________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
इत्युक्तस्तेन दूतेनोवाच ज्वलनजन्यपि । दत्ता कन्या त्रिपृष्ठाय कन्यादानं सकृत् खलु ॥ ५०४ ॥ अन्यस्यापि प्रदत्तस्य वस्तुनः स्वामिता न हि । किं पुनः कुलकन्याया विचारयतु स स्वयम् ।। ५०५ ।। इत्युक्तः सोऽग्निजटिना दूतोऽन्तः कलुषः खलु । उपत्रिपृष्ठमगमन्निसृष्टार्थो हि स प्रभोः ॥ ५०६ ॥ त्रिपृष्टं चेत्यभाषिष्ट समादिशति मदिरा । क्ष्मामण्डलाऽऽखण्डलस्त्वामश्वग्रीवो जगज्जयी || ५०७ ॥ 5 अस्मदर्हा कन्यकेयमज्ञानादाददे त्वया । विमुग्धपथिकेनेव राजोद्यानतरोः फलम् ॥ ५०८ ॥
ईशोsहं वः सबन्धूनां रक्षिताः स्य चिरं मया । तत् कन्यां मुञ्च भृत्यानां प्रमाणं स्वामिशासनम् ||५०९ || विकटभ्रकुटीभङ्गभीमभालस्थलस्ततः । रक्तेक्षण- कपोलश्रीस्त्रिपृष्टः प्रत्युवाच तम् ॥ ५१० ॥ स एवं जगति न्यायं प्रवर्तयति ते प्रभुः । अग्रेगूरिव लोकानामहो ! तस्य कुलीनता ।। ५११ ॥ तेन स्वविषये मन्ये विध्वस्ताः कुलयोषितः । मार्जारयूनः पुरतः किं दुग्धमवशिष्यते १ ॥ ५१२ ।। अस्मासु खामिता तस्य कुतो हन्ताऽमुना पथा ? । अन्यत्रापि स्वामिताऽस्य गत्वर्येवाचिरादपि ।। ५१३ ।। शालिभोजनस्येव तृप्तवान् जीवितस्य चेत् । स्वयम्प्रभामुपादातुं तदत्राऽगच्छतु स्वयम् ॥ ५१४ ॥ दूतत्वेन न वध्योऽसि गच्छ मा तिष्ठ सम्प्रति । तमेव हि हनिष्यामो हयग्रीवमिहाऽऽगतम् ।। ५१५ ॥ इत्युक्तो विष्णुना दूतः प्रतोदेनेव ताडितः । गत्वा शीघ्रं सर्वमाख्यदश्वग्रीवाय भूभुजे ॥ ५९६ ॥ तदाकर्ण्य हयग्रीवो लोहितायितलोचनः । प्रस्फुरद्दंष्ट्रिका केशो दशनैरधरं दशन् || ५१७ ॥ 15 वेपमानवपुर्भीमभ्रकुटीविकटार्लिकः । विद्याधरवरानेवं सावज्ञा- कोपमादिशत् ॥ ५९८ ॥ युग्मम् ॥
10
20
25
३३०
30
अहो ! दैवेन दुर्बुद्धिर्दताऽग्निर्जानः खलु । कृकलास इवाऽर्कस्य यः स्यादभिमुखो मम ॥ ५१९ ॥ आभिजात्यमहो ! तस्य कीदृशं ? यो विहाय माम् । खसुतापतिपुत्रेणाऽऽत्मकन्यां पर्यणाययत् ॥ ५२० ॥ मूर्खो मुमूर्षुरेकः स तावज्ज्वलनजव्यहो ! । प्रजापतिर्द्वितीयोऽन्यः सापत्नभगिनीसुतः ॥ ५२१ ॥ अपरश्च पितुः शालः स्वज्ञातेयेन नित्रपाः । मां प्रत्यारम्भमिच्छन्ति शृगाला इव जागरम् ।। ५२२ ।। ॥ युग्मम् ॥ विद्रावयत तान् गत्वा पवनास्तोयदानिव । शार्दूला इव हरिणान् हरयैः कुञ्जरानिव ।। ५२३ ।।
अथ विद्याधराः सर्वे रणकण्डूलबाहवः । तया स्वाम्याज्ञाऽहृष्यंस्तृषिता इव वारिणा ।। ५२४ ।। पृथक् पृथग युत्प्रतिज्ञां कुर्वाणा भुजशालिनः । स्फोटयन्त इव दिवं भुजास्फोटोद्भवै रवैः ॥ ५२५ ॥ उक्त्वा मित्रेष्विवाऽमित्रेष्वपि सङ्ग्रामकौतुकात् । मम प्राग् मा परो जैषीदित्यन्योऽन्यमतित्वराः ॥५२६॥ कशाभिस्ताडयन्तोऽश्वान् प्रेरयन्तो यतैर्गजान् । प्राजन्तः प्राजनैधुर्यानं निघ्नन्तो यष्टिभिर्मयान् ॥५२७॥ नर्तयन्तो निशातासीन् स्फारयन्तः स्फुरान् मुहुः । सज्जायन्तश्च तूणीरान् वादयन्तो धनुर्गुणान् ॥ ५२८ ॥ भ्रामयन्तो मुद्रांश्च चालयन्तो महागदाः । स्फाटयन्तस्त्रिशैल्यांश्च दधानाः परिघानपि ।। ५२९ ॥ केsपि खेन समापेतुर्भुवा केऽपि च कौतुकात् । प्रापुच पोतनपुरमश्वग्रीवस्य ते भटाः ॥ ५३० ॥ ॥ षभिः कुलकम् ॥
तेषां कलकलं श्रुत्वा दूरतोऽपि प्रजापतौ । किमेतदिति संभ्रान्तेऽवादीज्वलनजय्यदः ॥ ५३१ ॥ अमी खलु हयग्रीवेणाऽऽदिष्टाः सुभटा इह । आयान्त्यायान्तु यूयं तु प्रेक्षध्वं मम कौतुकम् ।। ५३२ ||
१ त्रिपृष्टसमीपम् । २ उभयपक्षयोः अभिप्रायं संबुध्य स्वप्रतिभया प्रतिवक्ति संदिष्टः संश्व कार्याणि करोति सः निसृष्टार्थः । ३ 'यूयम्' इति शेषः । ४ अग्रेगः - अग्रणीः । ५ गमनशीला - नाशशीला । ६ भाषायाम् 'परोणो' नामकं वृषभादिताडनसाधनम् । ७ भाषायाम् ' दाटीना केशो' । ८ अलिकम् - कपालम् । Q. कृकलासः - 'काकीडो' इति भाषायाम् । १० प्रत्यारम्भःसंग्रामः । ११ जागर:- सिंहः । १२ सिंहाः । १३ कण्डूलम् - 'खंजवाळवाळु ' - 'चळवाळु' इति भाषायाम् । १४ युद्धप्रतिज्ञाम् । १५ यताः - अङ्कुशाः । १६ प्राजना:- 'परोणा' इति भाषायाम् । १७ बलीवर्दान् । १८ उष्ट्रान् । १९ स्फुराः 'टाल' इति भाषायाम् । * त्रिशल्लीश्च सं० का० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org