________________
३३४
कलिकाल सर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
| चतुर्थ पर्व
1
त्वयि च स्यन्दनारूढे देवेऽपि च दिवाकरे । समुद्यतकरे कस्य तेजो जृम्भिंष्यते ननु || ६२० ॥ इत्युक्ते वह्निज टिना सैन्यमाश्वासयन् निजम् । त्रिपृष्ठो रथिनां प्रष्ठोऽध्यारुरोह महारथम् || ६२१ ॥ रथं सांग्रामिकं रामोऽप्यारुरोह महानुजः । न मुञ्चत्यन्यदाऽप्येकं सोऽनुजं किं पुनर्युधि ॥ ६२२ ॥ विद्याधराश्च ज्वलनजदिप्रभृतयो रथान् । समारुरुहुरत्युचैः सिंहा इव गिरिस्थलीम् ॥ ६२३ ॥ 5 पुण्याकृष्टास्ततो देवास्त्रिपृष्ठाय समार्पयन् । शार्ङ्गं नाम धनुर्दिव्यं गदां कौमोदकीमपि ।। ६२४ ॥ पाञ्चजन्याभिधं शङ्खं कौस्तुभं नामतो मणिम् । खङ्गं च नन्दकं नाम वनमालेति दाम च ।। ६२५ ।। ददु बलभद्राय हलं संवर्तकाभिधम् । सौनन्दं नाम मुसलं चन्द्रिकानामिकां गदाम् || ६२६ || तां दृष्ट्वा परे वीराः सर्वे सर्वात्मनाधिकम् । संभूय समयुध्यन्तै युध्यन्तकसुता इव ॥ ६२७ ॥ शङ्खरत्नं पाञ्चजन्यं जन्यनाटकनान्दिकाम् । त्रिपृष्टो वादयामास वाऽऽपूरितदिङ्मुखम् || ६२८ || 10 संवर्त पुष्करावर्त गर्जितेनेव तस्य तु । क्षुभ्यन्ति स्म प्रणादेन हयर्कन्धरसैनिकाः ॥ ६२९ ॥
केषाञ्चित्पेतुरस्त्राणि पत्राणीव महीरुहाम् । सापसारा इवाऽन्ये तु स्वयं पेतुर्महीतले । ६३० ॥ भीरवः फेरव इव प्रणेशुः केऽपि च द्रुतम् । नेत्रे पिधाय लीत्वा च केऽप्यस्थुः शशका इव ।। ६३१ ॥ उलूकवत् प्रविविशुः कन्दरात केचन । केचिदारार्टिषुः शङ्खा इव वारिवहिष्कृताः ॥ ६३२ ॥ अभूतपूर्वमम्भोधिसंशोषणमिवात्मनः । सैन्यभङ्गं समाकर्ण्य हयग्रीवोऽब्रवीन्निजान् ॥ ६३३ ॥ करे ! विद्याधरा ! याथ त्रस्ताः शङ्खध्वनेरपि । वृषभध्वनितस्येव मृगप्रभृतयो वने ॥ ६३४ ॥ को दृष्टो विक्रमस्तस्य त्रिष्टष्टस्थाऽचलस्य वा । यत्रस्ताः पशुवद् यूयं चैश्चापुरुषदर्शनात् ॥ ६३५ ॥ नानारणजयोद्भूतं युष्माभिहरितं यशः । श्रीच्छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः ॥ ६३६ ॥ व्यावर्तध्वमिदं वो हि दैवात् स्खलितमागतम् । नभश्चराणां भवतां केऽपरे भूमिचारिणः १ ॥ ६३७ ॥ युध्यध्वं माऽथवा यूयं सभ्यीभवत केवलम् । अहं खलु हयग्रीवः साहाय्यार्थी रणे न हि ॥ ६३८ ॥ 20 इत्युक्ता हयकण्ठेन नमत्कण्ठास्त्रपावशात् । विद्याधरा ववलिरे। शैलस्खलितसिन्धुवत् ॥ ६३९ ।। रथस्थो व्योमयानेन क्रूर ग्रह इवापरः । द्विपो ग्रसितुमव्यग्रो हयग्रीवोऽप्यथाचलत् ॥ ६४० ॥ वर्ष वाणैः पापाणैः शल्यैरस्त्रैरथापरैः । अधित्रिपृष्टसैन्यं सोऽखमेव इव नूतनः ॥ ६४१ ॥ अस्त्रवृष्ट्या तयाऽक्काम्यत् त्रैपृष्ठमखिलं बलम् । धीरा अपि हि किं कुर्युर्भूचरा व्योमचारिषु १ ॥ ६४२ ॥ राम- त्रिपृष्ठ - ज्वलन जटिनः स्यन्दनस्थिताः । उत्पेतुर्नभसा सद्यः समं विद्याधरैर्निजैः ॥ ६४३ ॥ 25 नभस्युभयतो विद्याधरा युयुधिरेऽधिकम् । विद्याशक्तिं दर्शयन्तो गुरुष्विव परस्परम् ॥ ६४४ ॥ भूचरा भृचरैः सार्धं सैन्ययोरुभयोरपि । क्रुध्यन्तः समयुध्यन्त गजा इव गजैर्वने ॥ ६४५ ॥ विद्याधराणामन्योऽन्यं शस्त्रैः प्रहरतां भृशम् | अदृष्टपूर्वाऽसृग्वृष्टिरुत्पातकृदिवाभवत् ॥ ६४६ ॥ अन्योऽन्याऽऽघातशब्देन शब्दायितनभस्तलम् । दण्डसंगीतवत् कैश्चिद् दण्डादण्डि प्रचक्रमे ।। ६४७ ॥ खड्गदण्डैः सदोर्दण्डचण्डिमान केचन । डिण्डिमानिव कोणेन विपक्षान् पर्यताडयन् ॥ ६४८ ॥
15
*
१ सजीकृतहस्ते । २ वृद्धि प्राप्स्यति । ३ श्रेष्ठः । 'त पितृवैराः सुता - सं० ॥ ४ 'युधि + अन्तकसुता' इति पदविभागः । अन्तकः यमः ५ संवर्त्तपुष्करावर्तः - प्रलयकालिकस्तन्नामा मेघः । ६ हयकन्धरः - अश्वग्रीवः । ७ अपस्मारो नाम विशेषप्रकारको वातव्याधिः, यत्र देहकम्पपूर्वकं मूर्च्छा आगच्छति । ८ फेरुः शृगालः । ९ दृष्टिपथातीता भूत्वा 'संताई जईने' 'छुपाई जईने' इति भाषायाम् । १० राटिं चक्रुः- भाषायाम्- 'राडोपाडी' | ११ जलनिर्गताः । १२ अत्र हेत्वर्थद्योतकपञ्चम्यर्थेऽपि षष्ठी 'वृषभगर्जनात्' इत्यर्थः । १३ चञ्चापुरुषो नाम पक्षिभयजननाय कृषिक्षेत्रे ऊर्ध्वकृतः तृणमयो वस्त्रमयो वा पुरुषाकृतिविशेषः- भाषायाम् 'चाडिया' इति प्रतीतिः । १४ कज्जललवोऽपि - भाषायाम् 'कालो बाघ' । । रे वेलाऽवलितसिन्धु - सं० ॥ १५ त्रिष्टष्ठसैन्यस्य अधिउपरि-इत्यर्थः । । या क्लान्तं त्रै-सं० ॥ १६ दण्डसंगीतम् - भाषायाम् 'दांडिया रास' इति । १७ कोणः - वीणादादनकाष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org