________________
३३८ कलिकालसर्वजश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्व प्रायश्चित्तमिवादित्सु प्रहारकृतपाप्मनः । ईक्षाञ्चके समीपस्थं तच्च चक्रमधोक्षजः ॥ ७४० ॥ तेजोभीमं तदादाय दायादमिव भास्वतः । बलभद्रकनिष्ठोऽपि ससौष्ठवमदोऽवदत् ॥ ७४१ ॥ ऊर्जितं गर्जितं तादृक् कृत्वा यन्मुमुचे मयि । दृष्टं त्वयोजश्चक्रस्वामुष्याद्राविव दन्तिनः ॥ ७४२ ॥ गच्छ गच्छाऽधुनाऽपि त्वं स्थविरं पापवृत्तिकम् । मार्जारमिव को नाम त्वां हनिष्यति दुर्मते ! ॥७४३॥
इति श्रुत्वा हयग्रीवो दशनैरधरं दशन् । प्रकोपात् कम्पमानाङ्गः सभ्रूभङ्गोऽब्रवीदिति ॥ ७४४ ॥ अमुना लोहखण्डेन मत्तः प्राप्तेन रे शिशो! । किं नु मत्तस्तरोः त्रस्तंफलेनाऽऽप्तेन पॉवत् ॥ ७४५॥ मुञ्च मुश्च त्वमप्येतत् सारं पश्य ममापि च । चक्रमापतदप्येतद् दलयिष्यामि मुष्टिना ॥ ७४६ ॥ ततः प्रकुपितश्चक्रं भ्रमयित्वा नभस्तले । मुमोच हयकण्ठाय वैकुल्लोऽकुण्ठशक्तिकः ॥ ७४७॥
तच कर्ताऽश्वकण्ठस्य कण्ठं कदलिकाण्डवत् । निजेनैव हि चक्रेण हन्यन्ते प्रतिचक्रिणः ॥ ७४८॥ 10 मुदितैः खेचरैः पुष्पवृष्टिः शिरसि शाङ्गिणः । निदधे विदधे चोच्चैर्मुदा जयजयारवः ॥ ७४९ ॥
हयग्रीवस्य सैन्येऽपि सदैन्ये रुदितध्वनिः । समुत्तस्थौ प्रतिरवै रोद॑सी अपि रोदयन् ।। ७५० ॥ हयग्रीवाङ्गसंस्कारमग्निना स्वजना व्यधुः । निर्वापमिव कुर्वन्तः पतद्भिर्नयनाश्रुभिः ॥ ७५१ ॥ विपद्य च हयग्रीवः सप्तम्यां नरकावनौ । नारकोऽभूत् त्रयस्त्रिंशत्सागरोपमजीवितः ।। ७५२ ॥
अत्रान्तरे नभस्युच्चैरूचेऽमरवरैरिति । भो भो नृपतयः! सर्वे सर्वतो मानमुज्झत ॥ ७५३ ॥ विमुञ्चत हयग्रीवपक्षपातं चिरादृतम् । त्रिपृष्टं शरणं श्रेष्ठमुपाध्वं किन्तु भक्तितः ॥ ७५४ ॥ प्रथमो वासुदेवोऽयमुदपद्यत खल्विह । त्रिखण्डभरतक्षेत्रावनेभर्ती महाभुजः ॥ ७५५ ॥ ___ इति दिव्यां गिरं श्रुत्वा हयग्रीवस्य भूभुजः । सर्वेऽप्युपेत्य शिरसा प्रणेमुरचलानुजम् ॥ ७५६ ॥ रचिताञ्जलयश्चैवमूचुरस्माभिरत्र यत् । अज्ञानात् परतत्रत्वाचापराद्धं सहस्व तत् ॥ ७५७ ।।।
अतः परं वयं नाथ ! त्वदीयाः किङ्करा इव । करिष्यामस्तवैवाज्ञां तदाज्ञापय नः प्रभो! ॥ ७५८ ॥ 20 प्रत्युवाच त्रिपृष्ठोऽपि नापराधोऽस्ति कोऽपि वः । क्षत्रियाणां क्रमो ह्येष युद्धं स्वाम्याज्ञया खलु ॥७५९।।
विमुञ्चत प्रतिभयमयं स्वाम्यस्मि वोऽधुना । मदीयीभूय वर्तध्वं स्वस्वराज्येष्वतः परम् ॥ ७६० ॥ एवमाश्वास्य तान् राज्ञस्त्रिपृष्ठः सपरिच्छदः । जगाम पोतनपुरं पुरन्दर इवापरः ॥ ७६१ ॥ पुनश्च पोतनपुराद् दिग्जयाय जनार्दनः । साग्रजो निर्ययौ रनैश्चक्राद्यैः सप्तभिर्वृतः ॥ ७६२ ॥
जिगाय मागधं पूर्वं पूर्वाशामुखमण्डनम् । दक्षिणाशाशिरोदाम वरदामानमप्यथ ।। ७६३ ।। 25 पश्चिमाशाकृतोद्भासं प्रभासं च सुरोत्तमम् । विद्याधरेन्द्रानुभयवैतादयश्रेणिगानपि ॥ ७६४ ॥ युग्मम् ॥
श्रेणिद्वयाधिपत्यं चादत्ताग्निजटिने हरिः । फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत् ॥ ७६५ ॥ दक्षिणं भरतस्यार्धं साधयित्वैवमुच्चकैः । दिग्यात्राया न्यवर्तिष्ट त्रिपृष्टः स्वपुरोन्मुखः ॥ ७६६ ।। चक्रधरस्वार्द्धऋद्ध्यार्धनाभाद् दोर्वलेन च । प्रयाणैः कतिभिः प्राप मगधान् माधवस्ततः ॥ ७६७ ॥
ददर्श कोटिपुरुषोत्पाट्यां तत्र महाशिलाम् । इलाया इव तिलकमिलेशतिलकोऽथ सः ॥ ७६८ ॥ 30 वामेन भुजदण्डेन लीलया तां शिलां हरिः । छत्रॉयमाणामुद्दधे मूर्ध्न ऊर्च नभस्तले ॥ ७६९ ॥
१ प्रहारजन्यपापस्य । २ अधोक्षजः-वासुदेवः-त्रिपृष्ठः । ३ यदमुचो म-का० ॥ यद् +अमुच:-'अमुचः' इति अद्यतनभूतकाले द्वितीयपुरुषैकवचनम् । ४ 'अमुष्य+अद्रौ' इति विभागः। ५ नीचैः पतितेन फलेन प्राप्तेन । ६ बलम् । ७ वैकुण्ठःवासुदेवः त्रिपृष्ठः । ८ अश्वग्रीवस्य । ९ आकाशम् पृथ्वी च । १० मृतमुद्दिश्य दीयमानो जलाञ्जलिः निवापः । ११ उज्झतमुन्नत । * रणश्रेष्ठ -सं०॥ वनेभोक्ता-का०॥ १२(१) चक्रम् , (२) वनमाला, (३) नन्दकनामा असिः, (४) कौस्तुभमणिः, (५) पाञ्चजन्यः शङ्खः, (६) कौमोदकी गदा, (७) शाङ्ग धनु:-इत्येवं सप्त रत्नानि । १३ 'अर्ध+ऋज्या' अत्र "लुति हस्त्रो वा" [२.२.२.] इत्यनेन ह्रस्वत्वे सन्धेरभावः । १४ 'तिलकम् इलेशतिलकः' इति विभागः । १५ छत्रसमानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org