________________
३२८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थं पर्व तिष्ठन्ति चोत्तरश्रेण्यां बहवो बाहुशालिनः । रूप-यौवन-लावण्यवन्तो विद्याधरोत्तमाः ॥ ४३९ ॥ तेषां च मध्यादेकस्य कस्याप्येषा मृगेक्षणा । विचार्य दीयतां देवानुरूपं योगमिच्छता ॥ ४४० ।। अथाऽऽवभाषे सुमति म मन्त्री महीपतिम् । युक्तमुक्तमनेनेदमायुक्तेन तव प्रभो ! ॥ ४४१॥ अत्राद्रावुत्तरश्रेणिहारनायकतां गता । प्रभङ्करा नाम नगर्यनेकाद्धततकभः॥ ४४२॥ ओजो दधन् माघवनं तत्र मेघवनाभिधः । प्रातमध इवामोघः समस्ति पृथिवीपतिः॥ ४४३ ॥ सधर्मचारिणी तस्य नामतो मेघमालिनी । मालतीपुष्पमालेव शीलसौरभंसालिनी ॥ ४४४ ॥ अस्ति विद्युत्प्रभो नाम नामिताशेषभूपतिः । कन्दर्प इव रूपेणाप्रतिरूपेण तत्सुतः ॥ ४४५ ॥ तयोरस्ति च दुहिता ज्योतिर्मालेति नामतः । देवकन्येव निःसीमरूपलावण्यसम्पदा ॥ ४४६ ॥
विद्युत्प्रभकुमारस्योचिता देवी स्वयम्प्रभा । विद्युद् वारिधरस्येव द्युतिद्योतितदिअखा ॥ ४४७ ॥ 10 अर्ककीर्तिकुमारस्य ज्योतिर्मालोचिता पुनः । कन्याविनिमयेनाऽस्तु द्वयोरपि महोत्सवः ॥ ४४८॥
श्रुतसागरनामाऽथ व्याजहारेति भूपतिम् । कन्येयं रत्नभूता ते केन श्रीरिव नॉर्थ्यते ? ॥ ४४९॥ विद्याधरकुमाराणां सर्वेषामेतदर्थिनाम् । निर्विशेषत्वजनको युज्यतेऽस्याः स्वयम्बरः ॥ ४५० ।। कस्मैचिदन्यथैकस्मै ददतः कन्यकां तव । भावी विद्याधरैः साधं विरोधस्तेन किं मुधा? ॥ ४५१ ॥
सर्वेषां मत्रिणां मन्त्रं श्रुत्वैवं तान् विसृज्य च । सम्भिन्नश्रोतसं नामाऽपृच्छन्नमित्तिकं पुनः॥४५२॥ 15 अश्वग्रीवस्य वाऽन्यस्य विद्याधरवरस्य वा । निजकन्यां प्रयच्छामि यद्वाऽस्त्वस्याः स्वयम्बरः ॥४५३॥
स नैमित्तिक इत्यूचे साधुभ्योऽश्रौषमित्यहम् । यत्पृष्टो भरतेनाऽऽख्यद् भगवानृषभध्वजः॥४५४॥ त्रयोविंशतिरर्हन्तोऽवसर्पिण्यां हि मत्समाः । एकादश भविष्यन्ति राजानस्त्वत्समाः पुनः ॥ ४५५ ॥ बला नव वासुदेवा नवार्धभरतेश्वराः। नव प्रत्यर्थिनस्तेषां तेऽप्यर्धभरतेश्वराः॥५६॥
तत्र हत्वा हयग्रीवं त्रिपृष्ठो भोक्ष्यते हैरिः । सविद्याधरनगरां त्रिखण्डा भरतावनिम् ॥ ४५७ ॥ 20 सर्वविद्याधरैश्वर्यं तुभ्यमेष प्रदास्यति । कन्येयं दीयतामसै पृथिव्यां नेदृशोऽपरः॥ ४५८ ॥
हृष्टो नैमित्तिकं राजा सत्कृत्य विससर्ज तम् । दृतं तदर्थे मारीचिं प्रेषीच्चोपप्रजापति ॥ ४५९ ॥ सोऽथ विद्याधरो गत्वा प्रजापतिमहीपतिय । नत्वा स्वं ज्ञापयित्वा च विनयेनेत्यभाषत ॥ ४६० ॥ __ अस्ति ज्वलनजटिनो विद्याधरमहीपतेः । कन्या खयम्प्रभा नाम ललामाऽशेषयोषिताम् ॥४६१॥
अनुरूपवरार्थेऽस्याश्चिरं चिन्तापरायणः । अरोचकी कविरिख तस्थावग्निजटी नृपः ॥ ४६२ ॥ 25 मत्रिभिर्मत्रयमाणोऽप्युपलेभे न कञ्चन । अनुरूपं वरं राजाऽपृच्छन्नैमित्तिकं ततः ॥ ४६३ ॥
नैमित्तिकेन सम्मिन्नश्रोतसाऽऽख्यायि यत् सुता। अनुरूपा त्रिपृष्ठाय प्राजापत्याय दीयताम्॥४६४॥ प्रथमो वासुदेवोऽयं भोक्ष्यते चार्धभारतम् । श्रेणिद्वयाधिपत्यं वः प्रसन्नश्च प्रदास्यति ॥ ४६५ ॥ एवं नैमित्तिकगिरा प्रीतो मां प्राहिणोत् प्रभुः । तामादातुं त्रिपृष्ठार्थे स्वामिस्तदनुमन्यताम् ॥ ४६६ ॥
प्रीतः प्रजापतिनृपस्तथेति प्रतिपद्य ताम् । विससर्ज यथौचित्यदानपूर्वमखर्वधीः ॥ ४६७॥ 80 अश्वग्रीवाशङ्कया च नृपो ज्वलनजव्यपि । तामुद्वाहयितुं कन्यां प्रजापतिपुरं ययौ ॥ ४६८ ॥
सविद्याधरसामन्तः सामात्य-बल-वाहनः । तस्थौ तन्नगरोपान्ते मर्यादायामिवार्णवः ॥ ४६९ ॥ सप्रधानपरीवारः प्रजापतिरथ खयम् । तस्याभिमुखमागच्छत् सर्वस्याभ्यागतो गुरुः ॥ ४७० ॥ द्वयोरपि महासैन्ये मिलिते प्रीतियोगतः । चकासामासतुर्गङ्गा-यमुनाश्रोतसी इव ।। ४७१॥ ____ * गर्यस्त्यनैकाद्भत संवृ०॥ १ अनेकाश्चर्यकरपदार्थस्थानम् । २ इन्द्रसम्बन्धि । ३ अमोघः-सफलः। भिशालि मु०॥ माऽपि व्या संवृ०॥४न याच्यते। ५ वासुदेवः। ६सर्वस्त्रीणां परमनकृष्टा। ७ रुविरहितः। तस्थौ वह्निजटी मु०॥ त्यं च प्रसन्नस्ते प्रमु०॥ ॐ महाबुद्धिः। ९ महान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org