________________
[चतुर्य पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
द्वितीयः सर्गः। श्रीवासुपूज्यचरितम् ।
नमः श्रीवासुपूज्याय विश्वपूज्याय तायिने । इन्द्रोपेन्द्रकिरीटाग्रुघृष्टाशिनखपतये ॥१॥ अर्हन्तमिव रूपस्थध्यानस्थो विश्वपावनम् । वक्ष्यामि तस्य चरितं चन्द्रादप्यतिनिर्मलम् ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहविभूषणे । विजये' मङ्गलावत्यामस्ति पू रत्नरञ्चया ॥३॥ तयां पनोत्तरो नाम विश्वपद्मोत्तरः सदा । बभूव राजा रजनीराजराजेव वल्लभः ॥ ४ ॥ अधारयम् मनसि स जैनं शासनमुज्वलम् । तदीयमिव राजानो नित्यं शिरसि भक्तितः ॥५॥ तस्य लक्ष्मीश्च कीर्तिश्च गुणानामेकवेश्मनः । युग्मजाते इव भृशं ववृधाते सहैव हि ॥६॥
पृथ्वी समुद्रसंव्यानां पृथ्वीपतिशिरोमणिः । परिखामेखलामेकपुरीमिव शशास सः ॥७॥ 10 चपलाचपला लक्ष्मीर्वयोवद् गत्वरं वपुः । पद्मदलायोबिदन्दुवच पुण्यं विनश्वरम् ॥ ८॥
विश्लेषिणो बन्धवोऽपि मार्गसंपृक्तपान्थवत् । इत्यजस्रं भावयन् स भववैराग्यमासदत् ॥ ९॥ युग्मम् ॥ वज्रनाभगुरोः पादमूले गत्वा महामनाः । अन्येधुराददे दीक्षां मुक्तिश्रीप्राप्तितिकाम् ॥१०॥ अर्हनत्यादिभिस्तैस्तैः स्थानकैः कैश्चिदुज्वलैः । सुधीरुपार्जयामास तीर्थकृनाम कर्म सः ॥ ११ ॥ खड्गधारातिनिशितं पालयित्वा चिरं व्रतम् । विपद्याभूत सुरः कल्पे प्राणताख्ये महर्द्धिकः ॥१२॥
इतश्च जम्बूद्वीपस्य भरतार्धेत्र दक्षिणे । पुर्यस्ति नाम्ना चम्पेति चर्पकोत्सवद् भुवः ॥ १३ ॥ तत्र चैत्येषु रत्नाश्मभित्तिषु प्रतिबिम्बितः । वैक्रियाणीव रूपाणि धारयन् लक्ष्यते जनः ॥ १४ ॥ चन्द्राश्मबद्धः सोपानैर्निशि निःस्यन्दिवारिभिः । तत्र स्वयञ्जलाः क्रीडादीर्घिकाः प्रतिमन्दिरम् ॥ १५ ॥ सपधूमवल्लीभिर्वासागाराणि तत्र च । पातालभवनानीवोरगीभिर्भान्त्यनेकशः ॥१६॥ क्रीडत्पुरवधूकानि तत्र क्रीडासरांसि च । निर्यदप्सरसः क्षीरोदधेर्दधति विभ्रमम् ॥ १७ ॥ लीलया षड्जबहला गायन्त्यः षड्जकैशिकीम् । भवन्ति केकिकेकानां तत्र संवादिकाः स्त्रियः॥१८॥ ताम्बूलीबीटकभृतो भान्ति तत्रेभ्यवेश्मसु । नार्योऽध्यापयितुं हस्तन्यस्तक्रीडाँशुका इव ॥ १९॥ तत्रासीद् वासव इवौजसा वसुरिव त्विषा । वसुपूज्य इतीक्ष्वाकुवंश्यो वसुमतीपतिः ॥२०॥ स कुर्वन् गर्जितमिव याचकाहींनडिण्डिमैः । पृथिवीं प्रीणयामास धनैर्वाभिरिवाम्बुदः ॥ २१ ॥ विचेरुः क्रीडया पृथ्व्यां तस्यानीकान्यनेकशः । न पुनर्दिग्जयकृते प्रतापाक्रान्तविद्विषः ॥ २२ ॥ दुष्टानां शासके तसिनाज्ञासारे महीभुजि । दस्युनाम नामकाण्डेष्वदृश्यत जनेषु न ॥ २३ ॥ पवित्रं धारयामास हृदि सर्वज्ञशासनम् । श्रीवत्समिव शश्वत् स वत्सलो धर्मशालिषु ॥ २४ ॥ खान्ववायसरोहंसी रतिरूपविजित्वरी । जया नाम महादेवी तस्यासीत् प्रीतिभाजनम् ॥ २५॥ सा जाह्नवीव गम्भीरा वक्रमन्थरगामिनी । पूर्वाम्भोधिमिवास्तापं वसुपूज्यमनोऽविशत् ॥ २६ ॥
* अमृष्टांति सं० का० ॥ + ये पुष्कलाव सं०॥ १ समग्रलक्ष्म्या उत्तमः। नीजानिवजनवल्लभः सं० का०॥ २ समुद्रवस्खाम् । इणिः । सर्वो परिखामेक सं०॥ ३ चपला-विद्युत् , चपला-चञ्चला। ४ वियोगिनः। ५ स्थानैर्ष. बाहगोत्रकः। ६ चम्पकशेखरकवत् । * लक्षितो ज° सं०॥ ७ सहजसिद्धजलाः। हलां गा का० सं०॥ ८ मयूरध्वनीनाम्। संवाहिकाः सं०॥ ९ 'बीटक' इति भाषायाम्-'बीडं। १० क्रीडाथै पालिताः शुकाः हस्ते स्थापिता याभिः।
वसुः-सूर्यः। १२ याचकानाम् भामनणाय वाचमानैः डिण्डिमैः। १३ दस्योः नामानि केवलं कोशे एव । धर्मशीलि. मु.॥ स्याभूतु सं०॥ १४वक्रम्, मन्थरम्-मन्दं मन्दम् । १५ अस्ताघम्-भाषायाम् 'अथाग' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org