________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३२५ सरन् खप्रतिपन्नं च दूत एवं व्यजिज्ञपत् । भक्तोऽहमिव ते देव ! स्वयं राजा प्रजापतिः ॥ ३४८ ॥ यच्चके तत् कुमाराभ्यां सा वालसुलभाज्ञता । खिद्यते त्वधिकं तेन कर्मणा स कुमारयोः ॥ ३४१॥ अतिशेषे यथा शक्त्या त्वमशेषेषु राजसु । तथाऽतिशेते भक्त्या च प्रजापतिनृपस्त्वयि ॥ ३५० ॥ कुमारदोषेणाऽऽत्मानं स गर्हति चिरं नृपः । त्वच्छासनमुपादत्ताऽदत्त चेदमुपायनम् ।। ३५१ ॥ इत्युक्त्वाऽवस्थिते दूते हयग्रीवो व्यचिन्तयत् । दृष्टैकप्रत्यया जज्ञे तस्य नैमित्तिकस्य वाक् ॥ ३५२ ॥ 5 प्रत्ययश्चेद् द्वितीयोऽपि स सिंहवधलक्षणः । भविष्यति तदा मन्ये शङ्कास्थानमुपस्थितम् ॥ ३५३ ॥ विमृश्यैवं तदा दूतान्तरेणाथ प्रजापतिम् । त्रायस्व शालिक्षेत्राणि सिंहादिति समादिशत् ॥ ३५४ ॥ प्रजापतिः समाहूय कुमारावित्यभाषत । फलितं वां दुर्ललितमकाण्डे सिंहरक्षया ॥ ३५५ ॥ आज्ञा चेत खण्ड्यतेऽकाण्डे हयग्रीवोऽन्तकायते । तदाज्ञा खण्ड्यते नो चेत तदा सिंहोऽन्तकायते॥३५६॥ असावुभयथाऽस्माकमपमृत्युरुपस्थितः । तथापि सिंहरक्षार्थ वत्सौ ! गच्छामि सम्प्रति ॥ ३५७ ॥ 10 कुमारावूचतुतिमश्वग्रीवस्य पौरुषम् । ज्ञातो भयङ्कर इति स येन पशुना पशुः ॥ ३५८ ॥ तिष्ठ तात ! ब्रजिष्यावो हनिष्यावोऽचिरेण तम् । सिंह नृसिंह ! का तत्र स्वयं यात्रा तव प्रभो! ॥३५९ ।। सविषादं जगादैवं प्रजापतिनृपोऽप्यथ । क्षीरकण्ठावनभिज्ञौ कृत्या-ऽकृत्येषु कर्मसु ॥ ३६० ॥ एकं तावद् कृतं कर्म तिष्ठद्भ्यां गोचरेऽपि मे । व्यालेभदुर्ललिताभ्यां भो ! भवद्भ्यां कुमारकौ ! ॥३६१ ॥ तस्यापि कर्मणः सद्यः फलमेतदुपस्थितम् । दूरस्थौ यत् करिष्येथे तत्फलं किं भविष्यति ? ॥ ३६२ ॥ 15 अथ त्रिपृष्ठः प्रत्यूचे केयं सिंहविभीषिका । दयते तेन बालेन बालानामिव भूभुजाम् ? ॥ ३६३॥ कृत्वा तात! प्रसादं नौ तिष्ठत्वत्रैव सम्प्रति । गत्वा सिंहं हनिष्यावः सहाऽश्वग्रीववाञ्छितैः ।। ३६४॥ इत्थं कथमपि क्षमापं तौ प्रतीक्ष्य प्रजग्मतुः । सारस्वल्पपरीवारौ तां सिंहाध्युषितां भुवम् ॥ ३६५ ॥ सिंहेन निहतानेकभटास्थीनि गिरेरधः । कुमारौ तद्यशोराशिमिव मूर्त्तमपश्यताम् ॥ ३६६ ॥ तुङ्गवृक्षाधिरूढांस्तौ शालिक्षेत्रकृपीवलान् । पप्रच्छतुरिति क्षमापैः सिंहोऽयं रक्षितः कथम् ॥ ३६७॥ 20 आचख्युः क्षेत्रिणोऽप्येवं हे वीराविह भूभुजः । सन्नद्धैः कुञ्जरवरैस्तुरङ्गैः स्यन्दनैभटैः ।। ३६८ ॥ विरचय्य महाव्यूहं सिंहस्याकाघुरन्तरे । संवरं स्रोतस इव दीर्घिकामिव दन्तिनः ॥ ३६९ ॥ हन्यमानैर्दीयमाणैः सैनिकैस्तैर्महाभुतः । सिंहादसाद् ररक्षुनः प्राप्तजीवितसंशयाः ॥ ३७० ॥
॥त्रिभिर्विशेषकम् ॥ इति तेषां वचः श्रुत्वा मित्वा चाऽचल-केशवौ । सैन्यं निधाय तत्रैवाध्यातां सिंहगुहाममि ॥ ३७१ ॥25 तयोश्च स्थनिर्घोषान्मेघनि?पसोदरात् । बन्दियोपादिव नृपः सिंहः सद्यो व्यबुद्ध सः॥ ३७२ ॥ किश्चिदुन्मीलयन नेत्रे कृतान्तस्येव दीपिके । तस्येव चामरं धुन्वन्नुदारां केसरच्छटाम् ॥ ३७३ ॥ रसातलद्वारमिव जृम्भया स्फाटयन भुखम् । किञ्चिदाकुश्चितग्रीवः प्रेक्षाश्च स केसरी ॥३७४॥ युग्मम् ॥ रथमात्रपरीवारी तो नरों वीक्ष्य केवलो । अवज्ञया प्रसुष्वाप सोऽथ कृत्रिमनिद्रया ॥ ३७५ ॥ सर्वाभिसारिभिर्भूपैर्दत्वा हस्त्यादिभिर्वलिम् । शालिक्षेत्राणि रक्षद्भिर्गर्वमारोपितो ह्यसौ ॥ ३७६ ॥ 30 आमेत्युक्तोऽचलेनाथ पुरोऽभ्येत्य च किञ्चन । मल्लो मल्लमिवाऽऽह्वास्त नृसिंहः सिंहपुङ्गवम् ॥३७७॥ विष्णोस्तमृर्जितं शब्दमाकर्योत्कर्णिताऽऽननः । विसिमिये सोऽपि सिंहो वीरः कोऽपीति चिन्तयन्।।३७८॥
१ स्वप्रतिज्ञामित्यर्थः। २ अतिशयवान् असि । अतिशेते-अतिशययुक्तः वर्तते । ३ दुश्चेष्टितम् । ४ अन्तकः-यमः तत्समशः। आज्ञाखण्डने हयग्रीवः यमसदृशः । आज्ञापालने कृते सिंहः यमसदृशः। ५ क्षीरकण्ठः-बालः। ६ व्यालेभः-उन्मत्तगजः। ७ सिंहभयम् । ८ आवाभ्याम्-आवयोपरि । त्वा च बलके मुद्रिते । अभि-मुखम् । १० विपक्षः। ११ उस्कर्णितम्-अर्ध्वकर्णम् । आननम्-मुखम् ।
त्रिषधि,४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org