SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ वा सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । महोत्साहस्य सततं गुरुभक्तस्य वत्स ! ते । निद्रा च मदवज्ञा च न संभवति सर्वथा ॥ ८९५ ॥ हा! हतोऽस्म्युग्रविधिना किमापतितमस्य मे । इति क्रन्दन् महीपृष्ठे मुशली मूञ्छितोऽपतत् ।। ८९६ ॥ लब्धसंज्ञः क्षणेनापि समुत्थाय च लागली । हा! भ्रातर्घातरित्युच्चैः क्रन्दन्नकेऽग्रहीद्धरिम् ॥ ८९७ ॥ वृद्धैः प्रबोधितः सोऽथ धैर्यमालम्ब्य च क्षणम् । अनुजस्याङ्गसंस्कारादिकं कर्म समापयत् ॥ ८९८ ॥ कृतौर्ध्वदेहिको भ्रातुः सरणेन मुहुर्मुहुः । मुमोच लोचनैर्वारि श्रावणाम्भोदवद् बलः ॥ ८९९ ॥ 5 महाटण्यामिवोद्याने श्मशान इव वेश्मनि । गृहस्रोतःखिंव क्रीडासरःस्रोतखिनीष्वपि ॥ ९०० ॥ अपि बन्धुसमाजेषु वैरिवृन्देष्विवानिशम् । न रतिं बलभद्रोऽगादल्पवारिणि मत्स्यवत् ॥९०१॥ युग्मम् ॥ श्रेयांसखामिपादानां सरन् श्रेयस्करी गिरम् । संसारासारतां ध्यायन् विषयेभ्यः पराशुखः ॥९०२॥ खजनाना परोधात् स्थित्वाऽहानि च कानिचित् । ययौ बलोधर्मघोषाचार्यपादान्तमन्यदा॥९०३।। युग्मम् शुश्राव देशनां तस्मादर्हद्वागनुवादिनीम् । विशेषाद् भवनिर्वेदैमाससाद तयाँ बलः॥९०४॥ 10 सद्यो जग्राह दीक्षां च तत्पादान्ते स शुद्धधीः । अनुष्ठाने प्रवर्तन्ते ज्ञात्वा खलु महाशयाः ॥९०५॥ स सम्यक् पालयन मूलगुणोत्तरगुणान् गुणी । सर्वत्र समतां विभ्रत् सहमानः परीपहान् ॥ ९०६ ॥ वायुरिवाप्रतिबद्धो भुजङ्गम इवैकदृक् । कश्चित् कालं विजहार ग्रामा-ऽऽकर-पुरादिषु ॥९०७॥ युग्मम् ।। अथाब्दलक्षाण्यतिवाह्य पश्चाशीति निसर्गामलचित्तवृत्तिः । कर्माणि सर्वाण्यपि घातयित्वा प्रापाचलः सिद्धिपदे निवासम् ॥ ९०८॥ 15 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीश्रेयांसजिनत्रिपृष्ठाचलाश्वग्रीवचरितवर्णनो नाम प्रथमः सर्गः संपूर्णः॥ बळदेवः। * °व सुखं क्रीडास्रोत सं०॥ २ आमहात्। ३ वैराग्यम् । ६०००सं०का॥ तयाचलः सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy