ॥ पादाचान्यै दौं° सं० ॥ १३ रोलम्बो भ्रमरः । ** कृतोल्लास इवो -सं० ॥ १४ उद्धलुः मङ्गलध्वनिः ।
Jain Education International
३४७
For Private & Personal Use Only
5
10
25
30
www.jainelibrary.org