________________
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[पतुर्थ पर्व श्रीमच्छीतलनाथस्य मोक्षकालादनन्तरम् । श्रेयांसवामिनो जज्ञे निर्वाणगमनोत्सवः ।।८६४॥ युग्मम्॥ चक्रे निर्वाणकल्याणं संगीर्वाणैः पुरन्दरैः । महतामन्तकालोऽपि पर्वणे न पुनः शुंचे ॥ ८६५ ॥ द्वाविंशतान्तःपुरस्त्रीसहविलसन् सुखम् । त्रिपृष्ठोऽपि ततः खायुः कियदप्यत्यवाहयत् ॥ ८६६ ॥ खयम्प्रभायां जज्ञाते शार्ङ्गपाणेरुभौ सुतौ । ज्येष्ठः श्रीविजयो नाम कनिष्ठो विजयायः॥८६७॥ रतिसागरमग्नस्य त्रिपृष्ठस्यान्यदान्तिके । आजग्मुर्गायनाः केपि सौवर्यादतिकिन्नराः ॥ ८६८ ॥ गायन्तस्तेऽतिमधुररागवैविध्यबन्धुरम् । हृषीकेशस्य हृदयं जहुः सर्वकलानिधेः ॥ ८६९ ॥ सदा त्रिपृष्ठः पार्श्वस्थांश्चक्रे गीतगुणेन तान् । रज्यन्त्यन्येऽपि गीतेन किं पुनस्तदिग्रणीः ॥ ८७० ॥ अन्यदा तु विभावयाँ विष्णोस्तल्पे निषेदुषः । तैस्तारं गातुमारेभे गन्धर्वैरिव वज्रिणः॥,८७१ ॥ तद्गीताक्षिप्तहृदयः करीवाथ जनार्दनः । एकं वारस्थितं शय्यापालमेवं समादिशत् ॥ ८७२ ॥ निद्राममाणेष्वसासु गायतो गायनानमून् । विसृजेस्त्वं वृथाऽऽयासः स्वामिन्यनवधायके ॥ ८७३ ॥ सथेति प्रतिपेदे स शय्यापालः प्रभोर्वचः । शाङ्गिणोऽपि क्षणानिद्रा मुंद्रयामास लोचने ॥ ८७४ ॥ शय्यापालोऽपि तान गीतलोभाद् विसृजति स न । विषयाक्षिप्तमनसा गैलेद्धि खामिशासनम् ॥८७५॥ यामिन्याः पश्चिमे यामे प्रबुद्धोऽधोक्षजस्ततः । तथैव गायतोऽश्रौषीत् तानक्षीणकलखरान् ॥ ८७६ ॥ किं विसृष्टास्त्वया नामी स्पष्टकष्टास्तपस्विनः । इति पृष्टस्त्रिपृष्ठेन शय्यापालोऽब्रवीदिदम् ॥ ८७७॥ अमीषामेव गीतेन व्याक्षिप्तहृदयः प्रभो! । व्यस्राक्षं गायनान् नैतान् व्यस्मार्प स्वामिशासनम् ॥८७८॥ ततः प्रकुपितः सद्यः कृत्वा चाकोरसंवरम् । प्रातरके इव प्राची सभामध्यास्त केशवः ॥ ८७९ ॥ तत्र स्मृत्वा निशावृत्तं शय्यापालं प्रदर्श्य तम् । आरक्षपुरुषानेवं समादिक्षदधोक्षजः ॥ ८८०॥ अमुष्य प्रियगीतस्य कर्णयोः क्षिप्यतां ध्रुवम् । तप्तं त्रपु च तानं च दोषः कर्णकृतो ह्ययम् ॥ ८८१॥ शय्यापालं तमेकान्ते तेऽपि नीत्वा तथा व्यधुः । दुर्लक्ष्यं शासनं ह्युग्रशासनानां महीभुजाम् ।। ८८२ ॥ शय्यापालोऽपि पश्चत्वं प्राप वेदनया तया । दुर्विपाकं वेदनीयकर्माऽवभाञ्च शार्ङ्गभृत् ॥ ८८३ ॥ नित्यं विषयसंसक्तो राज्यमूर्छापरायणः । खदोलावलेपेन तृणाय गणयञ्जगत् ।। ८८४ ॥ प्राणातिपाते निःशङ्को महारम्भपरिग्रहः । क्रूरेणाध्यवसायेन शीर्णसम्यक्त्वभूषणः ॥ ८८५ ॥ नारकायुर्निबध्याब्दलक्षाशीतिं चतुर्युताम् । अतीत्यायुस्त्रिपृष्ठोऽगात् सप्तमी नरकावनिम् ॥ ८८६ ॥
तत्रावासे प्रतिष्ठाने पञ्चधन्वशतोन्नतः । त्रयस्त्रिंशत्सागरायुः सोऽपश्यत् कर्मणां फलम् ॥ ८८७ ॥ 25 त्रिपृष्ठस्साब्दसाहस्राः कौमारे पञ्चविंशतिः । तावन्तो मण्डलीकत्वेऽब्दसाहस्रं च दिग्जये ।। ८८८ ॥
ध्यशीतिवर्षलक्ष्येकोनपश्चाशत्सहस्रयुक् । राज्ये चेति चतुरशीत्यब्दलक्षायुषो मितिः ॥ ८८९ ॥ अथाचलोऽपि शोकेन भ्रातृपञ्चत्वजन्मना । परावभूवे सद्यः खर्भानुना भानुमानिव ॥ ८९० ॥ विवेश्यप्यविवेकीव भ्रातृस्नेहवशादथ । करुणखरमित्युच्चैर्विललाप हलायुधः ॥ ८९१ ॥
उत्तिष्ठ बन्धो ! निर्बन्धः कोऽयं शयनकर्मणि । अदृष्टपूर्वमालस्यं किं नृसिंहस्य तेऽधुना ॥ ८९२ ।। 30 द्वारि भूपतयः सर्वे त्वत्पादान द्रष्टुमुत्सुकाः । अदर्शनानाप्रसादस्तेषु युक्तस्तपस्विषु ॥ ८९३ ॥ क्रीडयाऽपि न ते मौनमियद् बान्धव ! युज्यते । भृज्यते हृदयं त्वद्वाक्सुधासारं विना मम ॥ ८९४ ॥
गीर्वाण:-देवः । २ उत्सवाय । शोकाय । ४ गानोपजीविनः । ५ सुस्वरत्वेन किलरेग्योऽपि अतिसुन्दरगानशीलाः । * धुरं रा.सं.का.॥ ६ संगीतविदा श्रेष्ठः। शय्यायाम् । ८ वार:-परिपाटिः, 'वारो' इति भाषायाम् ! ९ असावधाने । • मिमील, 'मीच्यां' इति भाषायाम् । ११ गलेत्-विस्मरेत् । १२ विष्णुः । १३ आकारगोपनम् । १४ सभायाम् उपविष्टः, "अधेः शी" [२.२.२०] इति द्वितीया। तां द्रुतम् सं०॥ १५ 'तृणाय' इत्यत्र "मभ्यस्यानावादि." [२.१.३५.] इति सूत्राचतुर्थी। १६ वर्षलक्षी+एकोन इति विभागः। ७ स्वर्भानुः राहुः। आग्रहः। ९भूमाते-पय-चक्षते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org