________________
प्रथमः सर्गः ] ____ त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
तूर्यनादैर्दिशो भिन्दन हेषा-हितबृंहितैः । सैन्यप्राग्भारभारेण कम्पयंश्च वसुन्धराम् ॥ ५९३ ॥ हरिः स्वदेशसीमान्ते शिलास्तम्भमिवोच्चकैः । भूक्षोदकरथावतॊ रथावर्ताद्रिमासदत् ॥ ५९४ ॥
॥ चतुर्भिः कलापकम् ॥ रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । दिवौकस इवाहातुं युद्धसभ्या भवन्त्विति ॥ ५९५॥ रणसोत्कण्ठयोरुचैस्त्रिपृष्ठ-हयकण्ठयोः। समापन्नान्यनीकानि देव-दैत्येन्द्रयोरिव ॥ ५९६ ॥ 5 तेषां संनह्यतामुच्चैः सैन्यानां तुमुलो दिशः । तुरङ्गमचमूक्षुण्णक्षोणिरेणुरिवारुणत् ॥५९७ ॥ सैन्यकेतुस्थितैः सिंहैः शरभैःपिभिर्गजैः । प्लवङ्गैश्च रराज द्यौररानीव भीषणा ॥५९८ ॥ बन्धवो नारदस्येव कलिकेलिकुतूहलाः । संसृप्तकाश्च संचेरुर्भटोत्साहनकर्मठाः ॥५९९ ॥
अथोपचक्रमेऽनीकमग्रानीकैयोरपि । द्यां कुर्वद्भिः शरश्रेण्या प्रोत्पतत्पतगामिव ।। ६०० ॥ अग्रानीकैस्तयोर्युद्धे शस्त्राग्निरुदभून्महान् । दवाग्निरिव शाखाग्रैः संघर्षेऽरण्यवृक्षयोः ॥ ६०१॥
10 शस्त्राशस्त्रि प्रवृत्तानां भटानाममितौजसाम् । संफेटोऽभूद् रणमुखे जलधौ यादसामिव ॥ ६०२॥ अश्वग्रीवस्याग्रसैन्यं त्रिपृष्ठस्याग्रसेनया । चक्रे पराअखं वार्द्धिवेलयेव नदीजलम् ।। ६०३ ॥ अग्रसैन्यस्य भङ्गेनाङ्गुल्यग्रस्येव तत्क्षणात् । विद्याधरवरा वाजिग्रीवगुंह्याः प्रचुक्रुधुः ॥ ६०४ ॥ तेऽभवन्नाहवोत्ताला वेतालाश्चण्डबाहवः । पिशाचा यमसाचिव्यलब्धमुद्रा इवोच्चकैः ॥ ६०५॥ विकटोत्कटदन्तानि पृथुवक्षस्तटानि च । श्यामभीमानि रक्षांसि शृङ्गाणीवाचनागिरेः ॥ ६०६ ॥ 15 लाललाङ्गलाऽऽपातस्फाटितक्षोणिमण्डलाः। मण्डेलाग्रक्रियाकारिनखाः केसरिणोऽपि च ॥ ६०७ ॥ शुण्डादण्डैस्तृणपूललीलोल्लालितदन्तिनः । उत्पादकाश्च शरभा उच्छृङ्गा इव पर्वताः ॥ ६०८॥ पुच्छराच्छोटयन्तः क्ष्मां "मोटयन्तो रदैर्दुमान् । सिंहस्तम्बेरमाकारकरालाश्च वरालकाः ॥ ६०९ ॥ अन्येऽपि द्वीपि-शार्दूल-वृपैदंश-वृकादयः । क्रव्यादाः श्वापदास्तिर्यग्भूता इव निशाचराः ॥ ६१० ॥
॥षभिः कुलकम् ॥20 कुर्वन्तो भीषणान् नादानाह्वयन्त इवान्तकम् । वरूथिनी त्रिपृष्ठस्य ते वेगादुपदुद्रुवुः ॥ ६११ ॥ __ अथ म्लानमुखाः सर्वे भग्नोत्साहाः क्षणादपि । एवं विचिन्तयामासुः प्राजापत्यस्य सैनिकाः॥६१२।। मार्गभ्रान्ता वयमिह परेतनगरे किमु । राक्षसानां किमावासे विन्ध्यस्थल्यां किमागताः! ॥६१३ ।। भूतान्येतानि सत्त्वानि क्रूराण्यश्चंगलाऽज्ञया । संग्रहतुं सहाऽस्माभिः स्वस्थानेभ्यः किमाययुः ॥६१४॥ मन्ये कन्यानिमित्तो नः प्रलयोऽयमुपस्थितः । स्थितं नः पौरुषेणाऽद्य त्रिपृष्ठश्चेत् स्वयं जयी ॥ ६१५ ॥25 एवं चिन्ताप्रपन्नेषु तेषु व्यापनबुद्धिषु । पराङ्मुखीभवत्तूंचे त्रिपृष्ठं वह्निजट्यदः ॥ ६१६ ॥ विद्याधराणां मायेयं न किञ्चित् पारमार्थिकम् । वेश्यहं सर्पघर्ष हि सो जानाति नाऽपरः॥ ६१७ ॥ अशक्तिः खयमाख्याता स्वस्सैभिर्मन्दबुद्धिभिः । शक्तः क एवं कुरुते बालस्येव विभीषिकाम् ॥६१८॥ तदुत्तिष्ठ महावीर ! समारोह महारथम् । उत्तुङ्गादवरोहन्तु मानशैलाच्च विद्विषः ॥ ६१९ ॥
हेषा-अश्वशब्द:-'हणहणाट' इति भाषायाम् । बृंहितम्-गजगर्जनम् । २ स्वर्गवासिनः। *समनह्यन्तानीकानिसं० का०॥ ३ षष्ठीबहुवचनम् । ४ अवरोधको जातः। ५द्वीपिन:-चित्रकाः 'दीपडा'-'चित्ता' इति भाषायाम् । ६ दीर्घमरण्यमरण्यानी। युद्धाद् अनिवर्त्तकाः। यत्र पक्षिण उड्यन्ते तादृशाऽऽकाराम् । ९ गृह्याः-संबन्धिनः। १० आहवः युद्धम् , तन्न उत्ताला उत्कटाः । ११ लाङ्गलम्-पुच्छम् , तद्रूपं लागलम्-हलम् , तस्य आपातः । १२ मण्डलायम्-असिः-तरवारिः । ३५ अईपादाः। १४ मोटयन्त:-भाषायाम् 'मरडी नाखता'। १५ वृषदंश:-बिलाडः । पदाः स्वैरं तिर्यग्गता निशा-सं०॥ ११ सेनाम् । १७ प्रेवनगरे। १८ अश्वगल:-अश्वग्रीवः। १९ नष्टबुद्धिषु। २० 'परापुखीभवत्सु+उचे' इति विभागः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org