________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ततो धनुपि संधाय वारुणास्त्रमवारणम् । क्रोधारुणेक्षणस्तूर्णममुश्चदचलानुजः ॥ ७०९ ॥ उन्नेमुर्जलदाः सद्यो हरेरिव मनोरथाः । हयग्रीवाननमिव श्यामयन्तो नभस्तलम् ॥ ७१० ॥ वपुः प्रावृषीवाब्दा धारासारैर्निरन्तरैः । दवाग्निमिव शस्त्राग्निं शमयन्तः समन्ततः ॥ ७११ ॥ एवं तृणवदत्राणि प्रेक्ष्य भग्नानि शार्जिणा । प्रतिविष्णुरमोघं स्वं चक्रं सस्मार मारिकृत् ॥ ७१२ ॥ ज्वालाशतैर्दीप्यमानमरान्तरशतैरिख । समाकृष्य समानीतं मार्तण्डस्यन्दनादिव ।। ७१३ ॥ प्रसह्यापहतमेकमन्तकस्येव कुण्डलम् । परितः कुण्डलीभूय तक्षकाहिमिव स्थितम् ॥ ७१४ ॥ प्रवणत्किङ्किणीजालं त्रासयन खेचरानपि । स्मृतमात्रोपस्थितं तत् स जग्राहेत्युवाच च ॥ ७१५ ॥
क्षीरकण्ठोऽस्यरे! बाल ! भ्रूणहत्येव ते वधात् । इदानीमप्यहि त्वं हणीयेऽद्याप्यहं त्वयि ॥ ७१६॥ न परिस्खल्यते क्वापि कुण्ठीभवति न क्वचित् । पविः पविधरस्येव चक्रमस्त्रमिदं हि मे ॥ ७१७॥ मुक्तं चेन्मुच्यसे प्राणैर्विकल्पो न हि कश्चन । क्षत्राभिमानं मा धेहि विधेहि मम शासनम् ॥ ७१८॥ 10 बालोऽसि तन्मया क्षान्तं पूर्वदर्ललितं तव । बालत्वचापलेनैव याहि जीव ! यदृच्छया ॥७१९॥
मित्वोवाच त्रिपृष्ठोऽपि वृद्धोऽसि हयकन्धर!। कोऽन्यथा प्रलपेदेवमुन्मत्त इव दुर्वचः ॥ ७२०॥ बालोऽपि केसरी नेभीन् महतोऽपि पलायते । महतोऽपि हि किं सात तायवालोऽपसर्पति ? ॥ ७२१॥ बालोऽपि सन्ध्योरक्षोभ्यः किं क्षुभ्यति दिवाकरः? । बालोऽपि किमहं त्वत्तोऽपसामि रणाङ्गणे ? ॥७२२॥ शस्त्राणां प्राक् प्रयुक्तानां दृष्टं तावद् बलं त्वया । विमुच्यास्यापि वीक्षस्व किमवीक्ष्यैव गर्जसि ? ॥ ७२३ ॥15 ___ इत्याकर्ण्य हयग्रीवो व्योमाब्धेरौर्ववह्निवत् । शिरसि भ्रंमयामास तच्चक्रमतिभीषणम् ॥ ७२४ ॥ भ्रमयित्वा चिरतरं सर्वस्थाम्ना मुमोच सः । चक्रं तच्यवमानार्कमण्डलभ्रान्तिदं क्षणम् ॥ ७२५ ॥ यक्षःस्थले शैलशिलाविशालकठिने हरेः। चपेटयैव तच्चक्रं पपात न तु धारया ॥ ७२६ ॥ आहतस्तस्य चक्रस्य तुम्बाग्रेण दृढीयसा । पपात मूछितो विष्णुः कुलिशेनेव ताडितः ॥ ७२७ ॥ तस्थौ तत्रैव तच्चक्रं प्रतिजाग्रदिवाम्बरे । हाहारवः समुत्तस्थौ विष्णुसैन्येऽखिलेऽपि हि ॥ ७२८ ॥ प्रतिपक्षप्रहारेण भ्रातरं प्रेक्ष्य मूच्छितम् । मुमूर्च्छ नो हतोऽप्याशु बलभद्रः प्रियानुजः ॥ ७२९ ॥ सिंहनादं हयग्रीवश्चक्रे सिंह इवोच्चकैः । तत्सैन्यैर्जयशंसीव चक्रे किलकिलारवः ॥ ७३० ॥ लब्धसंज्ञःक्षणाद् रामः श्रुत्वा तं चोर्जितं ध्वनिम् । अस्थाने कस्य होऽयमिति पप्रच्छ सैनिकान् ॥७३१॥ तेऽप्यचर्देव ! दृष्टानां कुमारस्यापदाऽधना । हयग्रीवस्य सैन्यानामिदं गर्जितमंर्जितम ॥ ७३२॥ ऊचे रामोऽपि मद्वन्धोरपि व्यापत्तिरस्ति किम् । रथे शेते क्षणमसौ रणश्रान्तो ममानुजः ॥ ७३३ ॥25 मद्वन्धोापदमिमां व्यलीकां स्वमनीषया । तर्कयित्वा प्रहृष्टानामेप हर्ष हराम्यहम् ॥ ७३४ ॥ अरे! तिष्ठ हयग्रीव ! सरथं सपरिच्छदम । गदया चूर्णयाम्यद्य सद्यो मशकमष्टिवत ॥ ७३५ ॥ इत्युत्पाट्य गदां शृङ्गं रथावर्तगिरेरिव । दधाव यावत् तावच त्रिपृष्टः प्रत्यबुध्यत ।। ७३६ ॥ आर्य ! भवतः कोऽयमायासो मयि सत्यपि । इति ब्रुवन् सुप्त इव समुत्तस्थौ जनार्दनः ॥ ७३७ ॥ त्रिपृष्ठमुत्थितं दृष्ट्वा ग्रामादिव समागतम् । दोर्दण्डाभ्यामायताभ्यामालिलिङ्गाथ लागली ॥ ७३८ ॥ 30 खेशप्रबोधपिशुनो हृदि शल्यायितो द्विपाम् । हर्षकोलाहलचके हृषीकेशस्य सैनिकैः ॥ ७३९ ॥
१ वारयितुमशक्यम् । २ श्याम कुर्वन्तः । ३ प्राबृषि-मेघसमये । ४ स्यन्दन:-रथः । ५ क्षीरकण्ठो बालः । ६ भ्रणम्-र्भः। ७ लजां प्रामोमि। ८ इन्द्रस्य। ९क्षत्रियत्वाभिमानम् । * °लोडसीति म-सं० ॥ द्धिो हि हय-का०॥ १० 'न इभान्' इति विभागः। ११ तायबाल:-गरुडः। १२ संध्याराक्षसेभ्यः। "सि भ्रामया -सं०॥ पतिदक्षिणम्-सं०॥ व पर्वतः-सं०॥ १३ आपदा-तृतीयान्तम् । १°पि मे व-सं०॥ १४ लागली-बलरामः । १५ स्वस्वामिप्रबोधसूचकः, प्रबोधः-मुर्छारहितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org