________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३३१ मा त्रिपृष्ठो माञ्चलो वा संप्रहार्पोन्ममाऽग्रतः । इत्युत्सुकः परिकरं बद्धोत्तस्थौ रणाय सः ॥५३३॥ प्रजह्वयुगपत्तस्मिन्नश्वग्रीवभटाः क्रुधा । स्वपक्षे हि विपक्षस्थे स्यादमझे विशेषतः ॥ ५३४ ॥ निरास तेषां शस्त्राणि शस्त्रैज्वलनजट्यपि । अपवादैरिवोत्सगान सोऽपवादबहिष्कृतः॥५३५ ॥ उपदुद्राव तान् सर्वान् निशातशरदृष्टिभिः । तेम्बेरमानिवोत्पातमेघः कैरकवृष्टिभिः ॥ ५३६ ॥ विद्याबलाद् दोर्बलाच तेषां दर्प चिरोद्भवम् । जहार ज्वलनजटी वॉर्तिकः फणिनामिव ॥ ५३७ ॥ 5 इत्यभाषत तानग्निजटी द्राग यात यात रे!। निर्माथान् वः समायातान् वराकान् को हनिष्यति ? ॥५३८॥ मध्येकृत्य हयग्रीवं नाथमायात पर्वते । रथावर्ते वयमपि समेष्यामोऽचिरादपि ॥ ५२९ ॥ तेनैवमुक्ताः सावज्ञं हयग्रीवमटा द्रुतम् । काकनाशं प्रणेशुस्ते प्राणानादाय भीरवः ॥ ५४० ॥ मपीलिप्तैरिवामन्दमन्दाक्षमलिनैर्मुखैः । तेऽपि गत्वा तदाचख्युमेयूरग्रीवसूनवे ॥ ५४१ ॥ हुताशन इवाऽऽहुत्या तद्वैचोभिरदीप्यत । सद्यो नीलाञ्जनासूनुरक्षय्यभुजविक्रमः ॥ ५४२॥ 10 कोपाऽरुणकरालाऽक्षः स रक्ष इव भीषणः । सामन्ताऽऽमात्यसेनानीप्रभृतीनेवमादिशत् ॥ ५४३ ॥ सर्वे सर्वाभिसारेण भोः समागच्छत द्रुतम् । चलत्विदानी नः सैन्यमुढेल इव सागरः ॥ ५४४ ॥ सत्रिपृष्ठाऽचलं साग्निजटिनं तं प्रजापतिम् । संहराम्येष समरे द्राग् धूमो मशकानिव ॥ ५४५ ॥ इत्युक्तवन्तं सामर्षमश्वकन्धरमुद्धरम् । धीगुणग्रामधामोचे सचिवग्रामणीरिदम् ॥ ५४६ ॥ त्रिखण्डं भरतं स्वामी लीलयैवाऽजयत् पुरा । कीत्यै लक्ष्म्यै च तजन्ये धुरिजातोऽसि दोष्मताम् ॥५४७॥15 इदानीमेकसामन्तविजयायोद्यतः स्वयम् । कां कीर्तिमथ का लक्ष्मीमर्जयिष्यति नः प्रभुः ॥ ५४८ ॥ न्यूनस्य विजयेऽपि स्यान्नोत्कर्षः कोऽपि दोष्मताम् । का श्लाघा हरिणवघे हरेः करिविदारिणः ॥५४९॥ न्यूनेन विजये दैवात् सर्वोऽप्येकपदे व्रजेत् । पूर्वाऽर्जितो यशोराशिविचित्रा हि रणे गतिः ॥ ५५०॥ सिंहवध-चण्डसिंहधर्षणप्रत्ययादपि । सत्यनैमित्तिकगिरा तत्र शङ्काऽऽस्पदं महत् ॥ ५५१॥
दासनगणो धर्तमत्रोचितः प्रभोः । महागजोऽपि ह्यज्ञात्वा धावन पड़े निमज्जति ॥५५२॥ 20 सोऽस्तु रभसाकारी क्वचिच्छरभवद् द्रुतम् । उत्पत्य भसयते सेत्स्यत्यासीनस्यापि ते हितम् ॥५५३॥ तितिक्षितमथेदृक्षं न क्षमोऽसि क्षमापते ! । आदिश्यतां तर्हि सैन्यं त्वत्सैन्यं हि सहेत का? ॥ ५५४॥ तथ्यां पथ्यां च तद्वाचमवामन्यत भूपतिः । मन्यावन्तर्मधुनीव चेतनास्तु कुतो नृणाम् ? ॥५५५॥ कातरोऽसीति सचिवं तं निर्भर्त्य सरोषणः । क्षणेन वादयामासाऽऽयुक्तैः प्रस्थानदुन्दुभिम् ॥ ५५६ ॥ तेन दुन्दुभिशब्देन सद्यः सर्वेऽपि सैनिकाः । एयुः सर्वाभिसारेण दूरात् पार्थस्थिता इव ।। ५५७ ॥ 25 स्नानागारं हयग्रीवो गत्वा मुंङ्गारवारिभिः । गङ्गातरङ्गैरुत्तुङ्गैः सलौ हंस इवाऽमलैः ॥ ५५८ ॥ उन्मृष्टाङ्गो दुकूलेन दिव्यधूपैश्च धूपितः । शुभ्रीकृताङ्गो गोशीर्षचन्दनैनन्दनाऽऽहतैः ॥ ५५९ ॥ संवीतसदशश्वेतवस्त्रो बद्धाऽसिधेनुकः । पुरोधःकृततिलकः स राजतिलकस्ततः ॥ ५६०॥ वैतालिकैः स्तूयमानो विशदच्छत्रचामरः । मदसिक्तावनितलमारुरोह महागजम् ॥ ५६१ ॥
॥ त्रिभिर्विशेषकम् ।। 30 दुर्वारैरिणैरवै रथैश्च परिवारितः । प्रचचाल हयग्रीवश्चलयनचलानपि ॥ ५६२ ॥
१ दूरीचकार । २ गजान् । ३ करका:-'करा' इति भाषायाम् । ४ सर्पवशकारी गारुडिकः । ५ यथा काका नश्यन्ति तथा। ६ मन्दाक्षम्-लज्जा । *तद्वाचाभिः का०। ७ राक्षसः। ८ सर्वतः अभिमुखतया सर्वसामध्या वा। ९ अर्बवेलायुक्तः-'वेला' भाषायाम् 'वेळ'-'भरती' इति । १० जन्यम्-युद्धम् । ११ बाहुबलवताम् । 1 °घा हारि० सं०।१२ एकपदेशीघ्रम् । का पदम्-सं० का। १३ बालकः त्रिपृष्ठः । १४ अपमानितां चकार । १५ 'मन्यौ अन्तर्मधुनि-इति विभागः । अन्तर्मधुनि मदिरायां पीतायाम् । १°वं निर्भय॑ रोमहर्षणः सं०। १६ भृङ्गार:-सुवर्णपात्रम् । कृताङ्गरागो गो सं० का०। १७ नन्दनवनादानीतैः । १८ सिधेनुका-मुरिका। १९ अचल्लाः-पर्वताः।
पाडण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org