________________
३३६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्ष भूयो भूयो हयग्रीवो धनुर्यद् यदुपाददे । तत् तत् त्रिपृष्ठश्चिच्छेद तन्मनोरथवच्छरैः ॥ ६८० ॥ पत्रिणाच्छिददेकेन ध्वजं प्रतिहरेहरिः । दूरं पर्यास चान्येन रथमेरण्डखण्डवत् ॥ ६८१॥ कुपितोऽथ हयग्रीवः समारुह्य रथान्तरम् । दूरादागाच्छरैर्वर्षन् धारासारैरिवाम्बुदः ॥ ६८२ ॥
न रथः सारथिर्नापि न त्रिपृष्ठो न चापरम् । अदृश्यत हयग्रीवशरदुर्दिनडम्बरे ॥ ६८३ ॥ 5 निरास शरवृष्टिं तां त्रिपृष्टः शरवृष्टिभिः । रश्मिच्छटाभिर्भगवानन्धकारमिवार्यमा ॥ ६८४ ॥
अथ क्रुद्धो हयग्रीवः सोदरामिव विद्युतः । वयस्यां कुलिशस्येव मारेरिव च मातरम् ॥ ६८५ ॥ जिह्वामिवाहिराजस्य शक्तिं शक्तिमतां वरः । समुचिक्षेप शैलेयीं शैलसारो महाभुजः ॥ ६८६॥ क्वणरिकाश्रेणिं कीनाशस्येव नर्तकीम् । राधाचक्रमिव स्तम्भेऽभ्रमयत् तां स मूर्धनि ॥ ६८७ ॥ विमानिभिर्दत्तमार्गा विमानभ्रंशभीरुभिः । अधित्रिपृष्ठं तामाशु सर्वस्थाम्ना मुमोच सः ॥ ६८८ ॥ दण्डं द्वितीयं दोर्दण्डं तृतीयं समवर्तिनः । त्रिपृष्ठोऽप्याददे दोष्णा रथात् कौमोदकी गदाम् ॥ ६८९ ॥ तया जघान तां शक्तिमापतन्ती बलानुजः । हस्तीव हस्तदण्डेन क्रीडाकारकभस्त्रिकाम् ॥ ६९०॥ स्फुलिङ्गैरुल्वणैः सोल्काशतपातं वितन्वती । क्षणेन कणशो भूत्वा पपात भुवि लोष्टवत् ॥ ६९१॥ दन्तमैरावणस्येवोद्धृतमेकं भयानकम् । परिघ परिधेनाथ मुमोच हयकन्धरः ॥ ६९२ ॥
समापतन्तं तमपि गदयाऽखण्डयद्धरिः । महोरगमिव त्रोटिकोट्या पत्ररथेश्वरः ॥ ६९३ ॥ 15 वज्राकरशिलासारं दंष्ट्रां पितूंपतेरिव । स्वसारं तक्षकस्येव हयग्रीवोऽमुचत् गदाम् ॥ ६९४ ॥
अभासीदन्तरिक्षेऽपि मङ्गु तामप्यधोक्षजः । वालुकामोदकमिव कौमोदक्या महाभुजः ॥ ६९५ ॥ एवं भग्नेषु शस्त्रेषु विलक्षो वाजिकन्धरः। विधुरे बन्धुवद् वीरः पन्नगासमथासरत् ॥ ६९६ ।। चापे संधाय नागास्त्रं मुमोचोदभवनथ । अनेकशः प्रस्फुटतो वल्मीकादिव पन्नगाः॥ ६९७ ॥
धावन्तः स्फारफुत्कारा भूमौ नभसि चाहयः । पातालकल्पं विदधुस्तिर्यग्लोकं क्षणादपि ॥ ६९८ ॥ 20 प्रलम्बा दारुणाः कृष्णाः स्फुरन्तस्ते महाऽहयः । सद्यः सहस्रधोद्भूतकेतुशङ्कां वितेनिरे ॥ ६९९ ॥
मृत्योरिवावसस्तैः सः सर्पद्भिरम्बरे । अपासर्पन दूरदूरं चकिताः खेचरस्त्रियः॥ ७००॥ जज्ञे त्रिपृष्टसैन्यानामप्याशङ्का महीयसी । स्वामिप्रभावाज्ञत्वेन भक्त्या च भवतीदृशम् ॥ ७०१॥ गारुडास्त्रमथो धन्वन्यारोप्य गरुडध्वजः । मुमोचमोचादलवत् तस्य शस्त्रस्य पन्नगान् ॥ ७०२॥ प्रादुरासन् गरुत्मन्तो विदधानाः प्रसारिभिः । स्वर्णच्छत्रशताकीर्णामिव द्यां पक्षडम्बरैः ॥७०३॥ युग्मम् ।। तेषां च पक्षमत्कारादपि नेशः समन्ततः । महाऽहयस्तमांसीव सहस्रकिरणोदमात ॥ ७०४॥ वीक्षापन्नः पन्नगास्त्रमपि वीक्ष्य निरर्थकम् । प्रदध्यावस्त्रमाग्नेयं दुर्धरं यकन्धरः ॥ ७०५ ॥ आमेयवाणं धनुपि संधाय व्यसृजच सः । ज्वालाभिरभितन्वानमुल्काशतमयीं दिवम् ॥ ७०६ ॥ मग्नं प्रदीपन इव त्रिपृष्ठस्याखिलं बलम् । और्वभीताब्धियादोवत् तदाकुलमजायत ।। ७०७ ॥ जहषुर्जहसुब्रैमुरुत्पेतुर्ननृतुर्जगुः । तालाश्च ददुरुत्ताला हयग्रीवस्य सैनिकाः ॥ ७०८ ।।
१क्षिप्तवान् । २ 'रथम् एरण्डखण्डवत्' इति पदविभागः । ३ घरिका-भाषायाम् 'घुघरीओ' । ४ समवर्तीयमः। ५ भस्त्रिका-धमनी अत्र क्रीडनकरूपा लघुर्धमनी ज्ञेया। * °घं तं प्रत्यमोघं मु-सं०॥ ६ नोटिकोटि:-चन्नुअग्रभागः। ७ गरुडः। 1 °सारां दं-सं० का० ॥ ८ पितृपतिः-यमः। ९ भज्यमानात् । १० केतुशङ्का-ध्वजशङ्का । ११ अवसर्पः-चरः । १२ भवति-ईदृशम्' इति विभागः । १३ मोचा-क्रदली। १४ पक्षसूत्कारः-पक्षध्वनिः। १५ विस्मितः।
विस्तारयन्तम् । १७ और्वः-वडवानलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org