________________
३२६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
कर्णौ शिरसि सुस्तब्धौ स्थलस्थाविव कीलकौ । अतीव पिङ्गले नेत्रे दीप्ते इव विभीषिके ॥ ३७९ ॥ अस्त्रागारं यमस्येव वक्रं दंष्ट्रारदाकुलम् । वक्राद् बहिः स्थितां जिह्वां पातालादिव तक्षकम् ॥ ३८० ॥ मौस्तोरणमिव मुखस्योपरि दंष्ट्रिकाम् । अन्तर्ज्वलन्महाकोपानलस्येव शिखाः सटाँः ॥ ३८१ ॥ नखांश्च प्राणिनां प्राणाकर्षणङ्कटकानिव । लुलन्तं पुच्छदण्डं च बुभुक्षितमिवोरगम् ॥ ३८२ ॥ 5 बिभेद् व्यात्ताननः पञ्चाननो ब्रूत्कारैदारुणः । साक्षादिव रसो रौद्रो निर्जगाम गुहागृहात् ॥ ३८३ ॥ ॥ पञ्चभिः कुलकम् ॥
अतुच्छपुच्छदण्डेन प्रचण्डेन स केसरी । भूतलं ताडयामास वज्रेणेन्द्र इवाचलम् ॥ ३८४ ॥ पुच्छाच्छोननादेन तेन शुः समन्ततः । सच्चानि तूर्यनादेन याँदांसीवान्तरम्बुधेः ॥ ३८५ ॥ आर्य ! तिष्ठ मयि सति योद्धुं तेऽवसरो न हि । इति त्रिपृष्टस्तत्रैवाऽवातिष्ठिपदथाऽचलम् ॥ ३८६ ॥ 10 पदातिना रथस्थस्य युध्यमानस्य मेsमुना । क्षत्रधर्मोचितं नैतदिति विष्णुर्जहौ रथम् ॥ ३८७ ॥
rant मे निरस्त्रेण युद्धमित्यपि नोचितम् । इत्यस्त्राण्यपि तत्याज वीरव्रतधनो हरिः ॥ ३८८ ॥ एह्येहि भो ! समित्क हरे ! तव हराम्यहम् । इति त्रिपृष्टोऽभाषिष्ट स्थामतोऽतिपुरन्दरः ॥ ३८९ ॥ तदेव वचनं सोऽपि कोपाटोपसमुत्कटः । अद्रिप्रेतिरखव्याजाद् व्याजहारेव केसरी ॥ ३९० ॥
1
केसरियुवा चेत्थं चिन्तयामास चेतसि । अहो ! अमुष्य बालस्य भृशं रभसकारिता ॥ ३९९ ॥ विना सैन्यं यदायातः स्यन्दनाद् यदवातरत् । यच्च तत्याज शस्त्राणि यन्मामाह्वास्त चोच्चकैः ॥ ३९२ ॥ उच्चपेटः प्रति सर्पं मण्डूक इव दुर्मतिः । धृष्टतायाः फलमसौ प्राप्नोत्विति विमृश्य सः ॥ ३९३ ॥ खे खेचररथ त्रस्त केसरिभ्रमदः क्षणम् । तत उत्पुच्छयमानो ददौ फालां स केसरी ॥ ३९४ ॥ तस्य चापततोऽप्योष्ठौ पाणिभ्यां स पृथक् पृथक् । संदेशाभ्यां दन्दशूकस्येव जग्राह केशवः ।। ३९५ ॥ एकेनौष्ठेन चाकर्षनेकतोऽन्येन चान्यतः । चटच्चटिति तं विष्णुः पेंटपाटमपाटयत् ॥ ३९६ ॥ 20 अत्रान्तरे जनैः सभ्यैरिव वैतालिकैरिव । रोर्दैः कुक्षिम्भरिर्भूरिश्चक्रे जयजयारवः ॥ ३९७ ॥ कौतुकान्मिलिता व्योम्नि विद्याधर- सुरासुराः । मलयानिलवत् तत्र पुष्पवृष्टिं वितेनिरे ॥ ३९८ ॥ तेच सिंहशरीरस्य देले क्षिप्ते क्षणात् क्षितौ । परिपुस्फुरतुः कामममर्षामुक्तचेतने ॥ ३९९ ॥ महता सोऽपमानेन परतत्रशरीरकः । द्विधाभूतोऽपि हि हरिः स्फुरनेवमचिन्तयत् ॥ ४०० ॥ अहो ! प्रौढैरपि नृपैः सन्नद्धसुभटावृतैः । सास्त्रैरपि न सोढोऽस्मि योऽहं पविरिवापतन् ॥ ४०१ ॥ 25 बालेनैकाकिनाऽनस्त्रेणामुना मृदुपाणिना । हा ! हतोऽस्मीति खेदो मे न पुनर्वधमात्रतः ॥ ४०२ ॥ एवं च चिन्तया तस्य वेतो दन्दशूकवत् । ज्ञात्वाऽभिप्रायमित्यूचे मधुरं विष्णुसारथिः ॥ ४०३ ॥ लीलानिर्भिन्नमत्तेभाऽपराभूत ! चमूशतैः । मृगराज ! किमेवं त्वमभिमानेन ताम्यसि । ॥ ४०४ ॥ अयं खलु भटष्ठत्रिपृष्ठो नाम भारते । प्रथमः शार्ङ्गिणां बालो वयसा न तु तेजसा ।। ४०५ ॥ नरेषु सिंहः खल्वेष पशुषु त्वं तु तत् तव । हतस्यानेन का व्रीडा श्लाघा प्रत्युत तद्रणे ॥ ४०६ ॥
15
* पिङ्गे नयने दी° सं० ॥ १ दंष्ट्रा - दाढा । रदाः दन्ताः । आकुलम् - व्याप्तम् - परिपूर्णम् । २ यमगृहतोरणम् । ३ 'सटाः' - भाषायाम् ' सिंहकेशवाळी -याळ' इति । ४ ' अंकुटक' इति भाषायाम् ' अंकोडो' नामकम् आकर्षणसाधनम् । ५ पूर्वोक्तानि नेत्रादि पुच्छान्तानि बिभ्रत् धारयन् । ६ गर्जनाभयङ्करः । ७ यादांसि - हिंस्राणि जलचराणि । अन्तर्-मध्ये, अम्बुधेः- समुद्रस्य । ८ युद्धरूपां कण्डूम् । ९ अद्विप्रतिध्वनिमिषेण । १० प्रसारितपाणिः । अत्र 'पाणि' शब्देन 'चपेटा- पंजो' इति भाषायाम् । ११ पुच्छं ऊर्ध्वं वर्तुलाकारेण प्रसारयन् । १२ भाषायाम् - 'संदेश' इति 'सांडसो' इति नाम्ना प्रसिद्धं सर्पग्रहणसाधनम् । १३ वस्त्रच्छेदवत् । १४ आकाश भूम्यन्तरालपूरकः । १५ खण्डद्वयम् । १६ कम्पमानस्य । १७ प्रष्ठः - अग्रणीः । १८ भार्डी- वासुदेवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org