________________
३२९
प्रथमः सर्गः]
विषष्टिशलाकापुरुषचरितमहाकाव्यम् । उभावपि गजारूढौ सामान्यनतिपत्तितः । अन्योऽन्य परिरेभाते सामानिकसुराविव ॥ ४७२ ॥ तयोद्वयोः क्षितिभुजोः सूर्याचन्द्रमसोरिव । द्राक सङ्गमेन दिवसः स पर्व दिवसोऽभवत् ॥ ४७३ ॥ आर्पयञ्चावासभुवं विद्याधरमहीभुजे । मैनाकायेव पाथोधिः प्रजापतिमहीपतिः॥ ४७४ ॥ तत्र विद्याधरा विद्याबलाद् व्यरचयन् पुरम् । विचित्रहर्म्यरुचिरं द्वितीयमिव पोतनम् ॥ ४७५ ॥ पुरस्य तस्य मूर्धन्ये प्रासादे दिव्यतोरणे । उवास ज्वलनजटी मेराविव दिवाकरः ॥ ४७६ ॥ सामन्ता-ऽमात्य-सेनानीप्रमुखा अपरेऽपि हि । ऊपुर्यथाहं हर्येषु विमानेष्विव नाकिनः ॥ ४७७॥ विद्याधरेन्द्रमापृच्छय प्रजापतिनृपोऽपि हि । जगाम स्वाश्रयं वेलानिवृत्त इव वारिधिः ॥ ४७८ ॥ भोज्या-ऽङ्गराग-नेपथ्यप्रभृति प्राभृतं ततः । विद्याधरनरेन्द्राय प्रजिघाय प्रजापतिः ॥ ४७९ ॥ विवाहार्थमकार्यतामुभाभ्यां रत्नशालिनौ । मण्डपौ चमर-बल्योः सभे इव शुभाकृती ॥ ४८०॥ द्वयोरपि गृहेऽभूवन् धवलामङ्गलानि च । जरत्कुलस्त्रीरचितशिक्षाचार्यकलीलया ॥ ४८१ ॥ 10 चान्दनेनाङ्गरागेण भ्राजमानः सुगन्धिना । नीलरत्नप्रतिमेव करीन्द्रमधिरूढवान् ॥ ४८२ ॥ आवृतोऽनुवरीभूय सक्योभिर्नृपात्मजैः । ययौ त्रिपृष्ठो ज्वलनजटिवेश्म स्ववेश्मतः ॥ ४८३ ॥ वेश्माये तोरणस्याधस्तस्थावथ बलानुजः । पौरस्त्य इव मार्तण्डः प्रतीच्छन्नघमण्डलम् ॥ ४८४ ॥ मङ्गलानि कुलस्त्रीषु गायन्तीषु ततो हरिः । भग्नाग्निसम्पुटः सानुवरो मोतगृहं ययौ ॥ ४८५ ॥ सदशश्वेतवसनां नयनानन्दनां हरिः । शशिप्रभामिव मूत्ता तत्रापश्यत् स्वयम्प्रभाम् ॥ ४८६ ॥ 15 उभावथाऽऽसाञ्चकाते एकस्मिन्नासने शुभे । स्वयम्प्रभा त्रिपृष्टश्च चित्रा-चन्द्रमसाविव ॥ ४८७ ॥ झल्लरीवाद्यनादेन लग्ने संसूचिते तयोः । योजयामास हस्ताब्जे पुरोधाः सम्पुटाविव ॥ ४८८ ॥ दृक्तारामेलकस्ताभ्यामुभाम्यां च व्यधीयत । नवोद्गमप्रेमतरोः सेचनोदकसनिमः ॥ ४८९ ॥ खयम्प्रभा त्रिपृष्ठश्च तथैव मिलितौ ततः । उपेयतुर्वेदिमध्यं वल्ली-विटपिनाविव ॥ ४९०॥ समिद्भिः पिप्पलादीनामन्तर्वेदि द्विजातयः । ज्वलनं ज्वालयामासुर्हविराहुतिपूर्वकम् ॥ ४९१ ॥ प्रदक्षिणीचक्रतुस्तौ प्रदक्षिणशिखोद्गमम् । वेदिवहिं वेदमन्त्राध्यापकेषु द्विजन्मसु ॥ ४९२ ।। इत्थं खयम्प्रभां देवीं परिणीय बलानुजः । तया सहाऽऽरुह्य वशी प्रतस्थे स्वगृहं प्रति ॥ ४९३ ॥ उलूलुध्वनिना तूर्यनादेन च महीयसा। उत्कर्णिताऽयमहरिजंगाम स्वगृहं हरिः॥ ४९४ ॥ __तदाऽज्ञासीद्धयग्रीवस्तद्वृत्तं चरचक्षुषा । अप्रेऽपि सिंहकथया क्रुद्धश्चक्रोध चाधिकम् ॥ ४९५ ॥ एवं च दध्यौ ज्वलनजटिना मयि सत्यपि । स्त्रीरनं दीयतेऽन्यस्मै रत्न रत्नाकरे हि यत् ॥ ४९६ ॥ 25 तस्या दातुरुपादातुस्तस्य चान्ते व्रजत्वसौ । तां कन्यां याचितुं दूतो दूतो हि प्रथमो नये ॥ ४९७ ॥ एवं विमृश्य मनसाऽनुशिष्य च रहः खयम् । व्यसृजन्नूतनं दूतं स पोतनपुरे पुरे ॥ ४९८॥ स दूतः सत्वरं गत्वा समीरणकुमारवत् । वेश्म ज्वलनजटिनः प्रविवेशेत्युवाच च ॥ ४९९ ।। दक्षिणभरतक्ष्माध लोकार्धमिव वज्रिणः । प्रशासितुर्हयग्रीवस्याऽऽज्ञया त्वां वदाम्यदः ॥ ५०० ।। तव स्वयम्प्रभानाम कन्यारत्नं गृहेऽस्ति भोः!। तां गत्वा स्वामिने देहि रत्नं नान्यस्य भारते ॥५०१।।30
स्वामी वः सकुटुम्बानामश्वग्रीवः सुताऽपि तत्। तस्याऽस्तु दीयते हन्त ! किं शिरो नयने विना? ॥५०२॥ - अश्वग्रीवं पुराऽऽराद्धं पुत्र्यदानात् प्रकोपयन् । किं हारयसि फूत्कृत्य त्वमहो! ध्मांतकाञ्चनम् १ ॥५०३।।
१ आलिङ्गिती। २ मैनाको नाम पर्वतः। ३ निवासं चक्रुः । ४ प्रेषयामास । ५ 'कृ' धातोः प्रेरणायां यस्तनी-अन्यपुरुषद्विवचनम् । ६ 'धवला' भाषायाम्-'धोळ' इति प्रसिद्धम् । ७ शिक्षकगुरुलीलया वृद्धस्त्रीभिः निर्मितानि । * "आदतो' सङ्घ० ॥ ८ अनुवरः, भाषायाम् 'अणवर' इति । ९ भाषायाम् 'मायर' इति प्रसिद्धम् । १० उपविष्टौ। ११ यज्ञह विम्यैः । । पिप्पला सं० ॥ १२ वेदिमध्ये । १३ हस्तिनीम् । १४ उलूल:-मङ्गलध्वनिः। १५ अर्श्वकर्णाः अर्यम्णः-सूर्यस्य हरयःअश्वाः येन सः, एतद् हरेः विशेषणम् । १६ वायुकुमारवत् । १७ भाषायाम्-'फूंक मारीने'। १८ अग्नितापितसुवर्णम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org