________________
३४५
द्वितीयः सर्गः1
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । सद्भक्त्या परमात्मेव शुद्धस्फटिकनिर्मले । वसुपूज्यनृपोऽप्यस्याः सदा चेतस्यवर्तत ॥२७॥ रूपेण लवणिम्ना च गुणैस्तैश्चानुरूपयोः । तयोर्विलसतोः कालः कोऽप्यद्वैतसुखो ययौ ॥ २८ ॥ इतः कल्पे प्राणताख्ये पद्मोत्तरमहीपतेः । जीवः स्वमायुरुत्कृष्टं सुखमनोऽत्यवाहयत् ॥ २९ ॥ ज्येष्ठस्य शुद्धनवम्यां चन्द्रे शतभिषग्गते । स च्युत्वा प्राणताज्जीवो जयाकुक्षाववातरत् ॥ ३०॥ ईक्षाश्चक्रे तदानीं च तीर्थजन्मसूचकान् । सुखसुप्ता जयादेवी महाखमांश्चतुर्दश ॥ ३१॥ मृगाङ्कमभ्रलेखेवाद्रिगुहेव मृगाधिपम् । तं गर्भ धारयामास जया स्वामिन्यनुत्तमम् ॥ ३२॥ फाल्गुनश्यामभूतेष्टातिथौ भेऽपि च वारुणे । रक्तवर्ण महिषाकं साऽसूत समये सुतम् ॥ ३३ ॥ संजातासनकम्पाः षट्पञ्चाशद्दिकुमारिकाः । स्वामिनः स्वामिमातुश्च सूतिकमैत्य चक्रिरे ॥३४॥ शक्रोऽपि पालकारूढस्तत्रैत्य सपरिच्छदः । स्वामिवत् स्वामिभवनं प्रदक्षिण्यकरोद् द्रुतम् ॥ ३५ ॥ सत् प्रविश्य जयादेव्या दत्त्वाऽपस्तापनी हरिः । पार्श्वेऽर्हत्प्रतिबिम्बं च न्यस्याभूत् पञ्चमूर्तिकः ॥ ३६ ॥10 मूत्यैकयाऽग्रहीनाथमातपत्रमथान्यया । द्वाभ्यां तु चमरे वल्गनन्यया तु पुरो ययौ ॥ ३७॥ सुमेरावमराधीशोऽतिपाण्डुकम्बलां शिलाम् । गत्वा सिंहासन उपाविक्षदकाहितप्रभुः ॥ ३८॥ अथाच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । खामिनं स्वपयामासुः कुम्भस्तीर्थपयोभृतैः ॥ ३९॥ ईशानकल्पाधिपतेरके जिनपतिं ततः । शक्रो निवेशयामास खकीय इव चेतसि ॥४०॥ जिनेन्द्रस्य चतसृषु ककुप्सु स्फाटिकान् वृषान् । चतुरो भक्तिचतुरो विचकार पुरन्दरः ॥४१॥ 15 तद्विषाणोत्थितैस्तोयैः स्त्रपयामास स प्रभुम् । अन्येन्द्रनपनविधिवलक्षण्यविचक्षणः ॥ ४२ ॥ उक्ष्णस्तानुपसंहृत्य स्वामिनोऽङ्गं प्रमृज्य च । विलिम्पति स्म गोशीर्षचन्दनेन दिवस्पतिः ॥४३ ॥ दिव्यैर्विभूषणैर्वस्त्रैरभ्यर्च्य कुसुमैरपि । रचिताऽऽरात्रिको नाथमस्तवीदिति वासवः ॥४४॥
चक्रिणां नैव चक्रेण गदया नार्धचक्रिणाम् । न चेशानस्य शूलेन न वज्रेण ममापि वा ॥४५॥ न चास्त्रैरपरेन्द्राणां यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यन्ते दर्शनेनापि नाथ! ते ॥ ४६॥ 20 नैव क्षीरोदवेलाभिर्न प्रभाभिः क्षपापतेः । नैव वारिधरासारैर्न च गोशीर्षचन्दनैः ॥४७॥ न वा निरन्तर रम्भारामैः शाम्यन्ति ये खलु । सर्वे ते दुःखसंतापाः शीर्यन्ते दर्शनेन ते ॥४८॥ न ये नानाविधैः काँथैचूर्णैश्च विविधैर्न ये । न च प्राज्यैः प्रलेपैर्ये न च ये शस्त्रकर्मभिः ॥४९॥ न च मत्रप्रयोगैर्ये छिद्यन्ते जातु देहिनाम् । आमयास्ते प्रलीयन्ते दर्शनेनापि ते प्रभो ! ॥५०॥ खलूक्त्वा यदि वाऽनल्पमल्पमेतद् ब्रवीम्यहम् । यत् किश्चिदप्यसाध्यं तत् साध्यते दर्शनेन ते ॥५१॥25 त्वदर्शनस्यास्य फलमिच्छाम्येतजगत्पते ! । भूयो भूयः संप्रतीव भवद्दर्शनमस्तु मे ॥५२॥ एवं जिनपतिं स्तुत्वा गृहीत्वा च दिवस्पतिः । गत्वा पार्श्वे जयादेव्या मुमोच प्रणनाम च ॥ ५३ ॥ हृत्वाऽपस्खापनी देव्यास्तच्चाहत्प्रतिरूपकम् । ततो द्यां प्रययौ शक्रो मेरुतोऽन्ये तु वासवाः ॥ ५४ ॥ उत्सवं वसुपूज्योऽपि चक्रे सूर्य इवोदयम् । चेतांसि कमलानीव जगतोऽपि विकासयन् ॥ ५५ ॥ वसुपूज्य-जयादेव्यौ वासुपूज्य इति स्वयम् । यथार्थ नाम चक्राते शुभेऽहनि जगत्पतेः ॥५६॥ 30 शक्रसंक्रमिताङ्गुष्ठसुधया स्वाम्यवर्धत । धांव्योऽन्यकर्मभिर्धात्र्योऽर्हतां न स्तन्यदा यतः ५७॥ पञ्चभिर्वासवादिष्टधात्रीभिः परमेश्वरः । छायावत् सहयात्रीभिर्लाल्यमानो व्यवर्धत ॥ ५८॥ रत्नवर्णमयैर्दिव्यैः कदाचिदपि गेन्दुकैः । शङ्खलाभिर्वज्ररत्नसंकुलाभिः कदाचन ॥ ५९ ॥
* देवी देवी व सं० ॥ १ "भूतेष्टा तु चतुर्दशी"-अभिधानचिन्ता० कां० २ श्लो० ६५। २ वल्गन् वेगेन गच्छन् । तेषां शृङ्गोत्थितस्तोयैः सं०॥ ३ काथा:-भाषायाम् 'काढा-उकाळा' इति। ४ धाग्यो मातरः। दानतःसं.. ५ सहनिवासाभिः। ६ गेन्दुकाः-भाषायाम् 'गेंद-दडा' इति । मलाः 'सांकल' इति भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org