________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्व गच्छतस्तस्य सहसोद्भूतचण्डानिलेन तु । छत्रस्याऽऽन्दोल्यमानस्य दण्डोऽभज्यत वृक्षवत् ॥ ५६३ ॥ अनोकहात् पुष्पमिव तारकेव नभस्तलाद । हयग्रीवशिरसस्तत् पपाताऽऽतपवारणम् ॥ ५६४ ॥ मदस्तदानीं करिणस्तस्य चाशुष्यदञ्जसा । सरसी ज्येष्टमासीव शरदीव च कईमः ॥ ५६५ ॥ मोमूत्र्यते स तत्कालं कालभीत इव द्विपः । ररास विरसं चापि नोडुरं च शिरो दधौ ॥ ५६६ ॥ रजोवृष्टिरसृष्टिर्दिवा नक्षत्रवीक्षणन् । उल्कापातस्तडित्पात इत्युत्पाताश्च जज्ञिरे ।। ५६७ ॥ दीनखरं प्ररुदितं सौरमेयैरुदाननैः । आविर्भूतं च शशकैश्चिल्लीभिर्धान्तमम्बरे ॥ ५६८ ॥ काकोलैश्चक्रिरे रोला गृधैरुपरि जृम्भितम् । स्थित ध्वजे कपोतेनेत्यासनेशकुनान्यपि ॥ ५६९ ॥ नाश्वग्रीवो दुनिमित्ताऽशकुनान्यप्यजीगणत् । यमपाशैरिवाऽऽकृष्टः किं तु प्रायादनँगैलः ॥ ५७० ॥
विद्याधरैर्गतोत्साहैर्नृपैरप्यरणोत्सुकैः । आकृष्टैर्विष्टिभिरिव स्वाधीनैरप्यवेष्ट्यत ॥ ५७१ ॥ 10 संपूर्णसैन्यः कतिभिः प्रयाणैराससाद सः। परिष्कृतरथावत तं रथावर्तपर्वतम् ।। ५७२ ॥
उपत्यकायां तस्याद्रेर्विजयादयगिरेरिव । विद्याधरक्लान्युपुरश्वग्रीवस्य शासनात् ॥ ५७३॥ ___ इतश्च पोतनपुरे स विद्याधरपुङ्गवः । उवाच ज्वलनजटी बलभद्रबलानुजौ ॥ ५७४ ॥ नैसर्गिक्याऽपि वः शक्त्या प्रतिमल्लो न कश्चन । प्रेमभीरुर्वदामीदं प्रेमास्थानेऽपि भीप्रदम् ॥ ५७५ ।।
स विद्यादुर्मदो दोष्मानूष्मलोऽनेकयुञ्जयी । हयग्रीवः खलूद्ग्रीवः शङ्कनीयो न कस्य हि ? ॥ ५७६ ॥ 15 विद्या विना हयग्रीवादन्यूनं युवयोरपि । तथापि तं युवां हन्तुं समर्थों परमर्थये ॥ ५७७ ॥
युवाभ्यामत्र कर्तव्यो विद्यासिद्ध्यै श्रमो मनाक् । यथा विद्याकृतं मायायुद्धं तस्य वृथा भवेत् ॥ ५७८ ॥ तथेति प्रतिपेदानौ शुचिवस्त्रौ समाहितौ । विद्याः सोऽन्वशिषत् प्रीतमना ज्वलनजट्यथ ॥ ५७९ ॥ मत्रबीजाक्षराण्यन्तः स्मरन्तौ भ्रातरावुभौ । अत्यवाहयतां सप्तरात्रमेकाग्रमानसौ ।। ५८० ॥
सप्तमे दिवसे जातकम्पे फणिपतौ सति । ध्यानाऽऽरूढौ बलोपेन्द्रौ विद्याः समुपेतस्थिरे ॥ ५८१ ॥ 20 गारुडी रोहिणी चैव भुवनक्षोभणी तथा । कृपाणस्तम्भनी स्थामशुम्भनी व्योमचारिणी ॥ ५८२ ॥
तमिस्रकारिणी सिंहवासिनी वैरिमोहिनी । वेगाऽभिगामिनी दिव्यकामिनी रन्ध्रवासिनी ॥ ५८३ ॥ कृशानुवर्षिणी नागवासिनी वारिशोषिणी । धरित्रीदारिणी चक्रमारणी बन्धमोचनी ॥ ५८४ ॥ विमुक्तकुन्तला नानारूपिणी लोहशृङ्खला । कालराक्षसिका छन्नदशदिक तीक्ष्णशूलिनी ॥ ५८५ ॥
चन्द्रमौलिश्च विजयमङ्गला ऋक्षमालिनी । सिद्धताडनिका पिङ्गनेत्रा वचनपेशला ॥ ५८६ ॥ 25 वनिताहिफणा घोरघोपिणी भीरुभीषिणी । विद्या इत्यादयः प्रोचुर्वशे मो युवयोरिति ।। ५८७॥ पारयामासतुानं सिद्ध विद्यावुभावपि । पुण्याऽऽकृष्टं स्वयं सर्व किं किं न सान्महात्मनाम् ? ॥५८८॥
अथ त्रिपृष्ठः सज्येष्ठः श्रेष्ठेऽह्नि विपुलेवलः । प्रजापतिज्वलनजट्यादिभिः प्रीस्थितोच्चकैः॥५८९॥ तुङ्गैस्तुरङ्गै रङ्गद्भिर्वेगिभिर्गरुडेरिव । जयश्रीवेश्मभिर्वर्यास्कन्दनैः सन्दनैरपि ।। ५९० ॥
मदोद्धुरैः कुञ्जरैरप्यतिनिर्जरकुंञ्जरैः । शादुलरिव चोत्कालगामिभिर्वरपत्तिभिः ।। ५९१ ॥ 30 नभश्चरभूचरैश्च द्यां मां च छादयन् भृशम् । शकुनैरनुकूलैः प्रेर्यमाणः स्वजनैरिव ।। ५९२ ॥
चण्डानिलेन-प्रचण्डपवनेन। २ वृक्षात् । ३ उन्नतम् । असृग्-रुधिरम् । ५ ऊर्ध्वमुखैः श्वानः । ६ चिल्ली 'समळी' इति भाषायाम् । 'चिल' इति हिन्दीभाषायाम् । ७ काकोला:-वनकाकाः। ८ रोला-रडारोळ' इति भाषायाम् । ९ आसन्+अशकुनानि-अपशकुनानि । १. उद्धतः । ११ विष्टि:-नरक हठात् क्षेपः। १२ परिष्कृतः स्थावतः स्थभ्रमणमार्गः यत्र तम् । १३ उपत्यका-तलहट्टी। १४ नैसगिकी-सहजा । १५ प्रचण्डः। १६ 'अनेकयुध्+जयी' इति विभागः। + सिद्धौसं०। १७ स्वीकृतवन्तौ। १८ समागताः। सिंहवाहिनी-सं० ।।श्रीदारणी नागबन्धनी बन्ध -सं० । °चुर्वशाः स्मो-सं० । १९ प्रास्थित-प्रस्थानं कृतवान् । २० आस्कन्दनम्-पराभवः। २. देवहस्तितोऽपि अधिकशोभायुतैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org