________________
३२४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व तदत्र संहर रुषं पुरुषे परुषेऽपि हि । दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः ॥ ३१७ ॥ इत्युक्तो बलभद्रेण त्रिपृष्ठो मुष्टिमुद्यताम् । करपाशं करीवाऽऽशु संहृत्येत्यादिशद् भटान् ॥ ३१८ ॥ जीवितव्यं विमुच्यैकं रङ्गभङ्गविधायिनः । अस्थाऽपहरताऽशेषमपरं दूतपाप्मनः ॥ ३१९ ॥ तमाज्ञया कुमारस्य यष्टिभिसृष्टिभिर्भटाः । अताडयन् सारमेयं प्रविष्टमिव वेश्मनि ॥ ३२० ॥ अपजहुरशेषं तत् तस्यालङ्करणादिकम् । प्रापितस्य वधस्थानं वध्यस्याऽऽरक्षका इव ॥ ३२१॥ प्रहारान् वश्चयमानः प्राणत्राणकृते चिरम् । क्रीडाकार इवेभस्य सोऽलुठत् पृथिवीतले ॥ ३२२ ॥ परितस्तत्परीवारो मुक्त्वा प्रहरणादिकम् । जीवग्राहं पलायिष्ट भक्ष्यं सन्त्यज्य काकवत् ।। ३२३ ॥ कुट्टयित्वा रासभवल्लुञ्चित्वा कलविङ्कवत् । विन विटवत् तं तु कुमारावीयतुहम् ॥ ३२४ ॥
विदाञ्चकार तत् सर्वं जनश्रुत्या प्रजापतिः । एवं विचिन्तयामास सशल्य इव चेतसि ॥ ३२५ ॥ अहो ! मम कुमाराभ्यां युक्तं नाऽऽचरितं ह्यदः । कस्याग्रे कथयाम्येतत् खेनाश्वेनेव पातितः ? ॥३२६ ॥ न धर्षितश्चण्डवेगोऽश्वग्रीवः किन्तु धर्षितः । दूता हि प्रतिरूपाणि प्रभूणां सञ्चरन्त्यमी ॥ ३२७ ॥ न यावद् यात्यसौ तावदनुनेयः प्रयत्नतः । यत उत्तिष्ठति 'शिखी निर्वाप्यस्तत एव हि ॥ ३२८ ॥ एवं विचिन्त्य पुरुषैः प्रधानैस्तं महीपतिः । आनाययदनुनीय वचोभिः प्रेमपेशलैः ॥ ३२९॥
चकार सविशेषां च प्रतिपत्तिं कृताञ्जलिः । कुमारकृतकालुष्यप्रक्षालनजलप्लुतिम् ।। ३३० ॥ 15 चतुर्गुणं महामूल्यं तस्य च प्राभृतं ददौ । प्रकोपशान्तये शीतोपचारमिव दन्तिनः ॥ ३३१ ।।
ऊचे च राजा यद् वेत्सि योवनेऽभिनवे सति । कुमारका दुर्ललिताः सामान्यश्रीमतामपि ॥ ३३२॥ विशेषतो मम स्वामिप्रसादोद्भूतसम्पदा । निरँगलौ कुमारौ तावेदान्तौ वृषभाविव ।। ३३३ ॥ बढताभ्यामपराद्धं त्वयि यद्यपि मानद ।। दःस्वममिव विस्मार्य तथाप्येतत त्वया सखे।। ३३४ ॥
आवयोरक्षता प्रीतिः सदा सोदरयोरिव । त्याज्या नैकपदे साऽद्य मन्मनोवृत्तिकोविद ! ॥ ३३५॥ 20 कुमारयोर्दुर्ललितमिदं च भवताऽनघ ! । नाश्वग्रीवाय विज्ञाप्यं निकषोऽयं क्षमावताम् ।। ३३६ ॥
इति सामसुधावृष्ट्या शान्तकोपहुताशनः । चण्डवेगोऽप्युवाचैवं गिरा स्नेहादचण्डया ॥ ३३७ ॥ स्वया सह चिरात् प्रेम्णा कोपोऽपि न मया कृतः। राजन् ! क्षन्तव्यमिह किं ? त्वत्पुत्रौ न ममापरौ ॥३३८॥ डिम्भानां दुर्नये दण्डो धुपालम्भः प्रकीर्तितः । निवेदनं राजकुले नेति लोकेऽपि हि स्थितिः ॥ ३३९ ॥ राज्ञे विज्ञपयिष्यामि नेदृक्षं त्वत्कुमारयोः । कवलः शक्यते क्षेप्तुं नाक्रष्टुं हस्तिनो मुखात् ॥ ३४० ॥ विब्धीभव तद् राजन् ! गच्छामि विसृजाऽद्य माम् । मनागपि न कालुष्यं विद्यते मम चेतसि ॥३४१॥ इत्युक्तवन्तं तं दूतं परिरम्य स्वबन्धुवत् । विरचय्याञ्जलिं राजा विससर्ज प्रजापतिः ।। ३४२ ॥ ___ अश्वग्रीवान्तिकं दूतः स ययौ कतिभिर्दिनैः । तद्धर्षणकथा त्वग्रे वर्धापकपुमानिव ॥ ३४३ ॥ तदा हि चण्डवेगस्य त्रस्तः सर्वपरिच्छदः । त्रिपृष्ठोद॑न्तमखिलं शशंसाऽऽगत्य भूपतेः॥ ३४४ ।।
दूतोऽद्राक्षीद् हयग्रीवमुद्रीवं रक्तलोचनम् । जगत्कवलनोद्युक्तमिव वैवस्वतं स्थितम् ।। ३४५॥ 30 मन्ये मद्धर्षणोदन्तो राज्ञो व्यज्ञपि केनचित् । दूतोऽपि निश्चिकायैवमिनितज्ञा हि सेवकाः ॥ ३४६ ॥
राज्ञा पृष्टः स आचख्यौ वृत्तान्तमभितोऽपि तम् । उग्राणां स्वामिनां ह्यग्रे कोऽन्यथा वक्तुमीश्वरः ॥३४७॥
25
'न+एरण्डपादपः' इति विभागः। २ सारमेयः-कुकुरः। ३ जीवनाई पलायिष्ट-'जीव लईने भाग्यो' इति भाषायाम् । ४ कल विकाः-भाषायाम् 'चकलो'। ५ वाचा अपमानं कृत्वा । ६ शिखी-अग्निः । निर्वाप्य-शमनीयः। ७ प्रतिपत्ति:-आदरः। ८ निरर्गल:-स्वच्छन्दः। ९ तौ+ अदान्तो' इति । * त् पुरास का०॥ १० अनघः-निर्दोषः। १५ निकषः परीक्षा। १२ डिम्भाः-बालाः। ३ विन्धः विश्वासयुक्तः। १५ तदपमानकथा । १५ वर्धापक:-भाषायाम् 'वधामणी देनारो मनुष्य'। १६उदन्तः-वृत्तान्तः। १.वैवस्वतः-बमः। १४निधिकाय-निश्चयं चकार । इजिवम्-मनोवृत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org