________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । अनशनमौनोदयं वृत्तेः संक्षेपणं तथा । रसत्यागस्त नुक्लेशो लीनतेति वहिस्तपः ॥ ८३२ ॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं पोढेत्याभ्यन्तरं तपः॥ ८३३ ।। दीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च । येमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ८३४ ॥ यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ ८३५ ।। तथैवाश्रवरोधेन कर्मद्रव्यैर्नर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ ८३६ ॥ यथैव सरसस्तोयं संशुष्यति पुराचितम् । दिवाकरकरालांशुपातसंतापितं मुहुः ॥ ८३७ ।। तथैव पूर्वसंबद्धं सर्व कर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ८३८ ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ८३९ ॥ चिरार्जितानि भयांसि प्रबलान्यपि तत्क्षणात । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः॥८४०॥ यथैवोपैचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसंचितम् ॥ ८४१ ॥ 10 यथा वा मेघसंघाताः प्रचण्डपवनैर्हताः । इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥ ८४२ ॥ प्रतिक्षणं प्रभवन्त्यावपि संवर-निर्जरे । प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥ ८४३ ॥ निर्जरां निर्जरों कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमामोति शुद्धधीः ॥ ८४४ ।। एवं देशनया भर्तुर्बहवः प्राव्रजन् जनाः । सम्यक्त्वं प्रतिपेदाते बलभद्र-हरी पुनः ॥ ८४५ ॥
पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः । त्रिपृष्ठपुम्भिश्चानिन्ये चतुःप्रस्थमितो बलिः ॥८४६॥15 खाम्यग्रे तत्र चोत्क्षिप्तः सोऽग्राबधं सुरैः पतन् । शेषस्य पतितस्यार्धं राज्ञाऽन्यदितरैजनैः ॥ ८४७ ॥ निर्गत्य चोत्तरद्वारा मध्यवानिवेशिते । देवच्छन्द रत्नमये निषसाद ततः प्रभुः ॥ ८४८ ॥ षट्सप्ततिगणधरग्रामणी!शुभस्ततः । वाम्यविपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ ८४९ ॥ सोऽपि द्वितीयपौरुष्यां व्यसृजद् धर्मदेशनाम् । स्वं खं स्थानं ययुः सर्वेऽपीन्द्रोपेन्द्रबलादयः ॥ ८५० ।। ततः स्थानात् प्रभुरपि प्रभाकर इवापरः । ज्ञानालोकं वितन्वानो विजहार महीतलम् ॥ ८५१॥ 20 साधूनां चतुरशीतिसहस्राणि महात्मनाम् । लक्षमेकं च साध्वीनां सहस्रत्रयसंयुतम् ।। ८५२ ॥ चतुर्दशपूर्वभृतां त्रयोदश शतानि तु । षट्सहस्यवधिमतां मनःपर्ययिणामपि ॥ ८५३ ॥ सार्धानि षट्सहस्राणि केवलज्ञानशालिनाम् । जातवैक्रियलब्धीनामेकादशसहस्यथ ॥ ८५४ ॥ पञ्चैव च सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणां सहस्रा नवसप्ततिः ॥ ८५५ ॥ अष्टाचत्वारिंशता च सहस्रैरधिकानि तु । चत्वारि लक्षाणि तथा श्राविकाणां शुभात्मनाम् ॥ ८५६ ॥ 25 आकेवलाद् द्विमासोनवर्षलक्षैकविंशतिम् । महीं विहरतो जज्ञे परिवारः प्रभोरयम् ॥ ८५७ ।। मोक्षकालं विदित्वां खं प्रभुः संमेतमेत्य च । समं मुनिसहस्रेणानशनं प्रत्यपद्यत ॥ ८५८ ॥ मासमेकं तथा स्थित्वा शैलेशीध्यानमास्थितः । नभाकृष्णतृतीयायां धनिष्ठास्थे निशाकरे ॥ ८५९ ॥ अनन्तदर्शनज्ञानवीर्यानन्दमयात्मकः । समं तैर्मुनिभिः प्राप भगवान् परमं पदम् ॥ ८६० ॥ ___ कौमारे स्वामिनो वर्षलक्षणामेकविंशतिः । द्विचत्वारिंशदब्दानां लक्षाण्यवनिपालने ॥ ८६१॥ 30 प्रव्रज्यापालने वर्षलक्षाणामेकविंशतिः । इत्यायुश्चतुरशीतिवर्षलक्षाण्यजायत ।। ८६२ ॥ पइविंशतिसहस्रारवर्षपदक्षष्टिलक्षकैः । अन्धिशतेन चोनाया अब्धिकोटेयतिक्रमे ॥ ८६३ ॥
औनोदर्यम्-उनोदरताम्-बुभुक्षाऽपेक्षया स्वल्पं भोजनम् । २ व्रतयुक्तः । ३ तत्रापि-आम्यन्तरे तपसि ध्यानस्य श्रेष्ठत्वम् इति भावः। ४ वर्धितः शरीरदोषः। ५ कर्मनिर्भरणरूपाम्, निर्जरणम्-ध्वंसः। * भिर्विवि० सं० ॥ क्षं प्रामो० सं०॥ ६ "प्रस्थ:-'एक शेर' इति ख्यातस्य"-अमरकोशटीका-कां०२ श्लो. ८९ । . 'अग्राहि+अर्धम्' इति विभागः। ८ मालोकम्वेजा। त्वाऽथ सं०॥ १नभ:-श्रावणो मासः। पत्रिंश सं०॥
त्रिषष्टि, ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org