________________
प्रथमः सर्गः ]
त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम |
३३५
5
मिलन्तः केचिदन्योऽन्यमन्यजन्यजयाऽसहाः । स्फारानास्फोटयामासुः स्फुरकान् कांस्यतालवत् ॥ ६४९ ॥ शक्तीः प्रचिक्षिपुः केऽपि सीमन्तितनभस्तलाः । तडत्तडिति कुर्वाणास्तमितस्तोयदा इव ॥ ६५० ॥ शल्यैः प्रववृषुः केचिदुरगैरिव दारुणैः । पत्रिभिः प्रस्फुरत्पत्रैः पत्रिराजैरिवापरे ॥ ६५१ ॥ बँले द्वयोरुत्पतितैः पतितैश्चैवमायुधैः । नानायुधमयीव द्यौर्धरित्रीवाऽभवत् तदा ॥ ६५२ ॥ सद्य छच्चा करोपात्तैः केऽपि प्रत्यर्थिमौलिभिः । अलक्ष्यन्त रणक्षेत्रे क्षेत्रपाला इवोद्भटाः || ६५३ ॥ रम्बा व नागायैरश्वायैः किन्नरा इव । सद्यः कबन्धोपरिष्टात् पतितैः केऽपि रेजिरे । ६५४ ॥ सद्यश्छिन्नैः परिकरे पतित्वाऽवस्थितैः क्षणम् । नाभ्यास्थानीव भूतानि स्वशीर्षैः केऽपि चाssवभुः ||६५५ ॥ कबन्धास्ताण्डवं चक्रुः केषाञ्चिदपि दोष्मताम् । सुँरीस्वयंवरोद्भूतसम्मदेनेव भूयसा ।। ६५६ ।। शिरांस्यमुञ्चन हुङ्कारान् केषाञ्चित् पतितान्यपि । कबन्धारोहणे मन्त्रानुगृणन्तीव सादरम् ॥ ६५७ ॥ एवं प्रवृत्ते समरे कल्पान्त इव दारुणे । प्रत्यर्श्वकन्धररथं त्रिष्टष्टः प्रैरर्यद् रथम् || ६५८ ॥ रामोsपि प्रेरयन् रथ्यान् रथिनामग्रणीरथ । ययौ स्नेहगुणाऽकृष्ट स्त्रिपृष्ठरथसन्निधिम् ॥ ६५९ ॥ हयग्रीवोsपि संपश्यन्नारक्ताभ्यामतिक्रुधा । प्रसारिताभ्यां नेत्राभ्यां तौ पिपासन्निवान्रवीत् ॥ ६६० ॥ तिचण्ड सिंह युवयोः कतरेण रे ! । कतरः पश्चिमान्तस्थसिंहघातेन दुर्मदः ॥ ६६१ ॥ कतरः स्ववधाषैव विषकन्यामिवोच्चकैः । कन्यां ज्वलनजदिनः पर्यणैषीत् स्वयम्प्रभाम् ॥ ६६२ ॥ कतरः स्वामिनमपि मूढधीर्मन्यते न माम् । कतरो दत्तफालो मैय्यादित्य इव वानरः ॥ ६६३ ॥ कुतो हेतोरियत्कालं सैन्यक्षय उपेक्षितः । कस्येदानीमवष्टम्भाद् युवां मां समुपस्थितौ ॥ ६६४ ॥ प्रतिंतरे बालौ ! युध्येथां च मया सह । क्रमेण युगपद् वापि सिंहेन कलभाविव ।। ६६५ ॥
