________________
प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
३२३ अनिषिद्धगतिःस्थैर्विद्युद्दण्ड बोच्चकैः । तत्राऽऽस्थाने प्रविवेश चण्डवेगो झटित्यपि ॥ २८६ ॥ अकस्मादागतं दृष्ट्वा ससामन्तः प्रजापतिः । स्वामिवत् खामिदूतं तमभ्युदस्थात् ससम्भ्रमम् ॥ २८७ ॥ महत्या प्रतिपत्त्या तमुपावेशयदासने । स्वामिनो वाचिकं सर्वमपृच्छच्च स भूपतिः ॥ २८८ ॥ सङ्गीतकस्य सञ्जज्ञे भङ्गोऽकाण्डे तदागमात् । आगमाध्ययनस्येव विद्युदालोकमात्रतः ॥ २८९ ॥ गृहं निजनिजं जग्मुः सर्वे सङ्गीतकारिणः । स्वामिनि व्यग्रचित्ते हि नावकाशः कलावताम् ॥ २९०॥ ।
तं रङ्गभङ्गकर्तारं दृष्ट्वा भृशममर्षणः । पार्श्वस्थं पुरुषं कश्चित् त्रिपृष्ठः पृष्टवानिति ॥ २९१ ॥ अये ! कोऽसमयज्ञोऽयं पशुः पुरुषरूपभृत् । अज्ञापितस्वाऽऽगमनः प्राविशत् तातपर्षदि ? ॥ २९२ ॥ अभ्युत्तस्थौ कथं दृष्ट्वा तात एनं ससम्भ्रमः १ । निषिद्धश्च कथं नैष प्रविशन् वेत्रपाणिना? ॥ २९३ ॥ अथेत्थं कथयामास त्रिपृष्ठाय स पूरुषः । दूतो राजाधिराजस्य हयग्रीवस्य नन्वयम् ॥ २९४ ॥ त्रिखण्डे भरते ह्यसिन् राजानस्तस्य किङ्कराः । ततस्तस्येव दूतस्याप्यभ्युत्तस्थौ पिता तव ।। २९५ ॥ 10 द्वाःस्थेनापि निषिद्धस्तन्नायमौचित्यवेदिना । ने श्वाऽप्यास्कन्धतं यस्मात् स्वामिनः किं पुनः पुमान् ? ।।२९६॥ असिन् प्रसादिते राजा हयग्रीवः प्रसीदति । तत्प्रसादेन राज्यानि राज्ञां नन्दन्ति सम्प्रति ।। २९७ ॥
खलीकृतेऽवज्ञयाऽसिन् हयग्रीवः खलीभवेत् । दृतदृष्ट्यनुसारेण प्रवर्तन्ते हि भूभुजः ॥ २९८ ॥ खलीभूते स्वामिनि हि कृतान्त इव दुःसहे । नेष्यते जीवितमपि नृपै राज्ये तु का कथा ? ॥ २९९ ॥ अभाषिष्ट त्रिपृष्ठोऽपि न जात्या कोऽपि कस्यचित् । स्वामी वा सेवको वाऽपि शक्त्यधीनमिदं खलु ॥३००॥15 वायात्रेण न तं तावत् पँर्यस्यामोऽधुना वयम् । स्वप्रशंसेवाऽन्यनिन्दा सतां लज्जाकरी खलु ।। ३०१॥ तातन्यकारकारं तमुत्तानशयमोजसा । छिमग्रीवं हयग्रीवं करिष्ये समये न्वहम् ।। ३०२ ।। प्राप्तकालमिदं तावत् तातेनैष विसृज्यते । यदा तदा निवेद्यं मे करोम्यस्योचितं यथा ।। ३०३ ॥ सोऽनुमेने प्रमान् राजविरुद्धमपि तद्वचः । राजबद् राजपुत्रोऽपि मान्यो राजानुजीविनाम् ॥ ३०४ ॥ निजाधिकारिणमिव समुद्दिश्य प्रजापतिम् । राजप्रयोजनान्यूचे चण्डवेगोऽपि कानिचित् ॥ ३०५ ॥ 20 तथेति प्रतिपद्यार्थमावर्य प्राभृतादिना । प्रजापतिनरेन्द्रेण चण्डवेगो व्यसृज्यत । ३०६ ।। __स प्रीतः सपरीवारः प्रतस्थे स्वपुरी प्रति । जगाम पोतनपुराद् बहिः स्यन्दनमास्थितः ।। ३०७ ॥ ज्ञात्वा त्रिपृष्ठस्तं यान्तं पुरोभूय सहाऽचर: । दवाऽनल इवाध्वन्यं सोनिलो रुरुधेतराम् ॥ ३०८ ॥ त्रिपृष्ठ इत्यभाषिष्ट धृष्ट ! पापिष्ठ ! दुष्ट !! । दूतमात्रत्वमप्याप्य राजवद् वर्तसे पशो! ।। ३०२॥ सङ्गीतरङ्गभङ्गं त्वं मूर्खाऽकार्यथा तथा । अमुमूर्षुः पशुरपि कोऽन्यः कुर्यात् सचेतनः ? ॥ ३१० ॥ 25 गृहे गृहस्थमात्रस्याप्यायातो भूपतिः स्वयम् । ज्ञापयित्वा प्रविशति नीतिरेषा मनीषिणाम् ॥ ३११ ॥ त्वं भुवं स्फोटयित्वेवाऽज्ञातोऽकाण्डे समागमः । तातेनर्जुस्वभावेन सत्कृतश्चासि तन्मुधा ॥ ३१२ ॥ दुर्विनीतो यया शक्त्या तां प्रकाशय सम्प्रति । इदं ते दुर्नयतरोः फलं दाग दर्शयाम्यहम् ।। ३१३ ॥ इत्युक्त्वा मुष्टिमुद्यम्य त्रिपृष्ठः प्रपिनष्टि तम् । तावत् तावत् पुरैःस्थायेत्यूचे मुशलपाणिना ।। ३१४ ॥ अलमत्र प्रहारेण कुमार! नरकीटके । न चपेटा शृगालेषु क्रोशस्वपि मृगद्विषः ॥ ३१५ ॥ 30 दत इत्येष नो वध्यः प्रतीपान्याचरन्नपि । ब्राह्मण्येन द्विजन्मेव विरूपमपि हि ब्रुवन् ।। ३१६ ॥
वाचिकम्-संदेशः। २ आगमः आगमनम् । ३ सति विधुदालोके आगमस्वाध्यायनिषेधः शास्त्रे श्रूयते, मन 'असज्झाय' नामा जैनपरम्परायां प्रसिद्धः। ४ वेत्रपाणि:-द्वारपालः। ५ यस्मात् स्वामिन:-स्वामिसम्बन्धी श्वा-सारमेयः-कुकरः अपि न बास्कन्यते, पुमान् सु कथम् आर म्दनीयः ? । पार..न्दनम-रोमनम्। ६ अपमानिते। . आ अपामः । ८ तासान का. निणम् । ९ गजभृत्यानाम् । १० नजाधीनकर्मकरमिव । ११ संतोष्य । १२ पवनसहिनः दबानल इस अन्यम्-पथिकम ।
॥ भूतकाल-अद्यतन-द्वितीयपुरुष-एकवचन । १४ तातेन ऋजुस्वभावेन' इति विभागः। *रः स्थि-वस्यूचे संवृ०॥ १५ सुभमपाणि:-बलदेवः। १६ चपेटा-भाषायाम् 'सापोट-भडबोत' इति । १७ मृगद्विद-सिंहः। १८ ब्राह्मणत्वेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org