________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३२७ तस्येति वचसा शान्तः सुधावृष्ट्येव केसरी । मृत्वा बद्धवाऽऽयुरुत्पेदे नारको नरकावनौ ॥४०७॥ हयग्रीवाज्ञया तत्र तद्वृत्तं ज्ञातुमेयुषाम् । विद्याधराणां तच्चर्पियन्नूचेऽचलानुजः ॥ ४०८ ॥ तस्स घोटककण्ठस्य चकितस्य पशोरपि । अस्य सिंहस्य चर्मेदमर्म्यतां वधसूचकम् ॥ ४०९॥ वाच्यश्च वाचिकमिदं स्वादुभोजनलम्पटः । निश्चिन्तो भव विश्रब्धं भुञ्जीथाः शालिभोजनम् ॥ ४१०॥ तथेति प्रत्यपद्यन्त ते विद्याधरदारकाः । बलभद्र-त्रिपृष्ठौ तु जग्मतुर्नगरं निजम् ।। ४११॥ 5 प्रणेमतुः पितुः पादौ तत्र तौ भ्रातरावुभौ । बलस्तु कथयामास तमुदन्तमशेषतः ॥ ४१२॥ पुनर्जाताविव सुतौ मेने राजा प्रजापतिः । तेन सनृतसन्धेनं सूनुना चात्यमोदत ॥ ४१३ ॥ ते च विद्याधरा वाजिग्रीवस्य तमशेषतः । त्रिपृष्ठोदन्तमाचख्युर्वज्रपातसहोदर्रम् ॥ ४१४ ॥ __ इतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणम् । नगरं रथनूपुरचक्रवालाऽऽख्यमस्ति तत् ॥ ४१५॥ तत्र च ज्वलनजटी तेजसा ज्वलनोपमः। आसीदसामान्यऋद्धिर्विद्याधरनरेश्वरः ॥ ४१६॥ 10 बभूव तस्य महिषी प्रीतेः परममास्पदम् । नाम्नैव वायुवेगेति हंसीव त्वलसा गतौ ॥ ४१७ ॥ तस्यां राज्यां तस्य राज्ञः सूनुः समुदपद्यत । स्वप्नेऽर्कालोकनादर्ककीर्तिरित्यभिधानतः ॥ ४१८॥ खमे स्वयम्प्रभाधौताऽऽशेन्दुलेखाविलोकनात् । स्वयम्प्रभेत्यभिधया क्रमेण तनयाऽप्यभूत् ॥ ४१९ ॥ सम्प्राप्तयौवनं यौवराज्ये राजा महाभुजम् । अर्ककीति विनिदधे कीर्तिगङ्गाहिमाचलम् ॥ ४२० ॥ खयम्प्रभाऽपि सम्प्राप क्रमयोगेन यौवनम् । वनस्थलीव सुभगङ्करणी मधुसम्पदम् ॥ ४२१॥ 15 मुखचन्द्रमसा रेजे राका मूर्तिमतीव सा । केशपाशतमिस्रणाऽमावास्येव च देहिनी ॥ ४२२ ॥ तस्याः कर्णान्तगे नेत्रे कर्णोत्तंसाम्बुजे इव । कर्णौ च प्रसरन्त्योईक्सरस्योः संर्वराविव ॥ ४२३ ॥ पाणि-पादा-ऽधरदलै रक्तैर्वल्लीव पल्लवैः । साऽभात् कुचाभ्यां चोच्चाभ्यां क्रीडाँद्रिभ्यामिव श्रियः ॥४२४॥ आवर्त इव लावण्यसरितो नाभिराबभौ । अन्तरद्वीपसदृशी तस्याः श्रोणी च विस्तृता ॥ ४२५ ॥ तस्याः सर्वाङ्गसौभाग्यनिधेः प्रतिनिधिर्न हि । सुरस्त्रीष्वसुरस्त्रीषु विद्याधरवधूष्वपि ॥ ४२६॥ 20
अथाऽभिनन्दन-जगन्नन्दनौ चारणौ मुनी । विहायसा विहरन्तौ पुरे तत्र समेयतुः ॥ ४२७ ॥ ऋध्या महत्या श्रीदेवीमूर्त्यन्तरमिवेयुषी । स्वयम्प्रभाऽपि तो गत्वा ववन्दे मुनिपुङ्गवौ ॥ ४२८॥ तद्देशनां समाकर्ण्य कर्णामृतरसायनम् । सम्यक्त्वं प्रतिपेदे सा'नीलीरागमिव स्थिरम् ॥ ४२९ ॥ सम्यक् श्रावकधर्म सा प्रत्यश्रौषीत् तदन्तिके । प्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि ॥४३०॥ ततोऽन्यतो जग्मतुस्तौ विहाँ मुनिपुङ्गवौ । साऽप्यन्यदा पर्वदिने प्रत्यपद्यत पौषधम् ॥ ४३१॥ 25 पारणेच्छुर्द्वितीयेऽह्नि कृत्वार्चादि जिनेशितुः । समानीय च तच्छेषामर्पयामास सा पितुः ॥ ४३२ ॥ स विद्याधरभूपालः सद्यः प्रमदमेदुरः । शीर्षेऽध्यारोपयच्छेषामुत्सङ्गे च खयम्प्रभाम् ॥ ४३३ ।। तां दृष्ट्वोद्यौर्वनां राजा वरान्वेषणकर्मणि । चिन्ताप्रपन्नः समभूद् ऋणमग्नः पुमानिव ॥ ४३४ ॥ विसृज्य सप्रसादं तां वरं तदुचितं नृपः । सुश्रुतादीन् समाहूय परिपप्रच्छ मत्रिणः ॥ ४३५ ॥ ___ अथाऽऽदौ सुश्रुतोऽवादीदस्ति रत्नपुरे पुरे । राजा नीलाञ्जनादेवी-मयूरग्रीवयोः सुतः॥४३६॥ 30 स साधितानेकविद्यस्त्रिखण्डभरतेश्वरः । विद्याधरेन्द्रोऽश्वग्रीवाभिधानः प्रवरो वरः ॥ ४३७॥ मत्री बहुश्रुतोऽप्यूचे समतिकान्तयौवनः । स्वयम्प्रभायाः स्वामिन्या न योग्यः खल्वयं वरः ॥४३८॥
१'घोटककण्ठ' इति हयग्रीवस्य पर्यायवाचकं नाम। * °काः । त्रिपृष्ठ-बलभद्री तु संवृ०॥ २ उदन्तः-वृत्तान्तः । ३ संधा-प्रतिज्ञा। ४ सहोदरम्-तुल्यम् । । सीवत् त्व. संवृ० सं० ॥ ५ सहजप्रभा० । तिं न्यधाद राज्ये कीर्ति संह ॥ ६ सौभाग्यकारिणीं वसन्तशोभाम् । रोधको इव । ८ क्रीडापर्वताभ्याम् । ९ सौभाग्येन समानः। १० नील्या इव स्थिररागम् ; नीली-'गळी' इति भाषायाम्। ११ अर्चाविशेषाम्-मानजलम् । १२ उद्यौवना-विकसमानयौवना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.