अथाऽचल कनिष्ठस्तमभाषिष्ट कृतस्मितः । अहमेष त्रिष्टष्टोऽसि कर्त्ता त्वद्द्तघर्षणम् || ६६६ ॥ पश्चिमान्तहरिं हन्ता परिणेता स्वयम्प्रभाम् । अमन्ता स्वामिनं त्वां च चिरं चं त्वामुपेक्षिता ॥ ६६७ ॥ बलो नामाग्रजोऽयं मे बलेन बलसूदनः । प्रतिमल्लो न यस्यास्ति त्रैलोक्ये कीदृशो भवान् ॥ ६६८ ।। 20 अलं सैन्यक्षयेणेति तवाप्यभिमतं यदि । गृहाणास्त्रं महाबाहो ! ममैवासि रणातिथिः ।। ६६९ ।। अस्त्वावयोर्द्वन्द्वयुद्धं पूर्यतां भुज्रकौतुकम् । सभ्यीभूयावतिष्ठन्तु सैनिका उभयोरपि ॥ ६७० ॥ तथेति प्रतिपेदानौ हयग्रीव - बलानुजौ । वारयामासतुः सैन्यान्याहवाद् वेत्रपाणिभिः ।। ६७१ ।। न्यस्यैकं** लॅस्तके हस्तमपरं वैटनीतटे । चक्रेऽधिज्यं हयग्रीवो यमभ्रूभीषणं धनुः ॥ ६७२ ॥ रणश्रीकेलिसंगीततन्त्रीमिव धनुर्गुणम् । पाणिना वादयामास मयूरग्रीवनन्दनः ॥ ६७३ ॥ शॉर्ङ्गमारोपयामास शार्ङ्गपाणिरपि क्षणात् । द्विपां विनाशपिशुनं निशामत्स्यमिवोद्गतम् ॥ ६७४ ॥ वज्रनिर्घोपवद् घोरं मृत्यो चाहानमत्रकम् । द्विषां बलहरं विष्णुर्धन्वघोषमकारयत् ।। ६७५ ॥ वाणमाष्य करण्डादिव पन्नगम् । चापे संधाय चाकर्णं चकर्ष हयकन्धरः ।। ६७६ ।। कटाक्षमित्र कालस्य कल्पान्ताः शिखामिव । भौभिर्ज्वलन्तं तं वाणमुल्वणं प्रमुमोच सः ॥ ६७७ ॥ तमापतन्तं वाणेन सद्यो मुक्तेन केशवः । चिच्छेदार्जलताच्छेद म विच्छेद पराक्रमः ॥ ६७८ ॥ प्रथमेनेव वाणेन लाघवादपरेण तु । हयग्रीवस्य धन्वाऽपि निचकर्त्ताचलानुजः ॥ ६७९ ॥
१ स्फुरका: - फलकाः भाषायाम् 'ढाल' इति । २ पत्रम् - बाणाग्रम्, पक्षं च । ३ पत्रिराज:- गरुडः । * बलैर्द्वयो" सं० ॥ ४ गणपतयः । ५ कबन्धः - क्रियायुक्तं मस्तकरहितं शरीरम् - भाषायाम् 'धड' इति । ६ नाभौ आस्यं मुखं येषां तानि । ७ 'देवीस्वयंवर' इत्यर्थः । यद् द्रुतम् - सं० ॥ ९ रम्यान् रथयुक्त - घोटकान् । + निधिः का० । १० मयि - मद्रूपे आदित्ये । ११ युवां प्रतिवचनं वदतम् । १२ अवगमयिता । ॥ च त्वमुपेक्षितः - सं० ॥ भूयेऽव - सं० का० ॥ ** 'कं हस्तके-सं० ॥ १३ लस्तकम् - धनुर्मध्यम् । १४ अटनी-धनुषः अग्रम् । १५ शृङ्गनिर्मितं धनुः शार्ङ्गम् । धनुर्घोष सं० ॥ १६ भा-प्रभा । | "छेदेक्षुल-सं० का० ॥ १७ निचकर्त्त - चिच्छेद ।
८ अश्वकन्धरः - हयग्रीवः ।
Jain Education International
For Private & Personal Use Only
10
15
25
30
www.jainelibrary.org