________________
कलिकाल सर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
I
इन्द्रध्वजेन च पुरोगामिना परिशोभितः । स्वयं ध्वनदुन्दुभिना बन्दिनेोक्तमङ्गलः ॥ ८०० ॥ भामण्डलेन जिष्णुः सूर्येणेवोदयाचलः । सुरासुरनरैः कोटिसंख्यातैः परिवारितः ॥ ८०१ ॥ देवैः संचार्यमाणेषु क्रमेण च पुरः पुरः । नवसु स्वर्णपद्मेषु विन्यस्यन् पादपङ्कजे ॥ ८०२ ॥ अधिष्ठितः पुरोदेशं धर्मचक्रेण भास्वता । ततः समवसरणं पूर्वद्वाराऽविशद् विभुः ॥ ८०३ ॥ तत्र स्वागतिकमिव रणत् पट्चरणाखैः । त्रिः प्रदक्षिणयामास चैत्यवृक्षं जगद्गुरुः || ८०४ ॥ वदन् 'नमस्तीय' इति छन्दकाम्भोजकर्णिकम् । सिंहासनमलञ्चक्रे पूर्वाशाऽभिमुखः प्रभुः ।। ८०५ ॥ रत्नसिंहासनासीनान्यपराखपि दिवथ । स्वामिनः प्रतिविम्बानि विचक्रुर्व्यन्तरामराः || ८०६ ॥ प्रविश्य पूर्वद्वारेण निषेदुः साधवः क्रमात् । वैमानिकस्त्रियः साध्यचोर्ध्वा एवावतस्थिरे ॥ ८०७ ॥ प्रविश्यापीच्यद्वारेण नत्वाऽर्हन्तं च नैर्ऋते । अतिष्ठन् भवनपति - ज्योतिष्क- व्यन्तरस्त्रियः ॥ ८०८ ॥ प्रविश्य पश्चिमद्वारार्हन्तं नत्वाऽवतस्थिरे । भवनाधिपति ज्योतिर्व्यन्तराश्च मैरुद्दिशि ।। ८०९ ॥ प्रविश्य चोत्तरद्वारा भगवन्तं प्रणम्य च । क्रमेण तस्थुरैशान्यां वैमानिकनरस्त्रियः ॥ ८१० ॥ इत्थं तृतीये वग्रेऽस्याच्छ्रीमान् संघचतुर्विधः । तिर्यञ्चो मध्यमे वप्रेऽधस्तने वाहनानि तु ॥ ८११ ॥ तदा च राजपुरुषास्त्रिपृष्ठायार्धचक्रिणे । खामिनं समवसृतं संमैदादाचचक्षिरे ॥। ८१२ ॥ सद्यः सिंहासनं हित्वा पादुके परिमुच्य च । स्वामिदिक्सन्मुखं स्थित्वा ववन्दे खामिनं हरिः ।। ८१३ ॥ 15 स्थित्वा सिंहासने रूप्यकोटीरर्धत्रयोदश । स्वाम्यागमनशंसिभ्यः प्रददावचलानुजः ॥ ८१४ ॥ ऋद्ध्या महत्या सहितो बलभद्रेण शार्ङ्गभृत् । ययौ समवसरणं शरणं सर्वदेहिनाम् ।। ८१५ ।। तत्प्रविश्योत्तरद्वारा नत्वाऽर्हन्तं यथाविधि । सोऽनुशक्रं निषसाद समं मुसलपाणिना ।। ८१६ ॥ प्रणम्य स्वामिनं भूयो भक्तिभावितया गिरा । इन्द्रोपेन्द्रवलाः स्तोतुमेवमारेभिरे ततः ॥ ८१७ ॥
अमन्दानन्दनिःस्यन्ददायिने परमेश्वर ! । मोक्षकारणभूताय मोक्षायैव नमोऽस्तु ते ॥ ८१८ ॥ 20 तव दर्शनमात्रेऽपि कर्माण्यन्यानि विस्मरन् । आत्मारामी भवेद् देही किं पुनः श्रुतदेशनः ॥ ८१९ ॥ क्षीरोदः किमुदीर्णोऽसि कल्पवृक्षः किमुद्रतः । वर्णुकान्दोऽवतीर्णो वा स्वामिन्! संसारजन्मिनाम् ||८२० || uttarata विश्वास हैः क्रूरकर्मभिः । एकादशो जिनेन्द्रस्त्वं त्राता ज्योतिष्मतां पतिः ।। ८२१ ।। वक्ष्वाकुकुलं नाथ ! निसर्गेणापि निर्मलम् । निर्मलीक्रियतेऽत्यन्तं स्फटिकाइमेव वारिणा ।। ८२२ ॥ जगत्रयस्य निःशेषसंतापहरणात् प्रभो ! । पादमूलं तवाशेपच्छायाभ्योऽप्यतिरिच्यते ।। ८२३ || 25 त्वत्पादपद्मयोभृङ्गीभूय संप्राप्तसंमदः । नाहं भुक्त्यै न वा मुक्त्यै स्पृहयालुर्जिनेश्वर ! ॥ ८२४ ॥
भवे भवे भवदीयौ चरणौ शरणं मम | अभ्यर्थये जगन्नाथ ! त्वत्सेवा किं न साधयेत् ? ।। ८२५ ॥ इति स्तुत्वा विरतेषु वासवोपेन्द्रसीरिषु । श्रेयांसः श्रेयसां हेतुं प्रारेभे देशनामिति ॥ ८२६ ॥
5
10
३४०
असावपारः संसारः स्वयम्भूरमणाब्धिवत् । कर्मोर्मिभिर्भ्राम्यतेऽस्मिंस्तिर्यगूर्ध्वमधो जनः || ८२७ ॥ चर्माम्भस्य निलेनेव भेषजेन रसा इव । कर्माण्यष्टापि जीर्यन्ति ध्रुवं निर्जरयैव हि ॥ ८२८ ॥ 30 संसारवीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ ८२९ ॥
ज्ञेया सकामा मिनाकामा त्वन्यदेहिनाम् । कर्मणां फलवत् पाको यद् उपायात् स्वतोऽपि च ।। ८३० ॥ सदोपमपि दीप्तेन सुवर्ण वह्निना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ।। ८३१ ॥
"ख्यानैः सं० ॥ ५ दक्षिणद्वारेण | २ वायव्यकोणे । ३ हर्षात् । ४ वर्षणशीलः वर्षुकः । + रधन्वनि मु० ॥ इत्यर्थये का० सं० ॥ ५ सीरी -बलदेवः । ६ ताम्-प्रतयुक्तानां निर्जरा ज्ञानपूर्विका अन्येषां तु अज्ञानपूर्विकः । ७ यथा फलं स्वयं पक्कं भवति, उपायादपि पक्कं क्रियते, एवं कर्मणां विपाकोऽपि बोध्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org